🪷 उत्तरकाण्ड · Sarga 8

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 8 · 29 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.8.1
हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः ।माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः ॥७-८-१॥
Vālmīki 7.8.2
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः ।पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥७-८-२॥
Vālmīki 7.8.3
नारायण न जानीषे क्षात्रधर्मं पुरातनम् ।अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ॥७-८-३॥
Vālmīki 7.8.4
पराङ्मुखवधं पापं यः करोत्यसुरेतरः ।स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥७-८-४॥
Vālmīki 7.8.5
युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर । ४अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ॥७-८-५॥
Vālmīki 7.8.6
माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् ।उवाच राक्षसेन्द्रं तं देवराजानुजो बली ॥७-८-६॥
Vālmīki 7.8.7
युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् ।राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥७-८-७॥
Vālmīki 7.8.8
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया ।सो ऽहं वो निहनिष्यामि रसातलगतानपि ॥७-८-८॥
Vālmīki 7.8.9
देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् ।शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ॥७-८-९॥
Vālmīki 7.8.10
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना ।हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥७-८-१०॥
Vālmīki 7.8.11
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ।माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥७-८-११॥
Vālmīki 7.8.12
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता ।काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ॥७-८-१२॥
Vālmīki 7.8.13
सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते ।अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ॥७-८-१३॥
Vālmīki 7.8.14
तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः ।माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥७-८-१४॥
Vālmīki 7.8.15
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् ।प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥७-८-१५॥
Vālmīki 7.8.16
तथैव रणरक्तस्तु मुष्टिना वासवानुजम् ।ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥७-८-१६॥
Vālmīki 7.8.17
ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः ।आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥७-८-१७॥
Vālmīki 7.8.18
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् ।व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ॥७-८-१८॥
Vālmīki 7.8.19
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् ।सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥७-८-१९॥
Vālmīki 7.8.20
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः ।स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥७-८-२०॥
Vālmīki 7.8.21
एवं ते राक्षसा तेन हरिणा कमलेक्षण ।बहुशः संयुगे भग्ना हतप्रवरनायकाः ॥७-८-२१॥
Vālmīki 7.8.22
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः ।त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ॥७-८-२२॥
Vālmīki 7.8.23
सुमालिनं समासाद्य राक्षसं रघुसत्तम ।स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥७-८-२३॥
Vālmīki 7.8.24
ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः सुमाली माल्यवान्माली ये च तेषां पुरःसराः ।सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ॥७-८-२४॥
Vālmīki 7.8.25
न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ।ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥७-८-२५॥
Vālmīki 7.8.26
भवान्नारायणो देवश्चतुर्बाहुः सनातनः ।राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ॥७-८-२६॥
Vālmīki 7.8.27
नष्टधर्मव्यवस्थाता काले काले प्रजाकरः ।उत्पद्यते दस्युवधे शरणागतवत्सलः ॥७-८-२७॥
Vālmīki 7.8.28
एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् ।भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥७-८-२८॥
Vālmīki 7.8.29
चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा ।पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ॥७-८-२९॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷