🪷 उत्तरकाण्ड · Sarga 9

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 9 · 48 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.9.1
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ।रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥७-९-१॥
Vālmīki 7.9.2
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः ।कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥७-९-२॥
Vālmīki 7.9.3
राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् ।तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥७-९-३॥
Vālmīki 7.9.4
गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् ।तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ॥७-९-४॥
Vālmīki 7.9.5
रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः ।इत्येवं चिन्तयामास राक्षसानां महामतिः ॥७-९-५॥
Vālmīki 7.9.6
किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् ।अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ॥७-९-६॥
Vālmīki 7.9.7
पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते ।प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥७-९-७॥
Vālmīki 7.9.8
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः ।त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥७-९-८॥
Vālmīki 7.9.9
न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥७-९-९॥
Vālmīki 7.9.10
त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥७-९-१०॥
Vālmīki 7.9.11
सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् ।भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥७-९-११॥
Vālmīki 7.9.12
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ।तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः ॥७-९-१२॥
Vālmīki 7.9.13
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् ।तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ॥७-९-१३॥
Vālmīki 7.9.14
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः ।अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥७-९-१४॥
Vālmīki 7.9.15
अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् ।उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ।विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥७-९-१५॥
Vālmīki 7.9.16
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ।अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥७-९-१६॥
Vālmīki 7.9.17
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ।किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ॥७-९-१७॥
Vālmīki 7.9.18
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ।आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ॥७-९-१८॥
Vālmīki 7.9.19
किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् ।कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ॥७-९-१९॥
Vālmīki 7.9.20
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह ।विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥७-९-२०॥
Vālmīki 7.9.21
सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि ।दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ॥७-९-२१॥
Vālmīki 7.9.22
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ।दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥७-९-२२॥
Vālmīki 7.9.23
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ।सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ॥७-९-२३॥
Vālmīki 7.9.24
भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः ।नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ॥७-९-२४॥
Vālmīki 7.9.25
कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः ।उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥७-९-२५॥
Vālmīki 7.9.26
पश्चिमो यस्तव सुतो भविष्यति शुभानने ।मम वंशानुरूपः स धर्मात्मा च भविष्यति ॥७-९-२६॥
Vālmīki 7.9.27
एवमुक्ता तु सा कन्या राम कालेन केनचित् ।जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥७-९-२७॥
Vālmīki 7.9.28
दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् ।ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥७-९-२८॥
Vālmīki 7.9.29
तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः ।क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ॥७-९-२९॥
Vālmīki 7.9.30
ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः ।प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥७-९-३०॥
Vālmīki 7.9.31
चकम्पे जगती चैव ववुर्वाताः सुदारुणाः ।अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ॥७-९-३१॥
Vālmīki 7.9.32
अथ नामाकरोत्तस्य पितामहसमः पिता ।दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति ॥७-९-३२॥
Vālmīki 7.9.33
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः ।प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥७-९-३३॥
Vālmīki 7.9.34
ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना ।विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥७-९-३४॥
Vālmīki 7.9.35
तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ॥७-९-३५॥
Vālmīki 7.9.36
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा ।वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ॥७-९-३६॥
Vālmīki 7.9.37
तौ तु तत्र महारण्ये ववृधाते महौजसौ ।कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥७-९-३७॥
Vālmīki 7.9.38
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् ।त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ॥७-९-३८॥
Vālmīki 7.9.39
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः ।स्वाध्यायनियताहार उवास विजितेन्द्रियः ॥७-९-३९॥
Vālmīki 7.9.40
अथ वैश्रवणो देवस्तत्र कालेन केनचित् ।आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥७-९-४०॥
Vālmīki 7.9.41
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा ।आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥७-९-४१॥
Vālmīki 7.9.42
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् ।भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥७-९-४२॥
Vālmīki 7.9.43
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम ।यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ॥७-९-४३॥
Vālmīki 7.9.44
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥७-९-४४॥
Vālmīki 7.9.45
सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा ।भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ॥७-९-४५॥
Vālmīki 7.9.46
ततस्तेनैव कोपेन दशग्रीवः सहानुजः ।चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥७-९-४६॥
Vālmīki 7.9.47
प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च ।आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥७-९-४७॥
Vālmīki 7.9.48
स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः ।अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ॥७-९-४८॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷