🪷 उत्तरकाण्ड · Sarga 10
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 10 · 49 ślokas
🪷 Devanāgarī Ślokas
अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने ।कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥७-१०-१॥
अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् ।तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥७-१०-२॥
कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः ।तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ॥७-१०-३॥
मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत ।नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥७-१०-४॥
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः ।धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ॥७-१०-५॥
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ।पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥७-१०-६॥
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ।पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ॥७-१०-७॥
पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत ।तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ॥७-१०-८॥
एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने ।दशवर्षसहस्राणि गतानि नियतात्मनः ॥७-१०-९॥
दशवर्षसहस्रं तु निराहारो दशाननः ।पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥७-१०-१०॥
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ।शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ॥७-१०-११॥
अथ वर्षसहस्रे तु दशमे दशमं शिरः ।छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ॥७-१०-१२॥
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत ॥७-१०-१३॥
शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः ।कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ॥७-१०-१४॥
अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना ।प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ॥७-१०-१५॥
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् ।नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥७-१०-१६॥
एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ।नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ॥७-१०-१७॥
एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा ।दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ॥७-१०-१८॥
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ॥७-१०-१९॥
नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित ।तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ॥७-१०-२०॥
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ।उवाच वचनं देवः सह देवैः पितामहः ॥७-१०-२१॥
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव ।एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ॥७-१०-२२॥
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ।हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ॥७-१०-२३॥
पुनस्तानि भविष्यन्ति तथैव तव राक्षस ।वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥७-१०-२४॥
छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् ।भविष्यति न सन्देहो मद्वरात्तवराक्षस ॥७-१०-२५॥
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः ।अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ॥७-१०-२६॥
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।विभीषणमथोवाच वाक्यं लोकपितामहः ॥७-१०-२७॥
विभीषण त्वया वत्स धर्मसंहितबुद्धिना ।परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ॥७-१०-२८॥
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः ।वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ॥७-१०-२९॥
भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् ।प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ॥७-१०-३०॥
परमापद्गतस्यापि धर्मे मम मतिर्भवेत् ।अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ॥७-१०-३१॥
या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ।सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ॥७-१०-३२॥
एष मे परमोदार वरः परमको मतः ।नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ॥७-१०-३३॥
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह ।धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥७-१०-३४॥
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन ।नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥७-१०-३५॥
इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् ।प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ॥७-१०-३६॥
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया ।जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥७-१०-३७॥
नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश ।अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ॥७-१०-३८॥
अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु ।तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ॥७-१०-३९॥
वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ ।लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ॥७-१०-४०॥
एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः ।चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ॥७-१०-४१॥
प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती ।इयमस्म्यागता देव किं कार्यं करवाण्यहम् ॥७-१०-४२॥
प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् ।वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ॥७-१०-४३॥
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ।कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥७-१०-४४॥
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥७-१०-४५॥
एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् ।देवी सरस्वती चैव राक्षसं तं जहौ पुनः ॥७-१०-४६॥
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् ।विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ॥७-१०-४७॥
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ।ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ॥७-१०-४८॥
अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः ।एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ।श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥७-१०-४९॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 9
- Next: Uttara-Kāṇḍa Sarga 11 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷