🪷 उत्तरकाण्ड · Sarga 11

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 11 · 52 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.11.1
सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् ।उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ॥७-११-१॥
Vālmīki 7.11.2
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः ।उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ॥७-११-२॥
Vālmīki 7.11.3
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः ।अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥७-११-३॥
Vālmīki 7.11.4
दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः ।यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ॥७-११-४॥
Vālmīki 7.11.5
यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् ।तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥७-११-५॥
Vālmīki 7.11.6
असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् ।विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥७-११-६॥
Vālmīki 7.11.7
अस्मदीया च लङ्केयं नगरी राक्षसोचिता ।निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ॥७-११-७॥
Vālmīki 7.11.8
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ ।तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥७-११-८॥
Vālmīki 7.11.9
त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः ।त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः ।सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ॥७-११-९॥
Vālmīki 7.11.10
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् ।वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ॥७-११-१०॥
Vālmīki 7.11.11
साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा ।किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ॥७-११-११॥
Vālmīki 7.11.12
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः ।उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ॥७-११-१२॥
Vālmīki 7.11.13
प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ॥७-११-१३॥
Vālmīki 7.11.14
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् ।सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ॥७-११-१४॥
Vālmīki 7.11.15
अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते ।भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ॥७-११-१५॥
Vālmīki 7.11.16
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ।दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ॥७-११-१६॥
Vālmīki 7.11.17
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा ।सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः ॥७-११-१७॥
Vālmīki 7.11.18
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना ।देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ॥७-११-१८॥
Vālmīki 7.11.19
नैतदेको भवानेव करिष्यति विपर्ययम् ।सुरासुरैराचरितं तत्कुरुष्व वचो मम ॥७-११-१९॥
Vālmīki 7.11.20
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना ।चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् ॥७-११-२०॥
Vālmīki 7.11.21
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् ।वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ॥७-११-२१॥
Vālmīki 7.11.22
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः ।प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ॥७-११-२२॥
Vālmīki 7.11.23
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् ।वचसा मम वित्तेशं सामपूर्वमिदं वचः ॥७-११-२३॥
Vālmīki 7.11.24
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् ।त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ॥७-११-२४॥
Vālmīki 7.11.25
तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम ।कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ॥७-११-२५॥
Vālmīki 7.11.26
स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् ।अब्रवीत्परमोदारं वित्तपालमिदं वचः ॥७-११-२६॥
Vālmīki 7.11.27
प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत ।त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ॥७-११-२७॥
Vālmīki 7.11.28
तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद ।वचनं मम वित्तेश यद्ब्रवीति दशाननः ॥७-११-२८॥
Vālmīki 7.11.29
इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा ।भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ॥७-११-२९॥
Vālmīki 7.11.30
तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज ।तदेषा दीयतां तात याचतस्तस्य सामतः ॥७-११-३०॥
Vālmīki 7.11.31
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः ।प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥७-११-३१॥
Vālmīki 7.11.32
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः ।निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ॥७-११-३२॥
Vālmīki 7.11.33
ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम ।तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ॥७-११-३३॥
Vālmīki 7.11.34
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ॥७-११-३४॥
Vālmīki 7.11.35
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् ।एष तात दशग्रीवो दूतं प्रेषितवान्मम ॥७-११-३५॥
Vālmīki 7.11.36
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता ।मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ॥७-११-३६॥
Vālmīki 7.11.37
ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः ।प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ॥७-११-३७॥
Vālmīki 7.11.38
दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ ।मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ॥७-११-३८॥
Vālmīki 7.11.39
स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः ।श्रेयो ऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ॥७-११-३९॥
Vālmīki 7.11.40
वरप्रदानसम्मूढो मान्या ऽमान्यान् स दुर्मतिः ।न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ॥७-११-४०॥
Vālmīki 7.11.41
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् ।निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ॥७-११-४१॥
Vālmīki 7.11.42
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी ।काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ॥७-११-४२॥
Vālmīki 7.11.43
कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः ॥७-११-४३॥
Vālmīki 7.11.44
तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः ।विहारशीलाः सततं रमन्ते सर्वदा ऽ ऽश्रिताः ॥७-११-४४॥
Vālmīki 7.11.45
न हि क्षमं तवानेन वैरं धनद रक्षसा ।जानीषे हि यथा ऽनेन लब्धः परमको वरः ॥७-११-४५॥
Vālmīki 7.11.46
एवमुक्तो गृहीत्वा ऽ ऽशु तद्वचः पितृगौरवात् ।सदारपुत्रः सामान्यः सवाहनधनो गतः ॥७-११-४६॥
Vālmīki 7.11.47
प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् ।प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ॥७-११-४७॥
Vālmīki 7.11.48
शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः ।प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ॥७-११-४८॥
Vālmīki 7.11.49
एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः ।विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ॥७-११-४९॥
Vālmīki 7.11.50
धनदेन परित्यक्तां सुविभक्तमहापथाम् ।आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ॥७-११-५०॥
Vālmīki 7.11.51
स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः ।निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ॥७-११-५१॥
Vālmīki 7.11.52
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् ।स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदा ऽमरावतीम् ॥७-११-५२॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷