🪷 उत्तरकाण्ड · Sarga 12

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 12 · 32 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.12.1
राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ।ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥७-१२-१॥
Vālmīki 7.12.2
स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥७-१२-२॥
Vālmīki 7.12.3
अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् ।तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥७-१२-३॥
Vālmīki 7.12.4
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।अपृच्छत्को भवानेको निर्मनुष्यमृगे वने ।अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ॥७-१२-४॥
Vālmīki 7.12.5
मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् ।श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥७-१२-५॥
Vālmīki 7.12.6
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया ।दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥७-१२-६॥
Vālmīki 7.12.7
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् ।सा च दैवतकार्येण त्रयोदश समा गताः ॥७-१२-७॥
Vālmīki 7.12.8
वर्षं चतुर्दशं चैव ततो हेममयं पुरम् ।वज्रवैडूर्यचित्रं च मायया निर्मितं मया ॥७-१२-८॥
Vālmīki 7.12.9
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ॥७-१२-९॥
Vālmīki 7.12.10
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ।इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ॥७-१२-१०॥
Vālmīki 7.12.11
भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् ।कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥७-१२-११॥
Vālmīki 7.12.12
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ।पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ॥७-१२-१२॥
Vālmīki 7.12.13
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ।एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥७-१२-१३॥
Vālmīki 7.12.14
त्वामिदानीं कथं तात जानीयां को भवानिति ।एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् ॥७-१२-१४॥
Vālmīki 7.12.15
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः ।मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत् ॥७-१२-१५॥
Vālmīki 7.12.16
एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः ।महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः ।दातुं दुहितरं तस्मै रोचयामास यत्र वै ॥७-१२-१६॥
Vālmīki 7.12.17
करेण तु करं तस्या ग्राहयित्वा मयस्तदा ।प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥७-१२-१७॥
Vālmīki 7.12.18
इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता ।कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥७-१२-१८॥
Vālmīki 7.12.19
बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत ।प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् ॥७-१२-१९॥
Vālmīki 7.12.20
स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ।विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ॥७-१२-२०॥
Vālmīki 7.12.21
अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ।परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ॥७-१२-२१॥
Vālmīki 7.12.22
एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः ।गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ॥७-१२-२२॥
Vālmīki 7.12.23
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ।तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ॥७-१२-२३॥
Vālmīki 7.12.24
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ।सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ॥७-१२-२४॥
Vālmīki 7.12.25
तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि ।सरस्तदा मानसं तु ववृधे जलदागमे ॥७-१२-२५॥
Vālmīki 7.12.26
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ।सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् ॥७-१२-२६॥
Vālmīki 7.12.27
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ।स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ॥७-१२-२७॥
Vālmīki 7.12.28
ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ।स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥७-१२-२८॥
Vālmīki 7.12.29
जातमात्रेण हि पुरा तेन रावणसूनुना ।रुदता सुमहान्मुक्तो नादो जलधरोपमः ॥७-१२-२९॥
Vālmīki 7.12.30
जडीकृता च सा लङ्का तस्य नादेन राघव ।पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥७-१२-३०॥
Vālmīki 7.12.31
सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे ।रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ॥७-१२-३१॥
Vālmīki 7.12.32
मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ॥७-१२-३२॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷