🪷 उत्तरकाण्ड · Sarga 13

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 13 · 42 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.13.1
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् ।निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥७-१३-१॥
Vālmīki 7.13.2
ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः ।निद्रा मां बाधते राजन्कारयस्व ममालयम् ॥७-१३-२॥
Vālmīki 7.13.3
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ॥७-१३-३॥
Vālmīki 7.13.4
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ।स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ॥७-१३-४॥
Vālmīki 7.13.5
वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ।दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ॥७-१३-५॥
Vālmīki 7.13.6
मनोहरं सर्वसुखं कारयामास राक्षसः ।सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ॥७-१३-६॥
Vālmīki 7.13.7
तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः ।बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ॥७-१३-७॥
Vālmīki 7.13.8
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ॥७-१३-८॥
Vālmīki 7.13.9
उद्यानानि च चित्राणि नन्दनादीनि यानि च ।तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ॥७-१३-९॥
Vālmīki 7.13.10
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् ।नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ॥७-१३-१०॥
Vālmīki 7.13.11
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ।कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ॥७-१३-११॥
Vālmīki 7.13.12
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा ।लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ॥७-१३-१२॥
Vālmīki 7.13.13
स गत्वा नगरीं लङ्कामाससाद विभीषणम् ।मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥७-१३-१३॥
Vālmīki 7.13.14
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः ।सभायां दर्शयामास तमासीनं दशाननम् ॥७-१३-१४॥
Vālmīki 7.13.15
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ।जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ॥७-१३-१५॥
Vālmīki 7.13.16
तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते ।उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥७-१३-१६॥
Vālmīki 7.13.17
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् ।उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥७-१३-१७॥
Vālmīki 7.13.18
साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः ।साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥७-१३-१८॥
Vālmīki 7.13.19
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ॥७-१३-१९॥
Vālmīki 7.13.20
निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप ।अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ॥७-१३-२०॥
Vālmīki 7.13.21
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ॥७-१३-२१॥
Vālmīki 7.13.22
तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ।सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ॥७-१३-२२॥
Vālmīki 7.13.23
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ॥७-१३-२३॥
Vālmīki 7.13.24
देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् ।रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ॥७-१३-२४॥
Vālmīki 7.13.25
ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ।तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ॥७-१३-२५॥
Vālmīki 7.13.26
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ।प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ॥७-१३-२६॥
Vālmīki 7.13.27
पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ।प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ॥७-१३-२७॥
Vālmīki 7.13.28
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ।तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ॥७-१३-२८॥
Vālmīki 7.13.29
व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा ।तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ॥७-१३-२९॥
Vālmīki 7.13.30
तपसा निर्जितश्चैव सखा भव ममानघ ।देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ॥७-१३-३०॥
Vālmīki 7.13.31
एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् ।एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ॥७-१३-३१॥
Vālmīki 7.13.32
आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः ॥७-१३-३२॥
Vālmīki 7.13.33
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् ।चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ॥७-१३-३३॥
Vālmīki 7.13.34
एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः ।हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ॥७-१३-३४॥
Vālmīki 7.13.35
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे ।नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥७-१३-३५॥
Vālmīki 7.13.36
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ।महेश्वरसखित्वं तु मूढ श्रावयते किल ॥७-१३-३६॥
Vālmīki 7.13.37
न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया ।यदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥७-१३-३७॥
Vālmīki 7.13.38
न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते ।तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥७-१३-३८॥
Vālmīki 7.13.39
त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ॥७-१३-३९॥
Vālmīki 7.13.40
एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ।चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥७-१३-४०॥
Vālmīki 7.13.41
एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् ।ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥७-१३-४१॥
Vālmīki 7.13.42
एवं कृतस्वस्त्ययनो रथमारुह्य रावणः ।त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ॥७-१३-४२॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷