🪷 उत्तरकाण्ड · Sarga 14
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 14 · 30 ślokas
🪷 Devanāgarī Ślokas
ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः ।महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ॥७-१४-१॥
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना ।वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ॥७-१४-२॥
पुराणि स नदीः शैलान्वनान्युपवनानि च ।अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ॥७-१४-३॥
सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु ।युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ॥७-१४-४॥
यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः ।राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ॥७-१४-५॥
ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् ।अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ॥७-१४-६॥
ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः ।तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ॥७-१४-७॥
ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् ।व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ॥७-१४-८॥
स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः ।हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ॥७-१४-९॥
ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः ।तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ॥७-१४-१०॥
ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः ।हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥७-१४-११॥
स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः ।वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ॥७-१४-१२॥
न चकार व्यथां चैव यक्षशस्त्रैः समाहतः ।महीधर इवाम्भोदैर्धाराशतसमुक्षितः ॥७-१४-१३॥
स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् ।प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥७-१४-१४॥
स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् ।वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ॥७-१४-१५॥
तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः ।अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ॥७-१४-१६॥
केचित्समाहता भग्नाः पतिताः समरक्षितौ ।ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ॥७-१४-१७॥
श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे ।सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥७-१४-१८॥
हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले ।प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ॥७-१४-१९॥
भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् ।धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ॥७-१४-२०॥
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ।प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ॥७-१४-२१॥
तेन चक्रेण मारीचो विष्णुनेव रणे हतः ।पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ॥७-१४-२२॥
ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः ।तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ॥७-१४-२३॥
ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् ।मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ॥७-१४-२४॥
तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् ।सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ॥७-१४-२५॥
स वार्यमाणो यक्षेण प्रविवेश निशाचरः ।यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ॥७-१४-२६॥
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ।रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ॥७-१४-२७॥
स शैलशिखराभेण तोरणेन समाहतः ।जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ॥७-१४-२८॥
तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः ।नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥७-१४-२९॥
ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् ।ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः ।त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा ॥७-१४-३०॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 13
- Next: Uttara-Kāṇḍa Sarga 15 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷