🪷 उत्तरकाण्ड · Sarga 15

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 15 · 45 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.15.1
ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः ।धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥७-१५-१॥
Vālmīki 7.15.2
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥७-१५-२॥
Vālmīki 7.15.3
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः ।वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥७-१५-३॥
Vālmīki 7.15.4
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥७-१५-४॥
Vālmīki 7.15.5
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥७-१५-५॥
Vālmīki 7.15.6
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ।दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥७-१५-६॥
Vālmīki 7.15.7
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे ।महोदरेण चानिन्द्यं सहस्रमपरं हतम् ॥७-१५-७॥
Vālmīki 7.15.8
क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना ।निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥७-१५-८॥
Vālmīki 7.15.9
क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् ।रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि ॥७-१५-९॥
Vālmīki 7.15.10
धूम्राक्षेण समागम्य माणिभद्रो महारणे ।मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ॥७-१५-१०॥
Vālmīki 7.15.11
ततो गदां समाविध्य माणिभद्रेण राक्षसः ।धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥७-१५-११॥
Vālmīki 7.15.12
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ॥७-१५-१२॥
Vālmīki 7.15.13
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥७-१५-१३॥
Vālmīki 7.15.14
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे ।तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ॥७-१५-१४॥
Vālmīki 7.15.15
ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ।तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः ।सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत ॥७-१५-१५॥
Vālmīki 7.15.16
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥७-१५-१६॥
Vālmīki 7.15.17
स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् ।उवाच वचनं धीमान्युक्तं पैतामहे कुले ॥७-१५-१७॥
Vālmīki 7.15.18
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते ।पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥७-१५-१८॥
Vālmīki 7.15.19
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥७-१५-१९॥
Vālmīki 7.15.20
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ।येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ॥७-१५-२०॥
Vālmīki 7.15.21
मातरं पितरं यो हि आचार्यं चावमन्यते ।स पश्यति फलं तस्य प्रेतराजवशं गतः ॥७-१५-२१॥
Vālmīki 7.15.22
अध्रुवे हि शरीरे यो न करोति तपोर्जनम् ।स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम् ॥७-१५-२२॥
Vālmīki 7.15.23
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च ।तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ॥७-१५-२३॥
Vālmīki 7.15.24
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ।तस्मादात्मापघातार्थं मूढः पापं करिष्यति ॥७-१५-२४॥
Vālmīki 7.15.25
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।देवं चेष्टयते सर्वं हतो दैवेन हन्यते ।यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥७-१५-२५॥
Vālmīki 7.15.26
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च ।प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥७-१५-२६॥
Vālmīki 7.15.27
एवं निरयगामी त्वं यस्य ते मतिरीदृशी ।न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ॥७-१५-२७॥
Vālmīki 7.15.28
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः ।मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥७-१५-२८॥
Vālmīki 7.15.29
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ॥७-१५-२९॥
Vālmīki 7.15.30
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे ।न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥७-१५-३०॥
Vālmīki 7.15.31
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥७-१५-३१॥
Vālmīki 7.15.32
ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः ।रूपाणां शतसाहस्रं विनाशाय चकार च ॥७-१५-३२॥
Vālmīki 7.15.33
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः ।यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ॥७-१५-३३॥
Vālmīki 7.15.34
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ।प्रतिगृह्य ततो राम महदस्त्रं दशाननः ॥७-१५-३४॥
Vālmīki 7.15.35
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् ।एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥७-१५-३५॥
Vālmīki 7.15.36
कृत्तमूल इवाशोको निपपात धनाधिपः ॥७-१५-३६॥
Vālmīki 7.15.37
ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः ।धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ॥७-१५-३७॥
Vālmīki 7.15.38
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ।पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥७-१५-३८॥
Vālmīki 7.15.39
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ।मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ॥७-१५-३९॥
Vālmīki 7.15.40
मनोजवं कामगमं कामरूपं विहङ्गमम् ।मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥७-१५-४०॥
Vālmīki 7.15.41
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् ।बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ॥७-१५-४१॥
Vālmīki 7.15.42
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ।न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥७-१५-४२॥
Vālmīki 7.15.43
स तं राजा समारुह्य कामगं वीर्यनिर्जितम् ।जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ॥७-१५-४३॥
Vālmīki 7.15.44
जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥७-१५-४४॥
Vālmīki 7.15.45
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् ।रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ॥७-१५-४५॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷