🪷 उत्तरकाण्ड · Sarga 16

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 16 · 50 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.16.1
स जित्वा धनदं राम भ्रातरं राक्षसाधिपः ।महासेनप्रसूतिं तद्ययौ शरवणं महत् ॥७-१६-१॥
Vālmīki 7.16.2
अथापश्यदृशग्रीवो रौक्मं शरवणं महत् ।गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥७-१६-२॥
Vālmīki 7.16.3
स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् ।अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ॥७-१६-३॥
Vālmīki 7.16.4
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् ।अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥७-१६-४॥
Vālmīki 7.16.5
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् ।पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥७-१६-५॥
Vālmīki 7.16.6
ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ।नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥७-१६-६॥
Vālmīki 7.16.7
अथवा पुष्पकमिदं धनदान्नान्यवाहनम् ।अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥७-१६-७॥
Vālmīki 7.16.8
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः ।वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ॥७-१६-८॥
Vālmīki 7.16.9
ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् ।नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ॥७-१६-९॥
Vālmīki 7.16.10
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः ।सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ॥७-१६-१०॥
Vālmīki 7.16.11
सर्वेषामेव भूतानामगम्यः पर्वतः कृतः ।इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ॥७-१६-११॥
Vālmīki 7.16.12
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः ।को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ॥७-१६-१२॥
Vālmīki 7.16.13
सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् ।दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ॥७-१६-१३॥
Vālmīki 7.16.14
तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः ।प्रहासं मुमुचे तत्र सतोय इव तोयदः ॥७-१६-१४॥
Vālmīki 7.16.15
तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः ।अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ॥७-१६-१५॥
Vālmīki 7.16.16
यस्माद्वानररूपं मामवज्ञाय दशानन ।अशनीपातसङ्काशमपहासं प्रमुक्तवान् ॥७-१६-१६॥
Vālmīki 7.16.17
तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः ।उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ॥७-१६-१७॥
Vālmīki 7.16.18
नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः ।युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ॥७-१६-१८॥
Vālmīki 7.16.19
ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् ।व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ॥७-१६-१९॥
Vālmīki 7.16.20
किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर ।न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥७-१६-२०॥
Vālmīki 7.16.21
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥७-१६-२१॥
Vālmīki 7.16.22
अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः ।पर्वतं तु समासाद्य वाक्यमाह दशाननः ॥७-१६-२२॥
Vālmīki 7.16.23
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।तमिमं शैलमुन्मूलं करोमि तव गोपते ॥७-१६-२३॥
Vālmīki 7.16.24
केन प्रभावेण भवो नित्यं क्रीडति राजवत् ।विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ॥७-१६-२४॥
Vālmīki 7.16.25
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ।तोलयामास तं शीघ्रं स शैलं समकम्पत ॥७-१६-२५॥
Vālmīki 7.16.26
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः ।चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ॥७-१६-२६॥
Vālmīki 7.16.27
ततो राम महादवो देवानां प्रवरो हरः ।पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥७-१६-२७॥
Vālmīki 7.16.28
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः ।विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥७-१६-२८॥
Vālmīki 7.16.29
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा ।मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ॥७-१६-२९॥
Vālmīki 7.16.30
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ।तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ॥७-१६-३०॥
Vālmīki 7.16.31
समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः ।यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ॥७-१६-३१॥
Vālmīki 7.16.32
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् ।तोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥७-१६-३२॥
Vālmīki 7.16.33
तमृते शरणं नान्यं पश्यामो ऽत्र दशानन ।स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ॥७-१६-३३॥
Vālmīki 7.16.34
कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति ।एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ॥७-१६-३४॥
Vālmīki 7.16.35
सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ।संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ॥७-१६-३५॥
Vālmīki 7.16.36
ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः ।मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ॥७-१६-३६॥
Vālmīki 7.16.37
प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन ।शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ॥७-१६-३७॥
Vālmīki 7.16.38
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ॥७-१६-३८॥
Vālmīki 7.16.39
देवता मानुषा यक्षा ये चान्ये जगतीतले ।एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥७-१६-३९॥
Vālmīki 7.16.40
गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि ।मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥७-१६-४०॥
Vālmīki 7.16.41
एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् ।प्रीतो यदि महादेव वरं मे देहि याचतः ॥७-१६-४१॥
Vālmīki 7.16.42
अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः ।राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥७-१६-४२॥
Vālmīki 7.16.43
मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः ।दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ॥७-१६-४३॥
Vālmīki 7.16.44
वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे ।एवमुक्तस्ततस्तेन रावणेन स शङ्करः ॥७-१६-४४॥
Vālmīki 7.16.45
ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् ।आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ॥७-१६-४५॥
Vālmīki 7.16.46
दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया ।अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ॥७-१६-४६॥
Vālmīki 7.16.47
एवं महेश्वरेणैव कृतनामा स रावणः ।अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ॥७-१६-४७॥
Vālmīki 7.16.48
ततो महीतले राम पर्यक्रामत रावणः ।क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ॥७-१६-४८॥
Vālmīki 7.16.49
केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः ।तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ॥७-१६-४९॥
Vālmīki 7.16.50
अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः ।जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ॥७-१६-५०॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷