🪷 उत्तरकाण्ड · Sarga 17

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 17 · 43 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.17.1
अथ राजन्महाबाहुर्विचरन्स महीतले ।हिमवद्वनमासाद्य परिचक्राम रावणः ॥७-१७-१॥
Vālmīki 7.17.2
तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् ।आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव ॥७-१७-२॥
Vālmīki 7.17.3
स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम् ।काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ॥७-१७-३॥
Vālmīki 7.17.4
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते ।नहि युक्ता तवैतस्य रूपस्यैव प्रतिक्रिया ।। ७.१७.४ ।।रूपं ते ऽनुपमं भीरु कामोन्मादकरं नृणाम् ।न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ॥७-१७-४॥
Vālmīki 7.17.5
कस्यासि किमिदं भद्रे कश्च भर्ता वरानने ।येन सम्भुज्यसे भीरु स नरः पुण्यभाग्भुवि ॥७-१७-५॥
Vālmīki 7.17.6
पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः ।एवमुक्ता तु सा कन्या रावणेन यशस्विनी ॥७-१७-६॥
Vālmīki 7.17.7
अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ।कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः ।बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ॥७-१७-७॥
Vālmīki 7.17.8
तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ॥७-१७-८॥
Vālmīki 7.17.9
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।ते ऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ॥७-१७-९॥
Vālmīki 7.17.10
न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ ।कारणं तद्वदिष्यामि निशाचर निशामय ॥७-१७-१०॥
Vālmīki 7.17.11
पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ।अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ॥७-१७-११॥
Vālmīki 7.17.12
दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः ।दम्भुर्नाम ततो राजा दैत्यानां कुपितो ऽभवत् ॥७-१७-१२॥
Vālmīki 7.17.13
तेन रात्रौ शयानो मे पिता पापेन हिंसितः ॥७-१७-१३॥
Vālmīki 7.17.14
ततो मे जननी दीना तच्छरीरं पितुर्मम ।परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ॥७-१७-१४॥
Vālmīki 7.17.15
ततो मनोरथं सत्यं पितुर्नारायणं प्रति ।करोमीति तमेवाहं हृदयेन समुद्वहे ॥७-१७-१५॥
Vālmīki 7.17.16
इति प्रतिज्ञामारुह्य चरामि विपुलं तपः ।एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ॥७-१७-१६॥
Vālmīki 7.17.17
नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् ।आश्रये नियमं घोरं नारायणपरीप्सया ।विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ॥७-१७-१७॥
Vālmīki 7.17.18
जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ॥७-१७-१८॥
Vālmīki 7.17.19
सो ऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् ।अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥७-१७-१९॥
Vālmīki 7.17.20
अवलिप्ता ऽसि सुश्रोणि यस्यास्ते मतिरीदृशी ।वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः ॥७-१७-२०॥
Vālmīki 7.17.21
त्वं सर्वंगुणसम्पन्ना नार्हसे वक्तुमीदृशम् ।त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ॥७-१७-२१॥
Vālmīki 7.17.22
अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः ।तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ॥७-१७-२२॥
Vālmīki 7.17.23
कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ।वीर्येण तपसा चैव भोगेन च बलेन च ॥ ॥७-१७-२३॥
Vālmīki 7.17.24
न मया स समो भद्रे यं त्वं कामयसे ऽङ्गने ॥७-१७-२४॥
Vālmīki 7.17.25
इत्युक्तवति तस्मिंस्तु वेदवत्यथ सा ऽब्रवीत् ।। ७.१७.२५ ।।ैव भोगेन च बलेन च ॥ ॥७-१७-२५॥
Vālmīki 7.17.26
मा मैवमिति सा कन्या तमुवाच निशाचरम् ।त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् ।त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान् ॥७-१७-२६॥
Vālmīki 7.17.27
एवमुक्तस्तया तत्र वेदवत्या निशाचरः ।मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ॥७-१७-२७॥
Vālmīki 7.17.28
ततो वेदवती क्रुद्धा केशान्हस्तेन सा ऽच्छिनत् ।असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदा ऽकरोत् ॥७-१७-२८॥
Vālmīki 7.17.29
सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् ।उवाचाग्निं समाधाय मरणाय कृतत्वरा ॥७-१७-२९॥
Vālmīki 7.17.30
धर्षितायास्त्वयानार्य न मे जीवितमिष्यते ।रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ॥७-१७-३०॥
Vālmīki 7.17.31
यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने ।तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ॥७-१७-३१॥
Vālmīki 7.17.32
न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः ।शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ॥७-१७-३२॥
Vālmīki 7.17.33
यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा ।तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ॥७-१७-३३॥
Vālmīki 7.17.34
एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् ।पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥७-१७-३४॥
Vālmīki 7.17.35
पुनरेव समुद्भूता पद्मे पद्मसमप्रभा ।तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ॥७-१७-३५॥
Vālmīki 7.17.36
कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ ।प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ॥७-१७-३६॥
Vālmīki 7.17.37
लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् ।गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते ॥७-१७-३७॥
Vālmīki 7.17.38
एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः ।सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ॥७-१७-३८॥
Vālmīki 7.17.39
राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती ।सैषा जनकराजस्य प्रसूता तनया प्रभो ।तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ॥७-१७-३९॥
Vālmīki 7.17.40
पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा ।उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् ॥७-१७-४०॥
Vālmīki 7.17.41
एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः ।क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ॥७-१७-४१॥
Vālmīki 7.17.42
एषा वेदवती नाम पूर्वमासीत्कृते युगे ।त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ॥७-१७-४२॥
Vālmīki 7.17.43
उत्पन्ना मैथिलकुले जनकस्य महात्मनः ।सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ॥७-१७-४३॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷