🪷 उत्तरकाण्ड · Sarga 18

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 18 · 36 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.18.1
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः ।पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥७-१८-१॥
Vālmīki 7.18.2
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।उशीरबीजमासाद्य ददर्श स तु रावणः ॥७-१८-२॥
Vālmīki 7.18.3
संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः ।याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥७-१८-३॥
Vālmīki 7.18.4
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् ।तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥७-१८-४॥
Vālmīki 7.18.5
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः ।कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ॥७-१८-५॥
Vālmīki 7.18.6
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन ।रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥७-१८-६॥
Vālmīki 7.18.7
तं च राजानमासाद्य रावणो राक्षसाधिपः ।प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ॥७-१८-७॥
Vālmīki 7.18.8
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् ।अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥७-१८-८॥
Vālmīki 7.18.9
अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव ।धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥७-१८-९॥
Vālmīki 7.18.10
त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् ।भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ।ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥७-१८-१०॥
Vālmīki 7.18.11
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ।न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ॥७-१८-११॥
Vālmīki 7.18.12
नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् ।कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ॥७-१८-१२॥
Vālmīki 7.18.13
क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् ।श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ॥७-१८-१३॥
Vālmīki 7.18.14
तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते ।अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥७-१८-१४॥
Vālmīki 7.18.15
ततः शरासनं गृह्य सायकांश्च नराधिपः ।रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ॥७-१८-१५॥
Vālmīki 7.18.16
सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ।श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ॥७-१८-१६॥
Vālmīki 7.18.17
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ॥७-१८-१७॥
Vālmīki 7.18.18
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः ।संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ॥७-१८-१८॥
Vālmīki 7.18.19
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ।विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ॥७-१८-१९॥
Vālmīki 7.18.20
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः ।रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ॥७-१८-२०॥
Vālmīki 7.18.21
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् ।वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ॥७-१८-२१॥
Vālmīki 7.18.22
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः ।ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ॥७-१८-२२॥
Vālmīki 7.18.23
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ।प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥७-१८-२३॥
Vālmīki 7.18.24
इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति ।वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् ।एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥७-१८-२४॥
Vālmīki 7.18.25
नीलाः किल पुरा बर्हा मयूराणां नराधिप ।सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ॥७-१८-२५॥
Vālmīki 7.18.26
धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ।पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ॥७-१८-२६॥
Vālmīki 7.18.27
यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया ।ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ॥७-१८-२७॥
Vālmīki 7.18.28
मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम ।यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ॥७-१८-२८॥
Vālmīki 7.18.29
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः ।त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥७-१८-२९॥
Vālmīki 7.18.30
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् ।श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥७-१८-३०॥
Vālmīki 7.18.31
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः ।भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ॥७-१८-३१॥
Vālmīki 7.18.32
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि ।प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ॥७-१८-३२॥
Vālmīki 7.18.33
हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः ।पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥७-१८-३३॥
Vālmīki 7.18.34
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् ।हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥७-१८-३४॥
Vālmīki 7.18.35
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ।एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ॥७-१८-३५॥
Vālmīki 7.18.36
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः ।निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ॥७-१८-३६॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷