🪷 उत्तरकाण्ड · Sarga 19

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 19 · 32 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.19.1
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ।नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥७-१९-१॥
Vālmīki 7.19.2
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् ।अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥७-१९-२॥
Vālmīki 7.19.3
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः ।अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ।। ७.१९.३ ।।ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः ।मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः ।निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ॥७-१९-३॥
Vālmīki 7.19.4
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ।एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ॥७-१९-४॥
Vālmīki 7.19.5
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ॥७-१९-५॥
Vālmīki 7.19.6
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् ।स तं पुरुषशार्दूलं पुरन्दरसमं बले ॥७-१९-६॥
Vālmīki 7.19.7
प्राह राजानमासाद्य युद्धं देहीति रावणः ।निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥७-१९-७॥
Vālmīki 7.19.8
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः ।अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥७-१९-८॥
Vālmīki 7.19.9
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया ।सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ॥७-१९-९॥
Vālmīki 7.19.10
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् ।निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥७-१९-१०॥
Vālmīki 7.19.11
नागानां दशसाहस्रं वाजिनां नियुतं तथा ।रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ॥७-१९-११॥
Vālmīki 7.19.12
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे ।ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ॥७-१९-१२॥
Vālmīki 7.19.13
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् ।तद्रावणबलं प्राप्य बलं तस्य महीपतेः ॥७-१९-१३॥
Vālmīki 7.19.14
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले ।युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ॥७-१९-१४॥
Vālmīki 7.19.15
प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् ।प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् ।नश्यति स्म बलं तत्र हव्यं हुतमिवानले ॥७-१९-१५॥
Vālmīki 7.19.16
सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् ।महार्णवं समासाद्य वनापगशतं यथा ॥७-१९-१६॥
Vālmīki 7.19.17
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् ।आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ॥७-१९-१७॥
Vālmīki 7.19.18
अनरण्येन ते ऽमात्या मारीचशुकसारणाः ।प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ॥७-१९-१८॥
Vālmīki 7.19.19
ततो बाणशतान्यष्टौ पातयामास मूर्धनि ।तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥७-१९-१९॥
Vālmīki 7.19.20
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् ।वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ॥७-१९-२०॥
Vālmīki 7.19.21
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ।तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ॥७-१९-२१॥
Vālmīki 7.19.22
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ।वज्रदग्ध इवारण्ये सालो निपतितो यथा ॥७-१९-२२॥
Vālmīki 7.19.23
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् ।किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ॥७-१९-२३॥
Vālmīki 7.19.24
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप ।शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ॥७-१९-२४॥
Vālmīki 7.19.25
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ।किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ॥७-१९-२५॥
Vālmīki 7.19.26
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ।कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् ॥७-१९-२६॥
Vālmīki 7.19.27
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ।नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ॥७-१९-२७॥
Vālmīki 7.19.28
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ।यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥ ॥७-१९-२८॥
Vālmīki 7.19.29
यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ॥७-१९-२९॥
Vālmīki 7.19.30
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् ।रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ॥७-१९-३०॥
Vālmīki 7.19.31
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः ।तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ॥७-१९-३१॥
Vālmīki 7.19.32
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत ॥७-१९-३२॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷