🪷 उत्तरकाण्ड · Sarga 20
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 20 · 32 ślokas
🪷 Devanāgarī Ślokas
ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ॥७-२०-१॥
तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ।अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ॥७-२०-२॥
नारदस्तु महातेजा देवर्षिरमितप्रभः ।अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥७-२०-३॥
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ॥७-२०-४॥
विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः ।त्वया समं विमर्दैश्च भृशं हि परितोषितः ॥७-२०-५॥
किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम ।तन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥७-२०-६॥
किमयं वध्यते तात त्वया ऽवध्येन दैवतैः ।हत एव ह्ययं लोको यदा मृत्युवशं गतः ।। ७.२०.७ ।।्तम ।देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् ।अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥७-२०-७॥
नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् ।हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥७-२०-८॥
तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः ।मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ॥७-२०-९॥
क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः ।विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ॥७-२०-१०॥
पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् ।मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥७-२०-११॥
क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः ।रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥७-२०-१२॥
मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः ।मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥७-२०-१३॥
अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् ।जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥७-२०-१४॥
अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् ।तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ॥७-२०-१५॥
तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः ।एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा ।अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ॥७-२०-१६॥
महर्षे देवगन्धर्वविहार समरप्रिय ।अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ॥७-२०-१७॥
ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।समुद्रममृतार्थं च मथिष्यामि रसालयम् ॥७-२०-१८॥
अथाब्रवीदृशग्रीवं नारदो भगवानृषिः ।क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥७-२०-१९॥
अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति ।मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥७-२०-२०॥
स तु शारदमेघाभं हासं मुक्त्वा दशाननः ।उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥७-२०-२१॥
तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः ।गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥७-२०-२२॥
मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना ।अवजेष्यामि चतुरो लोकपालानिति प्रभो ॥७-२०-२३॥
तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति ।प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ॥७-२०-२४॥
एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ।प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ॥७-२०-२५॥
नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥७-२०-२६॥
येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥७-२०-२७॥
स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः ।लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥७-२०-२८॥
यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति ॥७-२०-२९॥
यो विधाता च धाता च सुकृतं दुष्कृतं तथा ।त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥७-२०-३०॥
अपरं किन्तु कृत्वायं विधानं संविधास्यति ।कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ॥७-२०-३१॥
विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥७-२०-३२॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 19
- Next: Uttara-Kāṇḍa Sarga 21 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷