🪷 उत्तरकाण्ड · Sarga 21

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 21 · 46 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.21.1
एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः ।आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥७-२१-१॥
Vālmīki 7.21.2
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ।विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥७-२१-२॥
Vālmīki 7.21.3
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् ।अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ॥७-२१-३॥
Vālmīki 7.21.4
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति ।किमागमनकृत्यं ते देवगन्धर्वसेवित ॥७-२१-४॥
Vālmīki 7.21.5
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः ।श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥७-२१-५॥
Vālmīki 7.21.6
एष नाम्नो दशग्रीवः पितृराज निशाचरः ।उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥७-२१-६॥
Vālmīki 7.21.7
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो ।दण्डप्रहरणस्याद्य तव किं नु भविष्यति ॥७-२१-७॥
Vālmīki 7.21.8
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् ।ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ॥७-२१-८॥
Vālmīki 7.21.9
तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ॥७-२१-९॥
Vālmīki 7.21.10
सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः ।प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥७-२१-१०॥
Vālmīki 7.21.11
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह ।यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ॥७-२१-११॥
Vālmīki 7.21.12
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः ।क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ॥७-२१-१२॥
Vālmīki 7.21.13
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥७-२१-१३॥
Vālmīki 7.21.14
क्षोत्रायासकरा वाचो वदतश्च भयावहाः ।सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ॥७-२१-१४॥
Vālmīki 7.21.15
वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः ।असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥७-२१-१५॥
Vālmīki 7.21.16
रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ।पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥७-२१-१६॥
Vālmīki 7.21.17
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् ।मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ॥७-२१-१७॥
Vālmīki 7.21.18
ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः ।कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः ।प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ॥७-२१-१८॥
Vālmīki 7.21.19
गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः ।गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ॥७-२१-१९॥
Vālmīki 7.21.20
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ॥७-२१-२०॥
Vālmīki 7.21.21
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा ।ददर्श सुमहाबाहू रावणो राक्षसाधिपः ॥७-२१-२१॥
Vālmīki 7.21.22
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः ।रावणो मोचयामास विक्रमेण बलाद्बली ॥७-२१-२२॥
Vālmīki 7.21.23
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा ।सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ॥७-२१-२३॥
Vālmīki 7.21.24
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा ।प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ॥७-२१-२४॥
Vālmīki 7.21.25
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः ।धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ॥७-२१-२५॥
Vālmīki 7.21.26
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः ।पुष्पकं समवर्षन्त शूराः शतसहस्रशः ॥७-२१-२६॥
Vālmīki 7.21.27
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च ।पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥७-२१-२७॥
Vālmīki 7.21.28
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ।भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥७-२१-२८॥
Vālmīki 7.21.29
असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः ।शूराणामग्रयातऽणां सहस्राणि शतानि च ॥७-२१-२९॥
Vālmīki 7.21.30
ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा ।ततस्ते सचिवास्तस्य यथाकामं यथाबलम् ।अयुध्यन्त महावीराः स च राजा दशाननः ॥७-२१-३०॥
Vālmīki 7.21.31
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः ।अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥७-२१-३१॥
Vālmīki 7.21.32
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् ।यमस्य च महाबाहो रावणस्य च मन्त्रिणः ॥७-२१-३२॥
Vālmīki 7.21.33
अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः ।तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ॥७-२१-३३॥
Vālmīki 7.21.34
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ।फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ॥७-२१-३४॥
Vālmīki 7.21.35
स तु शूलगदापासाञ्छक्तितोमरसायकान् ।मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ॥७-२१-३५॥
Vālmīki 7.21.36
तरूणां च शिलानां च शस्त्राणां चातिदारुणम् ।यमसैन्येषु तद्वर्षं पपात धरणीतले ॥७-२१-३६॥
Vālmīki 7.21.37
तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च ।जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥७-२१-३७॥
Vālmīki 7.21.38
परिवार्य च तं सर्वे शैलं मोघोत्करा इव ।भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ॥७-२१-३८॥
Vālmīki 7.21.39
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः ।ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥७-२१-३९॥
Vālmīki 7.21.40
ततः स कार्मुकी वाणी समरे चाभिवर्तत ।लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ॥७-२१-४०॥
Vālmīki 7.21.41
ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके ।तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ॥७-२१-४१॥
Vālmīki 7.21.42
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे ।मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ॥७-२१-४२॥
Vālmīki 7.21.43
तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् ।वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ॥७-२१-४३॥
Vālmīki 7.21.44
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ।मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ॥७-२१-४४॥
Vālmīki 7.21.45
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥७-२१-४५॥
Vālmīki 7.21.46
ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः ।ननाद सुमहानादं कम्पयन्निव मेदिनीम् ॥७-२१-४६॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷