🪷 युद्धकाण्ड · Sarga 87

Yuddha-Kāṇḍa · The Book of War · Sarga 87 · 31 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.87.1
एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः।धनुष्पाणिनमादाय त्वरमाणो जगाम ह ॥६-८७-१॥
Vālmīki 6.87.2
अविदूरं ततो गत्वा प्रविश्य च महद्वनम्।दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ॥६-८७-२॥
Vālmīki 6.87.3
नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम्।तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥६-८७-३॥
Vālmīki 6.87.4
इहोपहारं भूतानां बलवान् रावणात्मजः।उपहृत्य ततः पश्चात् सङ्ग्राममभिवर्तते ॥६-८७-४॥
Vālmīki 6.87.5
अदृश्यः सर्वभूतानां ततो भवति राक्षसः।निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः ॥६-८७-५॥
Vālmīki 6.87.6
तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम्।विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ॥६-८७-६॥
Vālmīki 6.87.7
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः।बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः ॥६-८७-७॥
Vālmīki 6.87.8
स रथेनाग्निवर्णेन बलवान् रावणात्मजः।इन्द्रजित् कवची धन्वी सध्वजः प्रत्यदृश्यत ॥६-८७-८॥
Vālmīki 6.87.9
तमुवाच महातेजाः पौलस्त्यमपराजितम्।समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥६-८७-९॥
Vālmīki 6.87.10
एवमुक्तो महातेजा मनस्वी रावणात्मजः।अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥६-८७-१०॥
Vālmīki 6.87.11
इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम।कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥६-८७-११॥
Vālmīki 6.87.12
न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते।प्रमाणं न च सौदर्यं न धर्मो धर्मदूषण ॥६-८७-१२॥
Vālmīki 6.87.13
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः।यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥६-८७-१३॥
Vālmīki 6.87.14
नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम्।क्वच स्वजनसंवासः क्वच नीचपराश्रयः ॥६-८७-१४॥
Vālmīki 6.87.15
गुणवान् वा परजनः स्वजनो निर्गुणो ऽपि वा।निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ॥६-८७-१५॥
Vālmīki 6.87.16
यः स्वपक्षं परित्यज्य परपक्षं निषेवते।स स्वपक्षे क्षयं प्राप्ते पश्चात्तैरेव हन्यते ॥६-८७-१६॥
Vālmīki 6.87.17
निरनुक्रोशता चेयं यादृशी ते निशाचर।स्वजनेन त्वया शक्यं परुषं रावणानुज ॥६-८७-१७॥
Vālmīki 6.87.18
इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ॥६-८७-१८॥
Vālmīki 6.87.19
अजानन्निव मच्छीलं किं राक्षस विकत्थसे।राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ॥६-८७-१९॥
Vālmīki 6.87.20
कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्।गुणो ऽयं प्रथमो नृणां तन्मे शीलमराक्षसम् ॥६-८७-२०॥
Vālmīki 6.87.21
न रमे दारुणेनाहं न चाधर्मेण वै रमे।भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ॥६-८७-२१॥
Vālmīki 6.87.22
धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम्।त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ॥६-८७-२२॥
Vālmīki 6.87.23
हिंसापरस्वहरणे परदाराभिमर्शनम्।त्याज्यमाहुर्दुराचारं वेश्म प्रज्वलितं यथा ॥६-८७-२३॥
Vālmīki 6.87.24
परस्वानां च हरणं परदाराभिमर्शनम्।सुहृदामतिशङ्का च त्रयो दोषाः क्षयाबहाः ॥६-८७-२४॥
Vālmīki 6.87.25
महर्षिणां वधो घोरः सर्वदेवैश्च विग्रहः।अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ॥६-८७-२५॥
Vālmīki 6.87.26
एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः।गुणान् प्रच्छादयामासुः पर्वतानिव तोयदाः।दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ॥६-८७-२६॥
Vālmīki 6.87.27
नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ।। ६.८७.२७ ।।्छादयामासुः पर्वतानिव तोयदाः।अतिमानी च बालश्च दुर्विनीतश्च राक्षस।बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ॥६-८७-२७॥
Vālmīki 6.87.28
अद्य ते व्यसनं प्राप्तं किं मां त्वमिह वक्ष्यसि।प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ॥६-८७-२८॥
Vālmīki 6.87.29
धर्षयित्वा च काकुत्स्थौ न शक्यं जीवितुं त्वया।युद्ध्यस्व नरदेवेन लक्ष्मणेन रणे सह।हतस्त्वं देवताकार्यं करिष्यसि यमक्षये ॥६-८७-२९॥
Vālmīki 6.87.30
निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम्।न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन् सबलो गमिष्यसि ॥६-८७-३०॥
Vālmīki 6.87.31
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्ताशतीतितमः सर्गः ।। ८७ ।। ॥६-८७-३१॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷