🪷 युद्धकाण्ड · Sarga 86

Yuddha-Kāṇḍa · The Book of War · Sarga 86 · 35 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.86.1
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः।परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥६-८६-१॥
Vālmīki 6.86.2
यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते।एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ॥६-८६-२॥
Vālmīki 6.86.3
अस्यानीकस्य महतो भेदने यत लक्ष्मण।राक्षसेन्द्रसुतो ऽप्यत्र भिन्ने दृश्यो भविष्यति ॥६-८६-३॥
Vālmīki 6.86.4
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान्।अभिद्रवाशु यावद्वै नैतत् कर्म समाप्यते ॥६-८६-४॥
Vālmīki 6.86.5
जहि वीर दुरात्मानं मायापरमधार्मिकम्।रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥६-८६-५॥
Vālmīki 6.86.6
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः।ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥६-८६-६॥
Vālmīki 6.86.7
ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः।अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥६-८६-७॥
Vālmīki 6.86.8
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः।उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥६-८६-८॥
Vālmīki 6.86.9
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम्।शब्देन महता लङ्कां नादयन् वै समन्ततः ॥६-८६-९॥
Vālmīki 6.86.10
शस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः।उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥६-८६-१०॥
Vālmīki 6.86.11
ते राक्षसा वानरेषु विकृताननबाहवः।निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥६-८६-११॥
Vālmīki 6.86.12
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः।अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥६-८६-१२॥
Vālmīki 6.86.13
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः।रक्षसां वध्यमानानां महद्भयमजायत ॥६-८६-१३॥
Vālmīki 6.86.14
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरार्दितम्।उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥६-८६-१४॥
Vālmīki 6.86.15
वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः।आरुरोह रथं सज्जं पूर्वयुक्तं सराक्षसः ॥६-८६-१५॥
Vālmīki 6.86.16
स भीमकार्मुकधरः कालमेघसमप्रभः।रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ॥६-८६-१६॥
Vālmīki 6.86.17
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम्।रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥६-८६-१७॥
Vālmīki 6.86.18
तस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम्।धरणीधरसङ्काशो महावृक्षमरिन्दमः ॥६-८६-१८॥
Vālmīki 6.86.19
स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन्।चकार बहुभिर्वृक्षैर्निस्सञ्ज्ञं युधि वानरः ॥६-८६-१९॥
Vālmīki 6.86.20
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्।राक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥६-८६-२०॥
Vālmīki 6.86.21
शितशूलधराः शूलैरसिभिश्चासिपाणयः।शक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ॥६-८६-२१॥
Vālmīki 6.86.22
परिधैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः।शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥६-८६-२२॥
Vālmīki 6.86.23
घौरैः परश्वधैश्चैव भिन्दिपालैश्च राक्षसाः।मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः।अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् ॥६-८६-२३॥
Vālmīki 6.86.24
तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ।। ६.८६.२४ ।।टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः।स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्।सूदयन्तमभित्रघ्नममित्रान् पवनात्मजम् ॥६-८६-२४॥
Vālmīki 6.86.25
स सारथिमुवाचेदं याहि यत्रैष वानरः।क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥६-८६-२५॥
Vālmīki 6.86.26
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः।वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥६-८६-२६॥
Vālmīki 6.86.27
सो ऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान्।अभ्यवर्षत दुर्द्धर्षः कपिमूर्ध्नि स राक्षसः ॥६-८६-२७॥
Vālmīki 6.86.28
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः।रोषेण महता ऽ ऽविष्टो वाक्यं चेदमुवाच ह ॥६-८६-२८॥
Vālmīki 6.86.29
युद्ध्यस्व यदि शूरो ऽसि रावणात्मज दुर्मते।वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ॥६-८६-२९॥
Vālmīki 6.86.30
बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे।वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥६-८६-३०॥
Vālmīki 6.86.31
हनुमन्तं जिघांसन्तं समुद्यतशरासनम्।रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥६-८६-३१॥
Vālmīki 6.86.32
यः स वासवनिर्जेता रावणस्यात्मसम्भवः।स एष रथमास्थाय हनुमन्तं जिघांसति ॥६-८६-३२॥
Vālmīki 6.86.33
तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः।जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥६-८६-३३॥
Vālmīki 6.86.34
इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन।ददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ॥६-८६-३४॥
Vālmīki 6.86.35
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षडशीतितमः सर्गः ।। ८६ ।। ॥६-८६-३५॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷