🪷 युद्धकाण्ड · Sarga 85

Yuddha-Kāṇḍa · The Book of War · Sarga 85 · 37 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.85.1
तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः।नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥६-८५-१॥
Vālmīki 6.85.2
ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः।विभीषणमुपासीनमुवाच कपिसन्निधौ ॥६-८५-२॥
Vālmīki 6.85.3
नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण।भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥६-८५-३॥
Vālmīki 6.85.4
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः।यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ॥६-८५-४॥
Vālmīki 6.85.5
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्।तत्तथा ऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥६-८५-५॥
Vālmīki 6.85.6
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः।विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥६-८५-६॥
Vālmīki 6.85.7
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः ॥६-८५-७॥
Vālmīki 6.85.8
त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम्।त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् ॥६-८५-८॥
Vālmīki 6.85.9
तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी।उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ॥६-८५-९॥
Vālmīki 6.85.10
प्राप्तव्या वदि ते सीता हन्तव्याश्च निशाचराः।रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ॥६-८५-१०॥
Vālmīki 6.85.11
साध्वयं यातु सौमित्रिर्बलेन महता वृतः।निकुम्भिलायां सम्प्राप्य हन्तुं रावणिमाहवे ॥६-८५-११॥
Vālmīki 6.85.12
धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः।शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः ॥६-८५-१२॥
Vālmīki 6.85.13
तेन वीर्येण तपसा वरदानात् स्वयम्भुवः।अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ॥६-८५-१३॥
Vālmīki 6.85.14
स एष सह सैन्येन प्राप्तः किल निकुम्भिलाम्।यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः ॥६-८५-१४॥
Vālmīki 6.85.15
निकुम्भिलामसम्प्राप्तमहुताग्निं च यो रिपुः।त्वामाततायिनं हन्यादिन्द्रशत्रोः स ते वधः।वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ॥६-८५-१५॥
Vālmīki 6.85.16
इत्येवं विहितो राजन् वधस्तस्यैष धीमतः।वधायेन्द्रजितो राम सन्दिशस्व महाबल।हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम् ॥६-८५-१६॥
Vālmīki 6.85.17
विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥६-८५-१७॥
Vālmīki 6.85.18
जानामि तस्य रौद्रस्य मायां सत्यपराक्रम।स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः।करोत्यसञ्ज्ञान् सङ्ग्रामे देवान् सवरुणानपि ॥६-८५-१८॥
Vālmīki 6.85.19
तस्यान्तरिक्षे चरतो रथस्थस्य महायशः।न गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसम्प्लवे ॥६-८५-१९॥
Vālmīki 6.85.20
राघवस्तु रिपोर्ज्ञात्वामायावीर्यं दुरात्मनः।लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ॥६-८५-२०॥
Vālmīki 6.85.21
यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः।हनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ॥६-८५-२१॥
Vālmīki 6.85.22
जाम्बवेनर्क्षपतिना सहसैन्येन संवृतः।जहि तं राक्षससुतं मायाबलविशारदम् ॥६-८५-२२॥
Vālmīki 6.85.23
अयं त्वां सचिवैः सार्द्धं महात्मा रजनीचरः।अभिज्ञस्तस्य देशस्य पृष्ठतो ऽनुगमिष्यति ॥६-८५-२३॥
Vālmīki 6.85.24
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः।जाग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ॥६-८५-२४॥
Vālmīki 6.85.25
सन्नद्धः कवची खड्गी सशरो हेमचापधृत्।रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥६-८५-२५॥
Vālmīki 6.85.26
अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम्।लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥६-८५-२६॥
Vālmīki 6.85.27
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः।विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ॥६-८५-२७॥
Vālmīki 6.85.28
स एवमुक्त्वा द्युतिमान् वचनं भ्रातुरग्रतः।स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ॥६-८५-२८॥
Vālmīki 6.85.29
सो ऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्।निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥६-८५-२९॥
Vālmīki 6.85.30
विभीषणेन सहितो राजपुत्रः प्रतापवान्।कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥६-८५-३०॥
Vālmīki 6.85.31
वानराणां सहस्रैस्तु हनुमान् बहुभिर्वृतः।विभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात् ॥६-८५-३१॥
Vālmīki 6.85.32
महता हरिसैन्येन सवेगमभिसंवृतः।ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥६-८५-३२॥
Vālmīki 6.85.33
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः।राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमास्थितम् ॥६-८५-३३॥
Vālmīki 6.85.34
स तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः।तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥६-८५-३४॥
Vālmīki 6.85.35
विभीषणेन सहितो राजपुत्रः प्रतापवान्।अङ्गदेन च वीरेण तथा ऽनिलसुतेन च ॥६-८५-३५॥
Vālmīki 6.85.36
विविधममलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश्च।प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥६-८५-३६॥
Vālmīki 6.85.37
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चाशीतितमः सर्गः ।। ८५ ।। ॥६-८५-३७॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷