🪷 युद्धकाण्ड · Sarga 84
Yuddha-Kāṇḍa · The Book of War · Sarga 84 · 23 ślokas
🪷 Devanāgarī Ślokas
राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले।निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद्विभीषणः ॥६-८४-१॥
नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः।नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः ॥६-८४-२॥
सो ऽभिगम्य महात्मानं राघवं शोकलालसम्।वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ॥६-८४-३॥
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्।ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ॥६-८४-४॥
व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः।अन्तर्दुःखेन दीनात्मा किमेतदिति सो ऽब्रवीत् ॥६-८४-५॥
विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्।लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ॥६-८४-६॥
हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः।हनुमद्वचनात् सौम्य ततो मोहमुपागतः ॥६-८४-७॥
कथयन्तं तु सौमित्रिं सन्निवार्य विभीषणः ॥६-८४-८॥
मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता।तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥६-८४-९॥
अभिप्रायं तु जानामि रावणस्य दुरात्मनः।सीतां प्रति महाबाहो न च घातं करिष्यति ॥६-८४-१०॥
याच्यमानस्तु बहुशो मया हितचिकीर्षुणा।वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः ॥६-८४-११॥
नैव साम्ना न दानेन न भेदेन कुतो युधा।सा द्रुष्टुमपि शक्येत नैव चान्येन केनचित् ॥६-८४-१२॥
वानरान् मोहयित्वा तु प्रतियातः स राक्षसः।चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति ॥६-८४-१३॥
हुतवानुपयातो हि देवैरपि सवासवैः।दुराधर्षो भवत्येव सङ्ग्रामे रावणात्मजः ॥६-८४-१४॥
तेन मोहयता नूनमेषा माया प्रयोजिता।विघ्नमन्विच्छता तत्र वानराणां पराक्रमे ॥६-८४-१५॥
ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते।त्यजेमं नरशार्दूल मिथ्यासन्तापमागतम्।सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ॥६-८४-१६॥
इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः।लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ॥६-८४-१७॥
एष तं नरशार्दूलो रावणिं निशितैः शरैः।त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति ॥६-८४-१८॥
तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः।पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥६-८४-१९॥
तं सन्दिश महावाहो लक्ष्मणं शुभलक्षणम्।राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ॥६-८४-२०॥
मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत् क्षमो ऽद्य कर्तुम्।त्वमति सृज रिपोर्वधाय वाणीममररिपोर्मथने यथा महेन्द्रः ॥६-८४-२१॥
समाप्तकर्मा हि स राक्षसाधिपो भवत्यदृस्यः समरे सुरासुरैः।युयुत्सता तेन समाप्तकर्मणा भवेत् सुराणामपि संशयो महान् ॥६-८४-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुरशीतितमः सर्गः ।। ८४ ।। ॥६-८४-२३॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 83
- Next: Yuddha-Kāṇḍa Sarga 85 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷