🪷 युद्धकाण्ड · Sarga 83
Yuddha-Kāṇḍa · The Book of War · Sarga 83 · 45 ślokas
🪷 Devanāgarī Ślokas
राघवश्चापि विपुलं तं राक्षसवनौकसाम्।श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥६-८३-१॥
सौम्य नूनं हनुमता क्रियते कर्म दुष्करम्।श्रूयते हि यथा भीमः सुमहानायुधस्वनः ॥६-८३-२॥
तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः।क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ॥६-८३-३॥
ऋक्षाराजस्तथोक्तस्तु स्वेनानीकेन संवृतः।आगच्छत् पश्चिमं द्वारं हनुमान् यत्र वानरः ॥६-८३-४॥
अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि।वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ॥६-८३-५॥
दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम्।नीलमेघनिभं भीमं सन्निवार्य न्यवर्तत ॥६-८३-६॥
स तेन हरिसैन्येन सन्निकर्षं महायशाः।शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥६-८३-७॥
समरे युद्ध्यमानानामस्माकं प्रेक्षतां पुरः।जघान रुदतीं सीतामिन्द्रिजिद्रावणात्मजः ॥६-८३-८॥
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णो ऽहमरिन्दम।तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥६-८३-९॥
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः।निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥६-८३-१०॥
तं भूमौ देवसङ्काशं पतितं प्रेक्ष्य राघवम्।अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥६-८३-११॥
असिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः।प्रदहन्तमनासाद्यं सहसा ऽग्निमिवोच्छिखम् ॥६-८३-१२॥
तं लक्ष्मणो ऽथ बाहुभ्यां परिष्वज्य सुदुःखितः।उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥६-८३-१३॥
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम्।अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥६-८३-१४॥
भूतानां स्थावराणां च जङ्गमानां च दर्शनम्।यथा ऽस्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥६-८३-१५॥
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्।नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥६-८३-१६॥
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत्।भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ॥६-८३-१७॥
तस्य च व्यसनाभावाद् व्यसनं च गते त्वयि।धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥६-८३-१८॥
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः।यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ॥६-८३-१९॥
यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः।धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ॥६-८३-२०॥
यस्मादर्था विवर्धन्ते येष्वधर्मः पतिष्ठितः।क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥६-८३-२१॥
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव।वधकर्म हतो ऽधर्मः स हतः कं वधिष्यति ॥६-८३-२२॥
अथवा विहितेनायं हन्यते हन्ति वा परम्।विधिरालिप्यते तेन न स पापेन कर्मणा ॥६-८३-२३॥
अदृष्टप्रतिकारेण त्वव्यक्तेनासता सता।कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ॥६-८३-२४॥
यदि सत् स्यात् सतां मुख्य नासत् स्यात्तव किञ्चन।त्वया यदीदृशं प्राप्तं तस्मात् सन्नोपपद्यते ॥६-८३-२५॥
अथवा दुर्बलः क्लीबो बलं धर्मो ऽनुवर्तते।दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥६-८३-२६॥
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे।धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥६-८३-२७॥
अथ चेत् सत्यवचनं धर्मः किल परन्तप।अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥६-८३-२८॥
यदि धर्मो भवेद्भूतो अधर्मो वा परन्तप।न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥६-८३-२९॥
अधर्मसंश्रितो धर्मो विनाशयति राघव।सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥६-८३-३०॥
मम चेदं मतं तात धर्मो ऽयमिति राघव।धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥६-८३-३१॥
अर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः।क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥६-८३-३२॥
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः।व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥६-८३-३३॥
सो ऽयमर्थं परित्यज्य सुखकामः सुखैधितः।पापमारभते कर्तुं ततो दोषः प्रवर्तते ॥६-८३-३४॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ॥६-८३-३५॥
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान्।यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ॥६-८३-३६॥
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया।राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥६-८३-३७॥
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम्।अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥६-८३-३८॥
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः।अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥६-८३-३९॥
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्।ते ऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥६-८३-४०॥
त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते।रक्षसा ऽपहृता भार्या प्राणैः प्रियतरा तव ॥६-८३-४१॥
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्।कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥६-८३-४२॥
उत्तिष्ठ नरशार्दूल दीर्घवाहो दृढव्रत।किमात्मानं महात्मानमात्मानं नावबुध्यसे ॥६-८३-४३॥
अयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः।सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥६-८३-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्र्यशीतितमः सर्गः ।। ८३ ।। ॥६-८३-४५॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 82
- Next: Yuddha-Kāṇḍa Sarga 84 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷