🪷 युद्धकाण्ड · Sarga 82

Yuddha-Kāṇḍa · The Book of War · Sarga 82 · 30 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.82.1
श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम्।वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ॥६-८२-१॥
Vālmīki 6.82.2
तानुवाच ततःसर्वान् हनुमान् मारुतात्मजः।विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक् ॥६-८२-२॥
Vālmīki 6.82.3
कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः।त्यक्तयुद्धसमुत्साहाः शूरत्वं क्वनु वो गतम् ॥६-८२-३॥
Vālmīki 6.82.4
पृष्ठतो ऽनुव्रजध्वं मामग्रतो यान्तमाहवे।शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥६-८२-४॥
Vālmīki 6.82.5
एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः।शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः ॥६-८२-५॥
Vālmīki 6.82.6
अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः।परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥६-८२-६॥
Vālmīki 6.82.7
स तैर्वानरमुख्यैश्च हनुमान् सर्वतो वृतः।हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥६-८२-७॥
Vālmīki 6.82.8
स राक्षसानां कदनं चकार सुमहाकपिः।वृतो वानरसैन्येन कालान्तकयमोपमः ॥६-८२-८॥
Vālmīki 6.82.9
स तु कोपेन चाविष्टः शोकेन च महाकपिः।हनुमान् रावणिरथे ऽपातयन्महतीं शिलाम् ॥६-८२-९॥
Vālmīki 6.82.10
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा।विधेयाश्वसमायुक्तः सुदूरमपवाहितः ॥६-८२-१०॥
Vālmīki 6.82.11
तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम्।विवेशधरणीं भित्त्वा सा शिला व्यर्थमुद्यता ॥६-८२-११॥
Vālmīki 6.82.12
पातितायां शिलायां तु रक्षसां व्यथिता चमूः।निपतन्त्या च शिलया राक्षसा मथिता भृशम् ॥६-८२-१२॥
Vālmīki 6.82.13
तमभ्यधावञ्छतशो नदन्तः काननौकसः ॥६-८२-१३॥
Vālmīki 6.82.14
ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः।क्षिपन्तीन्द्रजितः सङ्ख्ये वानरा भीमविक्रमाः ॥६-८२-१४॥
Vālmīki 6.82.15
वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः।शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः ॥६-८२-१५॥
Vālmīki 6.82.16
वानरैस्तैर्महावीर्यैर्घोररूपा निशाचराः।वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणाजिरे ॥६-८२-१६॥
Vālmīki 6.82.17
स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्।प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ॥६-८२-१७॥
Vālmīki 6.82.18
स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः।जघान कपिशार्दूलान् स बहून् दृष्टविक्रमः ॥६-८२-१८॥
Vālmīki 6.82.19
शूलैरशनिभिः खड्गैः पट्टिशैः कूटमुद्गरैः।ते चाप्यनुचरास्तस्य वानरान् जघ्नुरोजसा ॥६-८२-१९॥
Vālmīki 6.82.20
सस्कन्धविटपैः सालैः शिलाभिश्च महाबलः।हनुमान् कदनं चक्रे रक्षसां भीमकर्मणाम् ॥६-८२-२०॥
Vālmīki 6.82.21
स निवार्य परानीकमब्रवीत्तान् वनौकसः।हनुमान् सन्निवर्तध्वं न नः साध्यमिदं बलम् ॥६-८२-२१॥
Vālmīki 6.82.22
त्यक्त्वा प्राणान् विवेष्टन्तो रामिप्रियचिकीर्षवः।यन्निमित्तं हि युद्ध्यामो हता सा जनकात्मजा ॥६-८२-२२॥
Vālmīki 6.82.23
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च।तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् ॥६-८२-२३॥
Vālmīki 6.82.24
इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान्।शनैः शनैरसंत्रस्तः सबलः सन्न्यवर्तत ॥६-८२-२४॥
Vālmīki 6.82.25
ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः।स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम् ॥६-८२-२५॥
Vālmīki 6.82.26
निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित् ॥६-८२-२६॥
Vālmīki 6.82.27
यज्ञभूम्यां तु विधिवत् पावकस्तेन रक्षसा।हूयमानः प्रजज्वाल मांसशोणितभुक् तदा ॥६-८२-२७॥
Vālmīki 6.82.28
सो ऽर्चिःपिनद्धो ददृशे होमशोणिततर्पितः।सन्ध्यागत इवादित्यः सुतीव्रो ऽग्निः समुत्थितः ॥६-८२-२८॥
Vālmīki 6.82.29
अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित्।दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ॥६-८२-२९॥
Vālmīki 6.82.30
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्व्यशीततमः सर्गः ।। ८२ ।। ॥६-८२-३०॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷