🪷 युद्धकाण्ड · Sarga 81

Yuddha-Kāṇḍa · The Book of War · Sarga 81 · 37 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.81.1
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः।सन्निवृत्याहवात्तस्मात् संविवेश पुरं ततः ॥६-८१-१॥
Vālmīki 6.81.2
सो ऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्।क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ॥६-८१-२॥
Vālmīki 6.81.3
स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः।इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ॥६-८१-३॥
Vālmīki 6.81.4
इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥६-८१-४॥
Vālmīki 6.81.5
इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः।बलेन महता ऽ ऽवृत्य तस्या वधमरोचयत् ॥६-८१-५॥
Vālmīki 6.81.6
मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः।हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥६-८१-६॥
Vālmīki 6.81.7
तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः।उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः ॥६-८१-७॥
Vālmīki 6.81.8
हनुमान् पुरतस्तेषां जगाम कपिकुञ्जरः।प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ॥६-८१-८॥
Vālmīki 6.81.9
स ददर्श हतानन्दां सीतामिन्द्रजितो रथे।एकवेणीधरां दीनामुपवासकृशाननाम् ॥६-८१-९॥
Vālmīki 6.81.10
परिक्लिष्टैकवसनाममृजां राघवप्रियाम्।रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ॥६-८१-१०॥
Vālmīki 6.81.11
तां निरीक्ष्य मुहूर्तं तु मैथिलीत्यध्यवस्य तु।बभूवाचिरदृष्टा हि तेन सा जनकात्मजा ॥६-८१-११॥
Vālmīki 6.81.12
तां दीनां मलदिग्धाङ्गीं रथस्थां दृश्य मैथिलीम्।बाष्पपर्याकुलमुखो हनुमान् व्यथितो ऽभवत् ॥६-८१-१२॥
Vālmīki 6.81.13
अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनीम्।सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम्।किं समर्थितमस्येति चिन्तयन् स महाकपिः ॥६-८१-१३॥
Vālmīki 6.81.14
सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥६-८१-१४॥
Vālmīki 6.81.15
तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः।कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ॥६-८१-१५॥
Vālmīki 6.81.16
तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः।क्रोशन्तीं राम रामेति मायया योजितां रथे ॥६-८१-१६॥
Vālmīki 6.81.17
गृहीतमूर्धजां दृष्ट्वा हनुमान् दैन्यमागतः।शोकजं वारि नैत्राभ्यामसृजन्मारुतात्मजः ॥६-८१-१७॥
Vālmīki 6.81.18
तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम्।अब्रवीत् परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम् ॥६-८१-१८॥
Vālmīki 6.81.19
दुरात्मन्नात्मनाशाय केशपक्षे परामृशः।ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ॥६-८१-१९॥
Vālmīki 6.81.20
धिक् त्वां पापसमाचारं यस्य ते मतिरीदृशी ॥६-८१-२०॥
Vālmīki 6.81.21
नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम।अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ॥६-८१-२१॥
Vālmīki 6.81.22
च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली।किं तवैषा ऽपराद्धा हि यदेनां हन्तुमिच्छसि ॥६-८१-२२॥
Vālmīki 6.81.23
सीतां च हत्वा न चिरं जीविष्यसि कथञ्चन।वधार्ह कर्मणा ऽनेन मम हस्तगतो ह्यसि ॥६-८१-२३॥
Vālmīki 6.81.24
ये च स्त्रीघातिनां लोका लोकवध्येषु कुत्सिताः।इह जिवितमुत्सृज्य प्रेत्य तान् प्रतिपत्स्यसे ॥६-८१-२४॥
Vālmīki 6.81.25
इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः।अभ्यधावत सङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति ॥६-८१-२५॥
Vālmīki 6.81.26
आपतन्तं महावीर्यं तदनीकं वनौकसाम्।रक्षसां भीमवेगानामनीकं तु न्यवारयत् ॥६-८१-२६॥
Vālmīki 6.81.27
स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्।हरिश्रेष्ठं हनूमन्तमिन्द्रजित् प्रत्युवाच ह ॥६-८१-२७॥
Vālmīki 6.81.28
सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः।तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः ॥६-८१-२८॥
Vālmīki 6.81.29
इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर।सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ॥६-८१-२९॥
Vālmīki 6.81.30
न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम।पीडाकरममित्राणां यत् स्यात् कर्तव्यमेव तत् ॥६-८१-३०॥
Vālmīki 6.81.31
तमेवमुक्त्वा रुदतीं सीतां मायामयीं तदा।शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् ॥६-८१-३१॥
Vālmīki 6.81.32
यज्ञोपवीतमार्गेण भिन्ना तेन तपस्विनी।सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना।तामिन्द्रजित्स्वयं हत्वा हनुमन्तमुवाच ह ॥६-८१-३२॥
Vālmīki 6.81.33
मया रामस्य पश्येमां कोपेन च निषूदिताम्।एषा विशस्ता वैदेही विफलो वः परिश्रमः ॥६-८१-३३॥
Vālmīki 6.81.34
ततः खड्गेन महता हत्वा तामिन्द्रिजित् स्वयम्।हृष्टः स रथमास्थाय विननाद महास्वनम् ॥६-८१-३४॥
Vālmīki 6.81.35
वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः।व्यादितास्यस्य नदतस्तहुर्गं संश्रितस्य च ॥६-८१-३५॥
Vālmīki 6.81.36
तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः।तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः सहसा प्रदुद्रुवुः ॥६-८१-३६॥
Vālmīki 6.81.37
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकाशीतितमः सर्गः ।। ८१ ।। ॥६-८१-३७॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷