🪷 युद्धकाण्ड · Sarga 80
Yuddha-Kāṇḍa · The Book of War · Sarga 80 · 44 ślokas
🪷 Devanāgarī Ślokas
मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः।क्रोधेन महता ऽ ऽविष्टो दन्तान् कटकटापयन् ॥६-८०-१॥
कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन्।आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ॥६-८०-२॥
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ।अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥६-८०-३॥
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे।किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥६-८०-४॥
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः।यज्ञभूमौ स विधिवत् पावकं जुहवेन्द्रजित् ॥६-८०-५॥
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः।आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ॥६-८०-६॥
शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकाः।लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥६-८०-७॥
सर्वतो ऽग्निं समास्तीर्य शरपत्रैः सतोमरैः।छागस्य कृष्णवर्णस्य गलं जग्राह जीवितः ॥६-८०-८॥
सकृदेव समिद्धस्य विधूमस्य महार्चिषः।बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥६-८०-९॥
प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः।हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः ॥६-८०-१०॥
हुत्वा ऽग्निं तर्पयित्वा च देवदानवराक्षसान्।आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥६-८०-११॥
स वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः।आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ॥६-८०-१२॥
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः।मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलङ्कृतः ॥६-८०-१३॥
जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः।बभूवेन्द्रजितः केतुर्वैडूर्यसमलङ्कृतः ॥६-८०-१४॥
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः।स बभूव दुराधर्षो रावणिः सुमहाबलः ॥६-८०-१५॥
सो ऽभिनिर्याय नगरादिन्द्रजित् समितिञ्जयः।हुत्वा ऽग्निं राक्षसैर्मन्त्रैरन्तर्धानगतो ऽब्रवीत् ॥६-८०-१६॥
अद्य हत्वा रणे यौ तौ मिथ्या प्रव्राजितौ वने।जयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ॥६-८०-१७॥
अद्य निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम्।करिष्ये परमप्रीतिमित्युक्त्वा ऽन्तरधीयत ॥६-८०-१८॥
आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः।तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥६-८०-१९॥
स ददर्श महावीर्यो नागौ त्रिशिरसाविव।सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥६-८०-२०॥
इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम्।सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥६-८०-२१॥
स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ।अचक्षुर्विषये तिष्ठन् विव्याध निशितैः सऱैः ॥६-८०-२२॥
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ।धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥६-८०-२३॥
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ।तमस्त्रैः सूर्यसङ्काशैर्नैव पस्पृशतुः शरैः ॥६-८०-२४॥
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः।दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृताः ॥६-८०-२५॥
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः।शश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥६-८०-२६॥
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम्।स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥६-८०-२७॥
स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम्।विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥६-८०-२८॥
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ।हेमपुङ्खान्नरव्याघ्रौ तिग्मान् मुमुचतुः शरान् ॥६-८०-२९॥
अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः।निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥६-८०-३०॥
अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ।तानिषून् पततो भल्लेरनेकैर्निचकृन्ततुः ॥६-८०-३१॥
यतो हि ददृशाते तौ शरान्निपततः शितान्।ततस्तु तौ दाशरथी ससृजाते ऽस्त्रमुत्तमम् ॥६-८०-३२॥
रावणिस्तु दिशः सर्वा रथेनातिरथः पतन्।विव्याध तौ दाशरथी लध्वस्त्रो निशितैः शरैः ॥६-८०-३३॥
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः।बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥६-८०-३४॥
नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान्।न चान्यद्विदितं किञ्चित् सूर्यस्येवाभ्रसम्प्लवे ॥६-८०-३५॥
तेन विद्धाश्च हरयो निहताश्च गतासवः।बभूवुः शतशस्तत्र पतिता धरणीतले ॥६-८०-३६॥
लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत्।ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥६-८०-३७॥
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ॥६-८०-३८॥
नैकस्य हेतो रक्षांसि पृथिव्यां हन्तु मर्हसि।अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्।पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥६-८०-३९॥
अस्यैव तु वधे यत्नं करिष्यावो महाबल।आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥६-८०-४०॥
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात्।राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥६-८०-४१॥
यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्स्थलं वा।एवं निगूढो ऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ॥६-८०-४२॥
इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः।वधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ॥६-८०-४३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अशीतितमः सर्गः ।। ८० ।। ॥६-८०-४४॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 79
- Next: Yuddha-Kāṇḍa Sarga 81 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷