🪷 युद्धकाण्ड · Sarga 79

Yuddha-Kāṇḍa · The Book of War · Sarga 79 · 41 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.79.1
निर्गतं मकाराक्षं ते दृष्ट्वा वानरयूथपाः।आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ॥६-७९-१॥
Vālmīki 6.79.2
ततः प्रवृत्तं सुमहत् तद्युद्धं रोमहर्षणम्।निशाचरैः प्लवङ्गानां देवानां दानवैरिव ॥६-७९-२॥
Vālmīki 6.79.3
वृक्षशूलनिपातैश्च शिलापरिघपातनैः।अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ॥६-७९-३॥
Vālmīki 6.79.4
शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः।पट्टिशैर्भिन्दिपालैश्च निर्घातैश्च समन्ततः ॥६-७९-४॥
Vālmīki 6.79.5
पाशमुद्गरदण्डैश्च निखातैश्चापरे तदा।कदनं कपिवीराणां चक्रुस्ते रजनीचराः ॥६-७९-५॥
Vālmīki 6.79.6
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः।सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ॥६-७९-६॥
Vālmīki 6.79.7
तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वलीमुखान्।नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ॥६-७९-७॥
Vālmīki 6.79.8
विद्रवत्सु तदा तेषु वानरेषु समन्ततः।रामस्तान् वारयामास शरवर्षेण राक्षसान् ॥६-७९-८॥
Vālmīki 6.79.9
वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः।क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् ॥६-७९-९॥
Vālmīki 6.79.10
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते।त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः ॥६-७९-१०॥
Vālmīki 6.79.11
यत्तदा दण्डकारण्ये पितरं हतवान् मम।मदग्रतः स्वकर्मस्थं दृष्ट्वा रोषो ऽभिवर्धते ॥६-७९-११॥
Vālmīki 6.79.12
दह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव।यन्मया ऽसि न दृष्टस्त्वं तस्मिन् काले महावने ॥६-७९-१२॥
Vālmīki 6.79.13
दिष्ट्या ऽसि दर्शनं राम मम त्वं प्राप्तवानिह।काङ्क्षितो ऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ॥६-७९-१३॥
Vālmīki 6.79.14
अद्य मद्बाणवेगेन प्रेतराङ्विषयं गतः।ये त्वया निहता वीराः सह तैश्च समेष्यसि ॥६-७९-१४॥
Vālmīki 6.79.15
बहुना ऽत्र किमुक्तेन शृणु राम वचो मम।पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ॥६-७९-१५॥
Vālmīki 6.79.16
अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे।अभ्यस्तं येन वा राम तेनैव युधि वर्तताम् ॥६-७९-१६॥
Vālmīki 6.79.17
मकराक्षवचः क्षुत्वा रामो दशरथात्मजः।अब्रवीत् प्रहसन् वाक्यमुत्तरोत्तरवादिनम् ॥६-७९-१७॥
Vālmīki 6.79.18
कत्थसे किं वृथा रक्षो बहून्यसदृशानि तु।न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ॥६-७९-१८॥
Vālmīki 6.79.19
चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः।त्रिशिरा दूषणश्चैव दण्डके निहता मया ॥६-७९-१९॥
Vālmīki 6.79.20
स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः।भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुराः ॥६-७९-२०॥
Vālmīki 6.79.21
राघवेणैवमुक्तस्तु खरपुत्रो निशाचरः।बाणौघानमुचत्तस्मै राघवाय रणाजिरे ॥६-७९-२१॥
Vālmīki 6.79.22
तान् शरान् शरवर्षेण रामश्चिच्छेद नैकधा।निपेतुर्भुवि ते च्छिन्ना रुक्मपुङ्खाः सहस्रशः ॥६-७९-२२॥
Vālmīki 6.79.23
तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा।रक्षसः खरपुत्रस्य सूनोर्दशरथस्य च ॥६-७९-२३॥
Vālmīki 6.79.24
जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा।धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे ॥६-७९-२४॥
Vālmīki 6.79.25
देवदानवगन्धर्वाः किन्नराश्च महोरगाः।अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ॥६-७९-२५॥
Vālmīki 6.79.26
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते परम्।कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे ॥६-७९-२६॥
Vālmīki 6.79.27
राममुक्तांस्तु बाणौघान् राक्षसस्त्वच्छिनद्रणे।रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ॥६-७९-२७॥
Vālmīki 6.79.28
बाणौघैर्वितताः सर्वा दिशश्च प्रदिशस्तथा।सञ्छन्ना वसुधा चैव समन्तान्न प्रकाशते ॥६-७९-२८॥
Vālmīki 6.79.29
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः।अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ॥६-७९-२९॥
Vālmīki 6.79.30
भित्त्वा शरै रथं रामो रथाश्वान् समपातयत्।विरथो वसुधां तिष्ठन् मकराक्षो निशाचरः ॥६-७९-३०॥
Vālmīki 6.79.31
तत्तिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना।त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ॥६-७९-३१॥
Vālmīki 6.79.32
विभ्राम्य तु महच्छूलं प्रज्वलत्तन्निशाचरः।स क्रोधात् प्राहिणोत्तस्मै राघवाय महाहवे ॥६-७९-३२॥
Vālmīki 6.79.33
तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम्।बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः ॥६-७९-३३॥
Vālmīki 6.79.34
स च्छिन्नो नैकाधा शूलो दिव्यहाटकमण्डितः।व्यशीर्यत महोल्केव रामबाणार्दितो भुवि ॥६-७९-३४॥
Vālmīki 6.79.35
तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।साधु साध्विति भूतानि व्याहरन्ति नभोगता ॥६-७९-३५॥
Vālmīki 6.79.36
तं दृष्ट्वा निहतं शूलं मकाराक्षो निशाचरः।मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥६-७९-३६॥
Vālmīki 6.79.37
स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः।पावकास्त्रं ततो रामः सन्दधे तु शरासने ॥६-७९-३७॥
Vālmīki 6.79.38
तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे।सञ्छिन्नहृदयं तत्र पपात च ममार च ॥६-७९-३८॥
Vālmīki 6.79.39
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम्।लङ्कामेवाभ्यधावन्त रामबाणार्दितास्तदा ॥६-७९-३९॥
Vālmīki 6.79.40
दशरथनृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम्।ददृशुरथ सुरा भृशं प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम् ॥६-७९-४०॥
Vālmīki 6.79.41
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनाशीतितमः सर्गः ।। ७९ ।। ॥६-७९-४१॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷