🪷 युद्धकाण्ड · Sarga 78

Yuddha-Kāṇḍa · The Book of War · Sarga 78 · 22 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.78.1
निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम्।रावणः परमामर्षी प्रजज्वालानलो यथा ॥६-७८-१॥
Vālmīki 6.78.2
नैर्ऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्च्छितः।खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ॥६-७८-२॥
Vālmīki 6.78.3
गच्छ पुत्र मया ऽ ऽज्ञप्तो बलेनाभिसमन्वितः।राघवं लक्ष्मणं चैव जहि तांश्च वनौकसः ॥६-७८-३॥
Vālmīki 6.78.4
रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः।बाढमित्यब्रवीद्धृष्टो मकाराक्षो निशाचरः ॥६-७८-४॥
Vālmīki 6.78.5
सो ऽबिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम्।निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ॥६-७८-५॥
Vālmīki 6.78.6
समीपस्थं बलाध्यक्षं खरपुत्रो ऽब्रवीदिदम्।रथश्चानीयतां शीघ्रं सैन्यं चाहूयतां त्वरात् ॥६-७८-६॥
Vālmīki 6.78.7
तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः।स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥६-७८-७॥
Vālmīki 6.78.8
प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः।सूतं सञ्चोदयामास शीघ्रं मे रथमावह ॥६-७८-८॥
Vālmīki 6.78.9
अथ तान् राक्षसान् सर्वान् मकराक्षो ऽब्रवीदिदम्।यूयं सर्वे प्रयुद्ध्यध्वं पुरस्तान्मम राक्षसाः ॥६-७८-९॥
Vālmīki 6.78.10
अहं राक्षसराजेन रावणेन महात्मना।आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥६-७८-१०॥
Vālmīki 6.78.11
अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः।शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥६-७८-११॥
Vālmīki 6.78.12
अद्य शूलनिपातैश्च वानराणां महाचमूम्।प्रदहिष्यामि सम्प्राप्तः शुष्केन्धनमिवानलः ॥६-७८-१२॥
Vālmīki 6.78.13
मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः।सर्वे नानायुधोपेता बलवन्तः समागताः ॥६-७८-१३॥
Vālmīki 6.78.14
ते कामरूपिणः सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः।मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः ॥६-७८-१४॥
Vālmīki 6.78.15
परिवार्य महाकाया महाकायं खरात्मजम्।अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम् ॥६-७८-१५॥
Vālmīki 6.78.16
शङ्खभेरीसहस्राणामाहतानां समन्ततः।क्ष्वेलितास्फोटितानां च ततः शब्दो महानभूत् ॥६-७८-१६॥
Vālmīki 6.78.17
प्रभ्रष्टो ऽथ करात्तस्य प्रतोदः सारथेस्तदा।पपात सहसा चैव ध्वजस्तस्य च रक्षसः ॥६-७८-१७॥
Vālmīki 6.78.18
तस्य ते रथयुक्ताश्च हया विक्रमवर्जिताः।चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥६-७८-१८॥
Vālmīki 6.78.19
प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः।निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥६-७८-१९॥
Vālmīki 6.78.20
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः।अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥६-७८-२०॥
Vālmīki 6.78.21
घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः।अहमहमिति युद्धकौशलास्ते रजनिचराः परितः समुन्नदन्तः ॥६-७८-२१॥
Vālmīki 6.78.22
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टसप्ततितमः सर्गः ।। ७८ ।। ॥६-७८-२२॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷