🪷 युद्धकाण्ड · Sarga 77
Yuddha-Kāṇḍa · The Book of War · Sarga 77 · 26 ślokas
🪷 Devanāgarī Ślokas
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्।प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ॥६-७७-१॥
ततः स्रग्दामसन्नद्धं दत्तपञ्चाङ्गुलं शुभम्।आददे परिघं वीरो नगेन्द्रशिखरोपमम् ॥६-७७-२॥
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्।यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥६-७७-३॥
तमाविध्य महातेजाः शक्रध्वजसमं तदा।विननाद विवृत्तास्यो निकुम्भो भीम विक्रमः ॥६-७७-४॥
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि।कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ॥६-७७-५॥
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च।यथेन्द्रधनुषा मेघः सविद्युत् स्तनयित्नुमान् ॥६-७७-६॥
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः।प्रजज्वाल सघोषश्च विधूम इव पावकः ॥६-७७-७॥
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः।सह चैवामरावत्या सर्वैश्च भवनैः सह ॥६-७७-८॥
सतारग्रहनक्षत्रं सचन्द्रं समहाग्रहम्।निकुम्भपरिघाघूर्णं भ्रमतीव नभस्स्थलम् ॥६-७७-९॥
दुरासदश्च सञ्जज्ञे परिघाभरणप्रभः।कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ॥६-७७-१०॥
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्।हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ॥६-७७-११॥
परिघोपमबाहुस्तु परिघं भास्करप्रभम्।बली बलवतस्तस्य पातयामास वक्षसि ॥६-७७-१२॥
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः।विशीर्यमाणः सहसा उल्काशतमिवाम्बरे ॥६-७७-१३॥
स तु तेन प्रहारेण विचचाल महाकपिः।परिघेण समाधूतो यथाभूमिचले ऽचलः ॥६-७७-१४॥
स तदा ऽभिहतस्तेन हनुमान् प्लवगोत्तमः।मुष्टिं संवर्तयामास बलेनातिमहाबलः ॥६-७७-१५॥
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्।अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः ॥६-७७-१६॥
ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम्।मुष्टिना तेन सञ्जज्ञे ज्वाला विद्युदिवोत्थिता ॥६-७७-१७॥
स तु तेन प्रहारेण निकुम्भो विचचाल ह।स्वस्थश्चापि निजग्राह हनुमन्तं महाबलम् ॥६-७७-१८॥
विचुक्रुशुस्तदा सङ्ख्ये भीमं लङ्कानिवासिनः।निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम् ॥६-७७-१९॥
स तदा ह्रियमाणो ऽपि कुम्भकर्णात्मजेन ह।आजघानानिलसुतो वज्रकल्पेन मुष्टिना ॥६-७७-२०॥
आत्मानं मोचयित्वा ऽथ क्षितावभ्यवपद्यत।हनुमानुन्ममाथाशु निकुम्भं मारुतात्मजः ॥६-७७-२१॥
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष ह।उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् ॥६-७७-२२॥
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्।उत्पाटयामास शिरो भैरवं नदतो महत् ॥६-७७-२३॥
अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम्।दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोः सुभीमम् ॥६-७७-२४॥
व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवङ्गा दिशः सस्वनुश्च।चचालेव चोर्वी पफालेव च द्यौर्भयं राक्षसानां बलं चाविवेश ॥६-७७-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तसप्ततितमः सर्गः ।। ७७ ।। ॥६-७७-२६॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 76
- Next: Yuddha-Kāṇḍa Sarga 78 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷