🪷 युद्धकाण्ड · Sarga 76

Yuddha-Kāṇḍa · The Book of War · Sarga 76 · 94 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.76.1
प्रवृत्ते सङ्कुले तस्मिन् घोरे वीरजनक्षये।अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥६-७६-१॥
Vālmīki 6.76.2
आहूय सो ऽङ्गदं कोपात् ताडयामास वेगितः।गदया कम्पनः पूर्वं स चचाल भृशाहतः ॥६-७६-२॥
Vālmīki 6.76.3
स सञ्ज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः।अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥६-७६-३॥
Vālmīki 6.76.4
ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे।रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ॥६-७६-४॥
Vālmīki 6.76.5
सो ऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः।शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ॥६-७६-५॥
Vālmīki 6.76.6
क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैः शिलीमुखैः।कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः ॥६-७६-६॥
Vālmīki 6.76.7
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान्।धनुरग्र्यं रथं बाणान् ममर्द तरसा बली ॥६-७६-७॥
Vālmīki 6.76.8
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे।उत्पपात दिवं क्रुद्धो वेगवानविचारयन् ॥६-७६-८॥
Vālmīki 6.76.9
तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली।करेण तस्य तं खड्गं समाच्छिद्य ननाद च ॥६-७६-९॥
Vālmīki 6.76.10
तस्यांसफलके खड्गं निजघान ततो ऽङ्गदः।यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ॥६-७६-१०॥
Vālmīki 6.76.11
तं प्रगृह्य महाखड्गं विनद्य च पुनःपुनः।वालिपुत्रो ऽभिदुद्राव रणशीर्षे परानरीन् ॥६-७६-११॥
Vālmīki 6.76.12
आयसीं तु गदां वीरः प्रगृह्य कनकाङ्गदः।शोणिताक्षः समाविध्य तमेवानुपपात ह ॥६-७६-१२॥
Vālmīki 6.76.13
प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली।रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥६-७६-१३॥
Vālmīki 6.76.14
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः।विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ॥६-७६-१४॥
Vālmīki 6.76.15
अङ्गदं परिरक्षान्तौ मैन्दो द्विविद एव च।तस्य तस्थातुरभ्याशे परस्परदिदृक्षया ॥६-७६-१५॥
Vālmīki 6.76.16
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः।राक्षसा वानरान् रोषादसिचर्मगदाधराः ॥६-७६-१६॥
Vālmīki 6.76.17
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः।संसक्तानां महद्युद्धमभवद्रोमहर्षणम् ॥६-७६-१७॥
Vālmīki 6.76.18
ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे।खड्गेन प्रतिचिच्छेद तान् प्रजङ्घो महाबलः ॥६-७६-१८॥
Vālmīki 6.76.19
रथानश्वान् द्रुमैः शैलैस्ते प्रचिक्षिपुराहवे।शरौधैः प्रतिचिच्छेद तान् यूपाक्षो निशाचरः ॥६-७६-१९॥
Vālmīki 6.76.20
सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान्।बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ॥६-७६-२०॥
Vālmīki 6.76.21
उद्यम्य विपुलं खड्गं परमर्मनिकृन्तनम्।प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः ॥६-७६-२१॥
Vālmīki 6.76.22
तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः।आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ॥६-७६-२२॥
Vālmīki 6.76.23
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना।वालिपुत्रस्य घातेन स पपात क्षितावसिः ॥६-७६-२३॥
Vālmīki 6.76.24
तं दृष्ट्वा पतितं भूमौ खड्गमुत्पलसन्निभम्।मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥६-७६-२४॥
Vālmīki 6.76.25
ललाटे स महावीर्यमङ्गदं वानरर्षभम्।आजघान महातेजाः स मुहूर्तं चचाल ह ॥६-७६-२५॥
Vālmīki 6.76.26
स सञ्ज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान्।प्रजङ्घस्य शिरः कायात् खड्गेनापातयत् क्षितौ ॥६-७६-२६॥
Vālmīki 6.76.27
स यूपाक्षो ऽश्रुपूर्णाक्षः पितृव्ये निहते रणे।अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्गमाददे ॥६-७६-२७॥
Vālmīki 6.76.28
तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन्।आजघानोरसि क्रुद्धो जाग्राह च बलाद्बली ॥६-७६-२८॥
Vālmīki 6.76.29
गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः।आजघान गदाग्रेण वक्षसि द्विविदं ततः ॥६-७६-२९॥
Vālmīki 6.76.30
स गदाभिहतस्तेन चचाल च महाबलः।उद्यतां च पुनस्तस्य जहार द्विविदो गदाम् ॥६-७६-३०॥
Vālmīki 6.76.31
एतस्मिन्नन्तरे वीरो मैन्दो वानरयूथपः।यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ॥६-७६-३१॥
Vālmīki 6.76.32
तौ शोणिताक्षयूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ।चक्रुतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ॥६-७६-३२॥
Vālmīki 6.76.33
द्विविदः शोणिताक्षं तु विददार नखैर्मुखे।निष्पिपेष च वगेन क्षितावाविध्य वीर्यवान् ॥६-७६-३३॥
Vālmīki 6.76.34
यूपाक्षमपि सङ्क्रुद्धो मैन्दो वानरयूथपः।पीडयामास बाहुभ्यां स पपात हतः क्षितौ ॥६-७६-३४॥
Vālmīki 6.76.35
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा।जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ॥६-७६-३५॥
Vālmīki 6.76.36
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ॥६-७६-३६॥
Vālmīki 6.76.37
अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवङ्गमैः।निपातितमहावीरां दृष्ट्वा रक्षश्चमूं ततः।कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ॥६-७६-३७॥
Vālmīki 6.76.38
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः।मुमोचाशीविषप्रख्यान् शरान् देहविदारणान् ॥६-७६-३८॥
Vālmīki 6.76.39
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम्।विद्युदैरावतार्चिष्माद्द्वितीयेन्द्रधनुर्यथा ॥६-७६-३९॥
Vālmīki 6.76.40
आकर्णाकृष्टमुक्तेन जघान द्विविदं तदा।तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ॥६-७६-४०॥
Vālmīki 6.76.41
सहसा ऽभिहतस्तेन विप्रमुक्तपदः स्फुरन्।निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ॥६-७६-४१॥
Vālmīki 6.76.42
मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे।अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ॥६-७६-४२॥
Vālmīki 6.76.43
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः।बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥६-७६-४३॥
Vālmīki 6.76.44
सन्धाय चान्यं सुमुखं शरमासीविषोपमम्।आजघान महातेजा वक्षसि द्विविदाग्रजम् ॥६-७६-४४॥
Vālmīki 6.76.45
स तु तेन प्रहारेण मैन्दो वानरयूथपः।मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः ॥६-७६-४५॥
Vālmīki 6.76.46
अङ्गदो मातुलौ दृष्ट्वा पतितौ तु महाबलौ।अभिदुद्राव वेगेन कुम्भमद्युतकार्मुकम् ॥६-७६-४६॥
Vālmīki 6.76.47
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः।त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः ॥६-७६-४७॥
Vālmīki 6.76.48
सो ऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान्।अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ॥६-७६-४८॥
Vālmīki 6.76.49
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते।शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ॥६-७६-४९॥
Vālmīki 6.76.50
स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः।कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान् ॥६-७६-५०॥
Vālmīki 6.76.51
आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम्।भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम्।तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ॥६-७६-५१॥
Vālmīki 6.76.52
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते।सालमासन्नमेकेन परिजग्राह पाणिना ।। ६.७६.५२ ।।्।सम्पीड्य चोरसि स्कन्धं करेणाभिनिवेश्य च।किञ्चिदभ्यवनम्यैनमुन्ममाथ यथा गजः ।। ६.७६.५३ ।।। ॥६-७६-५२॥
Vālmīki 6.76.53
तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसन्निभम्।समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ॥६-७६-५३॥
Vālmīki 6.76.54
स बिभेद शितैर्बाणैः सप्तभिः कायभेदनैः ॥६-७६-५४॥
Vālmīki 6.76.55
अङ्गदो विव्यथे ऽभीक्ष्णं ससाद च मुमोह च ॥६-७६-५५॥
Vālmīki 6.76.56
अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे।दुरासदं हरिश्रेष्ठं रामायन्ये न्यवेदयन् ॥६-७६-५६॥
Vālmīki 6.76.57
रामस्तु व्यथितं श्रुत्वा वालिपुत्रं रणाजिरे।व्यादिदेश हरिश्रेष्ठान् जाम्बवत्प्रमुखांस्ततः ॥६-७६-५७॥
Vālmīki 6.76.58
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम्।अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् ॥६-७६-५८॥
Vālmīki 6.76.59
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः।रिरक्षिषन्तो ऽभ्यपतन्नङ्गदं वानरर्षभाः ॥६-७६-५९॥
Vālmīki 6.76.60
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः।कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ॥६-७६-६०॥
Vālmīki 6.76.61
समीक्ष्यापततस्तांस्तु वानरेन्द्रान् महाबलान्।आववार शरौघेण नगेनेव जलाशयम् ॥६-७६-६१॥
Vālmīki 6.76.62
तस्य बाणपथं प्राप्य न शोकुरतिवर्तितुम्।वानरेन्द्रा महात्मानो वेलामिव महोदधिः ॥६-७६-६२॥
Vālmīki 6.76.63
तांस्तु दृष्ट्वा हरिगणान् शरवृष्टिबिरर्दितान्।अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ॥६-७६-६३॥
Vālmīki 6.76.64
अबिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे।शैलसानुचरं नागं वेगवानिव केसरी ॥६-७६-६४॥
Vālmīki 6.76.65
उत्पाट्य च महाशैलानश्वकर्णान् धवान् बहून्।अन्यांश्च विविधान् वृक्षांश्चिक्षेप च महाबलः ॥६-७६-६५॥
Vālmīki 6.76.66
तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम्।कुम्भकर्णात्मजः शीघ्रं चिच्छेद निशितैः शरैः ॥६-७६-६६॥
Vālmīki 6.76.67
अभिलक्षेण तीव्रेण कुम्भेन निशितैः शरैः।आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः ॥६-७६-६७॥
Vālmīki 6.76.68
द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान्।वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे ॥६-७६-६८॥
Vālmīki 6.76.69
निर्भिद्यमानः सहसा सहमानश्च तान् शरान्।कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुष्प्रभम् ॥६-७६-६९॥
Vālmīki 6.76.70
अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम्।अब्रवीत् कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् ॥६-७६-७०॥
Vālmīki 6.76.71
निकुम्भाग्रज वीर्यं ते बाणवेगवदद्भुतम्।सन्नतिश्च प्रभावश्च तव वा रावणस्य वा ॥६-७६-७१॥
Vālmīki 6.76.72
प्रह्लादबलिवृत्रघ्नकुबेवरुणोपम।एकस्त्वमनुजातो ऽसि पितरं बलवृत्ततः ॥६-७६-७२॥
Vālmīki 6.76.73
त्वामेवैकं महाबाहुं चापहस्त मरिन्दमम्।त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः ॥६-७६-७३॥
Vālmīki 6.76.74
विक्रमस्व महाबुद्धे कर्माणि मम पश्यतः ॥६-७६-७४॥
Vālmīki 6.76.75
वरदानात् पितृव्यस्ते सहते देवदानवान्।कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥६-७६-७५॥
Vālmīki 6.76.76
धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च।त्वमद्य रक्षसां लोके श्रेष्ठो ऽसि बलवीर्यतः ॥६-७६-७६॥
Vālmīki 6.76.77
महाविमर्दं समरे मया सह तवाद्भुतम्।अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ॥६-७६-७७॥
Vālmīki 6.76.78
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम्।पातिता हरिवीराश्च त्वया वै भीमविक्रमाः ॥६-७६-७८॥
Vālmīki 6.76.79
उपालम्भभयाच्चापि नासि वीर मया हतः।कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ॥६-७६-७९॥
Vālmīki 6.76.80
तेन सुग्रीववाक्येन सावमानेन मानितः।अग्नेराज्याहुतस्येव तेजस्तस्याभ्यवर्धत।ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा ॥६-७६-८०॥
Vālmīki 6.76.81
गजाविवाहितमदौ निश्वसन्तौ मुहुर्मुहुः।अन्योन्यगात्रग्रथितौ कर्षन्तावितरेतरम्।सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ॥६-७६-८१॥
Vālmīki 6.76.82
तयोः पादाभिघाताच्च निमग्ना चाभवन्मही।व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ॥६-७६-८२॥
Vālmīki 6.76.83
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि।पातयामास वेगेन दर्शयन्नुदधेस्तलम् ॥६-७६-८३॥
Vālmīki 6.76.84
ततः कुम्भनिपातेन जलराशिः समुत्थितः।विन्ध्यमन्दरसङ्काशो विससर्प समन्ततः ॥६-७६-८४॥
Vālmīki 6.76.85
ततः कुम्भः समुत्पत्य सुग्रीवमभिपत्य च।आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ॥६-७६-८५॥
Vālmīki 6.76.86
तस्य चर्म च पुस्फोट बहु सुस्राव शोणितम्।स च मुष्टिर्महावेगः प्रतिजघ्ने ऽस्थिमण्डले ॥६-७६-८६॥
Vālmīki 6.76.87
तदा वेगेन तत्रासीत्तेजः प्रज्वलितं मुहुः।वज्रनिष्पेषसञ्जाता ज्वाला मेरौ यथा गिरौ ॥६-७६-८७॥
Vālmīki 6.76.88
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः।मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥६-७६-८८॥
Vālmīki 6.76.89
अर्चिस्सहस्रविकचं रविमण्डलसप्रभम्।स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥६-७६-८९॥
Vālmīki 6.76.90
स तु तेन प्रहारेण विह्वलो भृशताडितः।निपपात तदा कुम्भो गतार्चिरिव पावकः ॥६-७६-९०॥
Vālmīki 6.76.91
मुष्टिना ऽभिहतस्तेन निपपाताशु राक्षसः।लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥६-७६-९१॥
Vālmīki 6.76.92
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना।बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः ॥६-७६-९२॥
Vālmīki 6.76.93
तस्मिन् हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे।मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ॥६-७६-९३॥
Vālmīki 6.76.94
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्सप्ततितमः सर्गः ।। ७६ ।। ॥६-७६-९४॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷