🪷 युद्धकाण्ड · Sarga 75

Yuddha-Kāṇḍa · The Book of War · Sarga 75 · 71 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.75.1
ततो ऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः।अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ॥६-७५-१॥
Vālmīki 6.75.2
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः।नेदानीमुपनिर्हारं रावणो दातुमर्हति ॥६-७५-२॥
Vālmīki 6.75.3
ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः।लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥६-७५-३॥
Vālmīki 6.75.4
ततो ऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे।लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥६-७५-४॥
Vālmīki 6.75.5
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः।आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥६-७५-५॥
Vālmīki 6.75.6
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च।प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम्।तेषां गृहसस्राणि ददाह हुतभुक् तदा ॥६-७५-६॥
Vālmīki 6.75.7
प्रासादाः पर्वताकाराः पतन्ति धरणीतले।अगरुर्दह्यते तत्र वर च हरिचन्दनम् ॥६-७५-७॥
Vālmīki 6.75.8
मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम्।क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् ॥६-७५-८॥
Vālmīki 6.75.9
आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम्।नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ ॥६-७५-९॥
Vālmīki 6.75.10
गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः।तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च ॥६-७५-१०॥
Vālmīki 6.75.11
खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः।रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु ॥६-७५-११॥
Vālmīki 6.75.12
मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः।विविधानस्त्रसंयोगानग्निर्दहति तत्र वै ॥६-७५-१२॥
Vālmīki 6.75.13
नानाविधान् गृहच्छन्दान् ददाह हुतभूक् तदा।आवासान् राक्षसानां च सर्वेषां गृहगर्धिनाम् ॥६-७५-१३॥
Vālmīki 6.75.14
हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम्।शीधुपानचलाक्षाणां मदविह्वलगामिनाम् ॥६-७५-१४॥
Vālmīki 6.75.15
कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम्।गदाशूलासिहस्तानां खादतां पिबतामपि ॥६-७५-१५॥
Vālmīki 6.75.16
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह।त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ॥६-७५-१६॥
Vālmīki 6.75.17
तेषां शतसहस्राणि तदा लङ्कानिवासिनाम्।अदहत् पावकस्तत्र जज्वाल च पुनःपुनः ॥६-७५-१७॥
Vālmīki 6.75.18
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च।हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ॥६-७५-१८॥
Vālmīki 6.75.19
रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः।मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् ॥६-७५-१९॥
Vālmīki 6.75.20
क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः।नादितान्यचला भानि वेश्मान्यग्निर्ददाह सः ॥६-७५-२०॥
Vālmīki 6.75.21
ज्वलनेन परीतानि तोरणानि चकाशिरे।विद्युद्भिरिव नद्धानि मेघजालानि धर्मगे ॥६-७५-२१॥
Vālmīki 6.75.22
ज्वलनेन परीतानि निपेतुर्भवनान्यथ।वज्रिवज्रहतानीव शिखराणि महागिरेः ॥६-७५-२२॥
Vālmīki 6.75.23
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः।त्यक्ताभरणसर्वाङ्गा हा हेत्युच्चैर्विचुक्रुशुः ॥६-७५-२३॥
Vālmīki 6.75.24
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे।हिमवच्छिखराणीव दीप्तौषधिवनानि च ॥६-७५-२४॥
Vālmīki 6.75.25
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि।रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ॥६-७५-२५॥
Vālmīki 6.75.26
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि।बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥६-७५-२६॥
Vālmīki 6.75.27
अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्भीतो ऽपसर्पति।भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ॥६-७५-२७॥
Vālmīki 6.75.28
लङ्कायां दह्यमानायां शुशुभे स महार्णवः।छायासंसक्तसलिलो लोहितोद इवार्णवः ॥६-७५-२८॥
Vālmīki 6.75.29
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी।लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ॥६-७५-२९॥
Vālmīki 6.75.30
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः।स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ॥६-७५-३०॥
Vālmīki 6.75.31
प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः।सहसा ऽभ्युत्पतन्ति स्म हरयो ऽथ युयुत्सवः ॥६-७५-३१॥
Vālmīki 6.75.32
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः।दिशो दश समुद्रं च पृथिवीं चान्वनादयत् ॥६-७५-३२॥
Vālmīki 6.75.33
विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ।असम्भ्रान्तौ जगृहतुस्तदोभे धनुषी वरे ॥६-७५-३३॥
Vālmīki 6.75.34
ततो विष्फारयानस्य रामस्य धनुरुत्तमम्।बभूव तुमुलः शब्दो राक्षसानां भयावहः ॥६-७५-३४॥
Vālmīki 6.75.35
अशोभत तदा रामो धनुर्विष्फारयन् महत्।भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः ॥६-७५-३५॥
Vālmīki 6.75.36
उद्घुष्टं वानराणां च राक्षसानां च निस्वनम्।ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे ॥६-७५-३६॥
Vālmīki 6.75.37
वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः।ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ॥६-७५-३७॥
Vālmīki 6.75.38
तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम्।कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ॥६-७५-३८॥
Vālmīki 6.75.39
ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च।सन्नाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥६-७५-३९॥
Vālmīki 6.75.40
तेषां सन्नह्यमानानां सिंहनादं च कुर्वताम्।शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ॥६-७५-४०॥
Vālmīki 6.75.41
आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना।आसन्नद्वारमासाद्य युध्यध्वं प्लवगर्षभाः ॥६-७५-४१॥
Vālmīki 6.75.42
यश्च वो वितथं कुर्यात्तत्र तत्र ह्युपस्थितः।स हन्तव्यो हि सम्प्लुत्य राजशासनदूषकः ॥६-७५-४२॥
Vālmīki 6.75.43
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु।स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ॥६-७५-४३॥
Vālmīki 6.75.44
तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश।रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ॥६-७५-४४॥
Vālmīki 6.75.45
स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ।प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह ॥६-७५-४५॥
Vālmīki 6.75.46
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा।निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ॥६-७५-४६॥
Vālmīki 6.75.47
शशास चैव तान् सर्वान् राक्षसान् सुमहाबलान्।नादयन् गच्छतात्रैव जयध्वं शीघ्रमेव च ॥६-७५-४७॥
Vālmīki 6.75.48
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः।लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनःपुनः ॥६-७५-४८॥
Vālmīki 6.75.49
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः।चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ॥६-७५-४९॥
Vālmīki 6.75.50
तत्र ताराधिपस्याभा ताराणां च तथैव च।तयोराभरणस्था च बलयोर्द्यामभासयन् ॥६-७५-५०॥
Vālmīki 6.75.51
चन्द्राभा भूषणाभा च गृहाणां ज्वलतां च भा।हरिराक्षससैन्यानि भ्राजयामास सर्वतः ॥६-७५-५१॥
Vālmīki 6.75.52
तत्र चोर्ध्वं प्रदीप्तानां गृहाणां सागरः पुनः।भाभिः संसक्तपातालश्चलोर्मिः शुशुबे ऽधिकम् ॥६-७५-५२॥
Vālmīki 6.75.53
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम्।भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ॥६-७५-५३॥
Vālmīki 6.75.54
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्।तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ॥६-७५-५४॥
Vālmīki 6.75.55
ददृशो ज्वलितप्रासं किङ्किणीशतनादितम्।हेमजालाचितभुजं व्यामिश्रितपरश्वधम् ॥६-७५-५५॥
Vālmīki 6.75.56
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्।गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ॥६-७५-५६॥
Vālmīki 6.75.57
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् ॥६-७५-५७॥
Vālmīki 6.75.58
तद्दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम्।सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च ॥६-७५-५८॥
Vālmīki 6.75.59
जवेनाप्लुत्य च पुनस्तद्बलं रक्षसां महत्।अभ्ययात् प्रत्यरिबलं पतङ्गा इव पावकम् ॥६-७५-५९॥
Vālmīki 6.75.60
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि।राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ॥६-७५-६०॥
Vālmīki 6.75.61
तत्रोन्मत्ता इवोत्पेतुर्हरयो ऽथ युयुत्सवः।तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् ॥६-७५-६१॥
Vālmīki 6.75.62
तथैवापततां तेषां कपीनामसिभिः शितैः।शिरांसि सहसा जह्नू राक्षसा भीमदर्शनाः ॥६-७५-६२॥
Vālmīki 6.75.63
दशनैर्हृतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः।शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ॥६-७५-६३॥
Vālmīki 6.75.64
तथैवाप्यपरे तेषां कपीनामभिलक्षिताः।प्रवीरानभितो जघ्नू राक्षसानां तरस्विनाम् ॥६-७५-६४॥
Vālmīki 6.75.65
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः।हरिवीरान्निजघ्नुश्च घोररूपा निशाचराः ॥६-७५-६५॥
Vālmīki 6.75.66
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत्।गर्हमाणं जगर्हे ऽन्यो दशन्तमपरो ऽदशत् ॥६-७५-६६॥
Vālmīki 6.75.67
देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः।किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥६-७५-६७॥
Vālmīki 6.75.68
विप्रलम्बितवस्त्रं च विमुक्तकवचायुधम्।समुद्यतमहाप्रासं यष्टिशूलासिसङ्कुलम्।प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ॥६-७५-६८॥
Vālmīki 6.75.69
वानरान् दश सप्तेति राक्षसा जघ्नुराहवे।राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन् ॥६-७५-६९॥
Vālmīki 6.75.70
विस्रस्तकेशवसनं विध्वस्तकवचध्वजम्।बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ॥६-७५-७०॥
Vālmīki 6.75.71
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चसप्ततितमः सर्गः ।। ७५ ।। ॥६-७५-७१॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷