🪷 युद्धकाण्ड · Sarga 74
Yuddha-Kāṇḍa · The Book of War · Sarga 74 · 79 ślokas
🪷 Devanāgarī Ślokas
तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम्।सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किञ्चित् प्रतिपेदिरे ते ॥६-७४-१॥
ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः।उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ॥६-७४-२॥
मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ।स्वयम्भुवो वाक्यमथोद्वहन्तौ यत् सादिताविन्द्रजिदस्त्रजालैः ॥६-७४-३॥
तस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवेगम्।तन्मानयन्तौ युधि राजपुत्रौ निपातितौ को ऽत्र विषादकालः ॥६-७४-४॥
ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः।विभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ॥६-७४-५॥
एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम्।यो यो धारयते प्राणांस्तन्तमाश्वासयावहै ॥६-७४-६॥
तावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ।उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥६-७४-७॥
भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः।स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ॥६-७४-८॥
पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम्।शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥६-७४-९॥
सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्।गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ॥६-७४-१०॥
मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा।एतांश्चान्यांस्ततो वीरौ ददृशाते हतान् रणे ॥६-७४-११॥
सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्।अह्नः पञ्चमशेषेणः वल्लभेन स्वयम्भुवः ॥६-७४-१२॥
सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्।मार्गते जाम्बवन्तं स हनुमान् सविभीषणः ॥६-७४-१३॥
स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्।प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥६-७४-१४॥
दृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत्।कच्चिदार्य शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ॥६-७४-१५॥
विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः।कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ॥६-७४-१६॥
नैर्ऋतेन्द्र महावीर्य स्वरेण त्वा ऽभिलक्षये।पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥६-७४-१७॥
अञ्जना सुप्रजा येन मातरिश्वा च नैर्ऽत।हनुमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ॥६-७४-१८॥
श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः।आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् ॥६-७४-१९॥
नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे।आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ॥६-७४-२०॥
विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत्।शृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम् ॥६-७४-२१॥
तस्मिन् जीवति वीरे तु हतमप्यहतं बलम्।हनुमत्युज्झितप्राणे जीवन्तो ऽपि वयं हताः ॥६-७४-२२॥
धरते मारुतिस्तात मारुतप्रतिमो यदि।वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥६-७४-२३॥
ततो वृद्धमुपागम्य नियमेनाभ्यवादयत्।गृह्य जाम्बवतः पादौ हनुमान् मारुतात्मजः ॥६-७४-२४॥
श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः।पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥६-७४-२५॥
ततो ऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् ॥६-७४-२६॥
आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि।नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ॥६-७४-२७॥
त्वत्पराक्रमकालो ऽयं नान्यं पश्यामि कञ्चन।ऋक्षवानरवीराणामनीकानि प्रहर्षय।विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥६-७४-२८॥
गत्वा परममध्वानमुपर्युपरि सागरम्।हिमवन्तं नगश्रेष्ठं हनुमन् गन्तुमर्हसि ॥६-७४-२९॥
ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम्।कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥६-७४-३०॥
तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्।सर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ॥६-७४-३१॥
तस्य वानरशार्दूल चतस्रो मूर्ध्निसम्भवाः।द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥६-७४-३२॥
मृतसञ्जीवनीं चैव विशल्यकरणीमपि।सावर्ण्यकरणीं चैव सन्धानकरणीं तथा ॥६-७४-३३॥
ताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि।आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ॥६-७४-३४॥
श्रुत्वा जाम्बवतो वाक्यं हनुमान् हरिपुङ्गवः।आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥६-७४-३५॥
स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम्।हनुमान् दृश्यते वीरो द्वितीय इव पर्वतः ॥६-७४-३६॥
हरिपादविनिर्भग्नो निषसाद स पर्वतः।न शशाक तदा ऽ ऽत्मानं सोढुं भृशनिपीडितः ॥६-७४-३७॥
तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः।शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ॥६-७४-३८॥
तस्मिन् सम्पीड्यमाने तु भग्नद्रुमाशिलातले।न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥६-७४-३९॥
सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा।लङ्का त्रासाकुला रात्रौ प्रवृत्तेवाभवत्तदा ॥६-७४-४०॥
पृथिवीधरसङ्काशो विपीड्य धरणीधरम्।पृथिवीं क्षोभयामास सार्णवां मारुतत्मजः ॥६-७४-४१॥
आरुरोह तदा तस्माद्धरिर्मलयपर्वतम्।मेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ॥६-७४-४२॥
नानाद्रुमलताकीर्णं विकासिकमलोत्पलम्।सेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ॥६-७४-४३॥
विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम्।नानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥६-७४-४४॥
सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान्।हनुमान् मेघसङ्काशो ववृधे मारुतात्मजः ॥६-७४-४५॥
पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम्।विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥६-७४-४६॥
तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम्।लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥६-७४-४७॥
नमस्कृत्वा ऽथ रामाय मारुतिर्भीमविक्रमः।राघवार्थे परं कर्म समीहतपरन्तपः ॥६-७४-४८॥
स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्ज्य।विवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ॥६-७४-४९॥
स वृक्षषण्डांस्तरसा जहार शैलान् शिलाः प्राकृतवानरांश्च।बाहूरुवेगोद्धतसम्प्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ॥६-७४-५०॥
स ॥६-७४-५१॥
तौ प्रसार्योरगभोगकल्पौ भूजौ भुजङ्गारिनिकाशवीर्यः।जगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥६-७४-५२॥
स सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम्।समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥६-७४-५३॥
स पर्वतान् वृक्षगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि।स्फीतान् जनान्तानपि सम्प्रवीक्ष्य जगाम वेगात् पितृतुल्यवेगः ॥६-७४-५४॥
आदित्यपथमाश्रित्य जगाम स गतक्लमः।हनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ॥६-७४-५५॥
जवेन महता युक्तो मारुतिर्मारुतो यथा।जगाम हरिशार्दूलो दिशः शब्देन पूरयन् ॥६-७४-५६॥
स्मरन् जाम्बवतो वाक्यं मारुतिर्वातरंहसा।ददर्श सहसा चापि हिमवन्तं महाकपिः ॥६-७४-५७॥
नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम्।श्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः।शोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ॥६-७४-५८॥
स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम्।ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ॥६-७४-५९॥
स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम्।हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ॥६-७४-६०॥
वज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च।ब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ॥६-७४-६१॥
कैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम्।सन्दीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥६-७४-६२॥
स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः।आवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयञ्चकार ॥६-७४-६३॥
स योजनसहस्राणि समतीत्य महाकपिः।दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥६-७४-६४॥
महौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे।विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥६-७४-६५॥
स ता महात्मा हनुमानपश्यन् चुकोप कोपाच्च भृशं ननाद।अमृष्यमाणो ऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥६-७४-६६॥
किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः।पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥६-७४-६७॥
स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम्।विकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ॥६-७४-६८॥
स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान्।संस्तूयमानः खचरैरनेकैर्जगाम वैगाद् गरुडोग्रवेगः ॥६-७४-६९॥
स भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य।बभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ॥६-७४-७०॥
स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु।सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥६-७४-७१॥
तं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद।तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥६-७४-७२॥
ततो महात्मा निपपात तस्मिन् शैलोत्तमे वानरसैन्यमध्ये।हर्युत्तमेभ्यः शिरसा ऽभिवाद्य विभीषणं तत्र स सस्वजे च ॥६-७४-७३॥
तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम्।बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥६-७४-७४॥
सर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः।गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ॥६-७४-७५॥
यदाप्रभृति लङ्कायां युद्ध्यन्ते कपिराक्षसाः।तदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥६-७४-७६॥
ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः।हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥६-७४-७७॥
ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः।निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥६-७४-७८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुस्सप्ततितमः सर्गः ।। ७४ ।। ॥६-७४-७९॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 73
- Next: Yuddha-Kāṇḍa Sarga 75 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷