🪷 युद्धकाण्ड · Sarga 73

Yuddha-Kāṇḍa · The Book of War · Sarga 73 · 70 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 6.73local sarga route with all Sanskrit ślokasYuddha-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 6.73.1
ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान्।रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ।। ६.७३.१ ।।
Vālmīki 6.73.2
ततो हतांस्तान् सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः।पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ।। ६.७३.२ ।।
Vālmīki 6.73.3
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम्।रथर्षभो राक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदं बभाषे ।। ६.७३.३ ।।
Vālmīki 6.73.4
न तात मोहं प्रतिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति राक्षसेन्द्र।नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान् समर्थः समरे ऽभिपातुम् ।। ६.७३.४ ।।
Vālmīki 6.73.5
पश्याद्य रामं सह लक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम्।गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम् ।। ६.७३.५ ।।
Vālmīki 6.73.6
इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम्।अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ।। ६.७३.६ ।।
Vālmīki 6.73.7
अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्विवैश्वानरचन्द्रसूर्याः।द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ।। ६.७३.७ ।।
Vālmīki 6.73.8
स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः।समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ।। ६.७३.८ ।।
Vālmīki 6.73.9
तमास्थाय महातेजा रथं हरिरथोपमम्।जगाम सहसा तत्र यत्र युद्धमरिन्दमः ।। ६.७३.९ ।।
Vālmīki 6.73.10
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः।संहर्षमाणा बहवो धनुःप्रवरपाणयः ।। ६.७३.१० ।।
Vālmīki 6.73.11
गजस्कन्धगताः केचित् केचित् प्रवरवाजिभिः।प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधराः ।। ६.७३.११ ।।
Vālmīki 6.73.12
स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निस्वनैः।जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ।। ६.७३.१२ ।।
Vālmīki 6.73.13
स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः।रराज प्रतिपूर्णेन नभश्चान्द्रमसा यथा ।। ६.७३.१३ ।।
Vālmīki 6.73.14
अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः।चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ।। ६.७३.१४ ।।
Vālmīki 6.73.15
ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा।रराजा प्रतिवीरेण द्यौरिवार्केण भास्वता ।। ६.७३.१५ ।।
Vālmīki 6.73.16
स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः।स्थापयामास रक्षांसि रथं प्रति समन्ततः ।। ६.७३.१६ ।।
Vālmīki 6.73.17
ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः।जुहाव राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा ।। ६.७३.१७ ।।
Vālmīki 6.73.18
स हविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतैः।जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ।। ६.७३.१८ ।।
Vālmīki 6.73.19
शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकाः।लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ।। ६.७३.१९ ।।
Vālmīki 6.73.20
स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः।छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ।। ६.७३.२० ।।
Vālmīki 6.73.21
सकृदेव समिद्धस्य विधूमस्य महार्चिषः।बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ।। ६.७३.२१ ।।
Vālmīki 6.73.22
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः।हविस्तत् प्रतिजग्राह पावकः स्वयमास्थितः ।। ६.७३.२२ ।।
Vālmīki 6.73.23
सो ऽस्त्रमाहारयामास ब्राह्ममिन्द्ररिपुस्तदा।धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ।। ६.७३.२३ ।।
Vālmīki 6.73.24
तस्मिन्नाहूयमाने ऽस्त्रे हूयमाने च पावके।सार्धं ग्रहेन्दुनक्षत्रैर्वितत्रास नभःस्थलम् ।। ६.७३.२४ ।।
Vālmīki 6.73.25
स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः।सचापबाणासिरथाश्वसूतः खे ऽन्तर्दधेत्मानमचिन्त्यरूपः ।। ६.७३.२५ ।।
Vālmīki 6.73.26
ततो हयरथाकीर्णं पताकाध्वजशोभितम्।निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ।। ६.७३.२६ ।।
Vālmīki 6.73.27
ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः।तोमरैरङ्कुशैश्चापि वानरान् जघ्नुराहवे ।। ६.७३.२७ ।।
Vālmīki 6.73.28
रावणिस्तु ततः क्रुद्धस्तान्निरीक्ष्य निशाचरान्।हृष्टा भवन्तो युद्ध्यन्तु वानराणां जिघांसया ।। ६.७३.२८ ।।
Vālmīki 6.73.29
ततस्ते राक्षसाः सर्वे नर्दन्तो जयकाङ्क्षिणः।अभ्यवर्षंस्ततो घोरान् वानरान् शरवृष्टिभिः ।। ६.७३.२९ ।।
Vālmīki 6.73.30
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि।रक्षोभिः संवृतः सङ्ख्ये वानरान् विचकर्त ह ।। ६.७३.३० ।।
Vālmīki 6.73.31
ते वध्यमानाः समरे वानराः पादपायुधाः।अभ्यद्रवन्त सहिता रावणिं रणकर्कशम् ।। ६.७३.३१ ।।
Vālmīki 6.73.32
इन्द्रजित्तु ततः क्रुद्धो महातेजा महाबलः।वानराणां शरीराणि व्यधमद्रावणात्मजः ।। ६.७३.३२ ।।
Vālmīki 6.73.33
शरेणैकेन च हरीन् नव पञ्च च सप्त च।चिच्छेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन् ।। ६.७३.३३ ।।
Vālmīki 6.73.34
स शरैः सूर्यसङ्काशैः शातकुम्भविभूषितैः।वानरान् समरे वीरः प्रममाथ सुदुर्जयः ।। ६.७३.३४ ।।
Vālmīki 6.73.35
ते भिन्नगात्राः समरे वानराः शपपीडिताः।पेतुर्मथितसङ्कल्पाः सुरैरिव महासुराः ।। ६.७३.३५ ।।
Vālmīki 6.73.36
तं तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः।अभ्यधावन्त सङ्क्रुद्धाः संयुगे वानरर्षभाः ।। ६.७३.३६ ।।
Vālmīki 6.73.37
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः।व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ।। ६.७३.३७ ।।
Vālmīki 6.73.38
रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः।नर्दन्तस्ते ऽभिवृत्तास्तु समरे सशिलायुधाः ।। ६.७३.३८ ।।
Vālmīki 6.73.39
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवङ्गमाः।अभ्यवर्षन्त समरे रावणिं पर्यवस्थिताः ।। ६.७३.३९ ।।
Vālmīki 6.73.40
तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत्।व्यपोहत महातेजा रावणिः समितिञ्जयः ।। ६.७३.४० ।।
Vālmīki 6.73.41
ततः पावकसङ्काशैः शरैराशीविषोपमैः।वानराणामनीकानि बिभेद समरे प्रभुः ।। ६.७३.४१ ।।
Vālmīki 6.73.42
अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम्।विव्याध नवभिश्चैव नलं दूरादवस्थितम् ।। ६.७३.४२ ।।
Vālmīki 6.73.43
सप्तभिस्तु महा वीर्यो मैन्दं मर्मविदारणैः।पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे ।। ६.७३.४३ ।।
Vālmīki 6.73.44
जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च।सुग्रीवमृषभं चैव सो ऽङ्गदं द्विविदं तथा।घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ।। ६.७३.४४ ।।
Vālmīki 6.73.45
अन्यानपि तदा मुख्यान् वानरान् बहुभिः शरैः।अर्दयामास सङ्क्रुद्धः कालाग्निरिव मूर्च्छितः ।। ६.७३.४५ ।।
Vālmīki 6.73.46
स शरैः सूर्यसङ्काशैः सुमुक्तैः शीघ्रगामिभिः।वानराणामनीकानि निर्ममन्थ महारणे ।। ६.७३.४६ ।।
Vālmīki 6.73.47
आकुलां वानरीं सेनां शरजालेन मोहिताम्।हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम् ।। ६.७३.४७ ।।
Vālmīki 6.73.48
पुनरेव महातेजा राक्षसेन्द्रात्मजो बली।संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम्।ममर्द वानरानीकमिन्द्रजित्त्वरितो बली ।। ६.७३.४८ ।।
Vālmīki 6.73.49
स्वसैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु।अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथा ऽम्बु ।। ६.७३.४९ ।।
Vālmīki 6.73.50
ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः।रणे निपेतुर्हरयो ऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ।। ६.७३.५० ।।
Vālmīki 6.73.51
ते केवलं सन्ददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु।मायानिगूढं तु सुरेन्द्रशत्रुं न चावृतं राक्षसमभ्यपश्यन् ।। ६.७३.५१ ।।
Vālmīki 6.73.52
ततः स रक्षोधिपतिर्महात्मा सर्वे दिशो बाणगणैः शिताग्रैः।प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान् ।। ६.७३.५२ ।।
Vālmīki 6.73.53
स शूलनिस्त्रिंशपरश्वधानि व्याविध्य दीप्तानलसन्निभानि।सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीर्व्रं प्लवगेन्द्रसैन्ये ।। ६.७३.५३ ।।
Vālmīki 6.73.54
ततो ज्वलनसङ्काशैः शरैर्वानरयूथपाः।ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ।। ६.७३.५४ ।।
Vālmīki 6.73.55
ते ऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम्।राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ।। ६.७३.५५ ।।
Vālmīki 6.73.56
उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः।शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ।। ६.७३.५६ ।।
Vālmīki 6.73.57
हनुमन्तं च सुग्रीवमङ्गदं गन्धमादनम्।जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ।। ६.७३.५७ ।।
Vālmīki 6.73.58
मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ।केसरिं हरिलोमानं विद्युदृंष्ट्रं च वानरम् ।। ६.७३.५८ ।।
Vālmīki 6.73.59
सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्।पावकाक्षं नलं चैव कुमुदं चैव वानरम् ।। ६.७३.५९ ।।
Vālmīki 6.73.60
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः।विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः ।। ६.७३.६० ।।
Vālmīki 6.73.61
स वै गदाभिर्हरियूथमुख्यान् निर्भिद्य बाणैस्तपनीयपुङ्खैः।ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ।। ६.७३.६१ ।।
Vālmīki 6.73.62
स बाणवर्षैरभिवर्ष्यमाणो धारानिपातानिव तानचिन्त्य।समीक्षमाणः परमाद्भुतश्री रामस्तदा लक्ष्मणमित्युवाच ।। ६.७३.६२ ।।
Vālmīki 6.73.63
असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः।निपातयित्वा हरिसैन्यमुग्रमस्मान् शरैरर्दयति प्रसक्तः ।। ६.७३.६३ ।।
Vālmīki 6.73.64
स्वयम्भुवा दत्तवरो महात्मा खमास्थितो ऽन्तर्हितभीमकायः।कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ।। ६.७३.६४ ।।
Vālmīki 6.73.65
मन्ये स्वयम्भूर्भगवानचिन्त्यो यस्यैतदस्त्रं प्रभवश्च यो ऽस्य।बाणावपातांस्त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व ।। ६.७३.६५ ।।
Vālmīki 6.73.66
प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः।एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम् ।। ६.७३.६६ ।।
Vālmīki 6.73.67
आवां तु दृष्ट्वा पतितौ विसञ्ज्ञौ निवृत्तयुद्धौ गतरोषहर्षो।ध्रुवं प्रवेक्ष्यत्यमरारिवासमसौ समादाय रणाग्रलक्ष्मीम् ।। ६.७३.६७ ।।
Vālmīki 6.73.68
ततस्तु ताविन्द्रजिदस्त्रजालैर्बभूवतुस्तत्र तथा विशस्तौ।स चापि तौ तत्र विदर्शयित्वा ननाद हर्षाद्युधि राक्षसेन्द्रः ।। ६.७३.६८ ।।
Vālmīki 6.73.69
स तत्तदा वानरसैन्यमेवं रामं च सङ्ख्ये सह लक्ष्मणेन।विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम् ।। ६.७३.६९ ।।
Vālmīki 6.73.70
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिसप्ततितमः सर्गः ।। ७३ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷