🪷 युद्धकाण्ड · Sarga 73
Yuddha-Kāṇḍa · The Book of War · Sarga 73 · 70 ślokas
🪷 Devanāgarī Ślokas
ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान्।रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ॥६-७३-१॥
ततो हतांस्तान् सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः।पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ॥६-७३-२॥
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम्।रथर्षभो राक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदं बभाषे ॥६-७३-३॥
न तात मोहं प्रतिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति राक्षसेन्द्र।नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान् समर्थः समरे ऽभिपातुम् ॥६-७३-४॥
पश्याद्य रामं सह लक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम्।गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम् ॥६-७३-५॥
इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम्।अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ॥६-७३-६॥
अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्विवैश्वानरचन्द्रसूर्याः।द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ॥६-७३-७॥
स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः।समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ॥६-७३-८॥
तमास्थाय महातेजा रथं हरिरथोपमम्।जगाम सहसा तत्र यत्र युद्धमरिन्दमः ॥६-७३-९॥
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः।संहर्षमाणा बहवो धनुःप्रवरपाणयः ॥६-७३-१०॥
गजस्कन्धगताः केचित् केचित् प्रवरवाजिभिः।प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधराः ॥६-७३-११॥
स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निस्वनैः।जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ॥६-७३-१२॥
स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः।रराज प्रतिपूर्णेन नभश्चान्द्रमसा यथा ॥६-७३-१३॥
अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः।चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥६-७३-१४॥
ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा।रराजा प्रतिवीरेण द्यौरिवार्केण भास्वता ॥६-७३-१५॥
स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः।स्थापयामास रक्षांसि रथं प्रति समन्ततः ॥६-७३-१६॥
ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः।जुहाव राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा ॥६-७३-१७॥
स हविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतैः।जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ॥६-७३-१८॥
शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकाः।लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥६-७३-१९॥
स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः।छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ॥६-७३-२०॥
सकृदेव समिद्धस्य विधूमस्य महार्चिषः।बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ॥६-७३-२१॥
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः।हविस्तत् प्रतिजग्राह पावकः स्वयमास्थितः ॥६-७३-२२॥
सो ऽस्त्रमाहारयामास ब्राह्ममिन्द्ररिपुस्तदा।धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ॥६-७३-२३॥
तस्मिन्नाहूयमाने ऽस्त्रे हूयमाने च पावके।सार्धं ग्रहेन्दुनक्षत्रैर्वितत्रास नभःस्थलम् ॥६-७३-२४॥
स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः।सचापबाणासिरथाश्वसूतः खे ऽन्तर्दधेत्मानमचिन्त्यरूपः ॥६-७३-२५॥
ततो हयरथाकीर्णं पताकाध्वजशोभितम्।निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ॥६-७३-२६॥
ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः।तोमरैरङ्कुशैश्चापि वानरान् जघ्नुराहवे ॥६-७३-२७॥
रावणिस्तु ततः क्रुद्धस्तान्निरीक्ष्य निशाचरान्।हृष्टा भवन्तो युद्ध्यन्तु वानराणां जिघांसया ॥६-७३-२८॥
ततस्ते राक्षसाः सर्वे नर्दन्तो जयकाङ्क्षिणः।अभ्यवर्षंस्ततो घोरान् वानरान् शरवृष्टिभिः ॥६-७३-२९॥
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि।रक्षोभिः संवृतः सङ्ख्ये वानरान् विचकर्त ह ॥६-७३-३०॥
ते वध्यमानाः समरे वानराः पादपायुधाः।अभ्यद्रवन्त सहिता रावणिं रणकर्कशम् ॥६-७३-३१॥
इन्द्रजित्तु ततः क्रुद्धो महातेजा महाबलः।वानराणां शरीराणि व्यधमद्रावणात्मजः ॥६-७३-३२॥
शरेणैकेन च हरीन् नव पञ्च च सप्त च।चिच्छेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन् ॥६-७३-३३॥
स शरैः सूर्यसङ्काशैः शातकुम्भविभूषितैः।वानरान् समरे वीरः प्रममाथ सुदुर्जयः ॥६-७३-३४॥
ते भिन्नगात्राः समरे वानराः शपपीडिताः।पेतुर्मथितसङ्कल्पाः सुरैरिव महासुराः ॥६-७३-३५॥
तं तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः।अभ्यधावन्त सङ्क्रुद्धाः संयुगे वानरर्षभाः ॥६-७३-३६॥
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः।व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ॥६-७३-३७॥
रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः।नर्दन्तस्ते ऽभिवृत्तास्तु समरे सशिलायुधाः ॥६-७३-३८॥
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवङ्गमाः।अभ्यवर्षन्त समरे रावणिं पर्यवस्थिताः ॥६-७३-३९॥
तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत्।व्यपोहत महातेजा रावणिः समितिञ्जयः ॥६-७३-४०॥
ततः पावकसङ्काशैः शरैराशीविषोपमैः।वानराणामनीकानि बिभेद समरे प्रभुः ॥६-७३-४१॥
अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम्।विव्याध नवभिश्चैव नलं दूरादवस्थितम् ॥६-७३-४२॥
सप्तभिस्तु महा वीर्यो मैन्दं मर्मविदारणैः।पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे ॥६-७३-४३॥
जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च।सुग्रीवमृषभं चैव सो ऽङ्गदं द्विविदं तथा।घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ॥६-७३-४४॥
अन्यानपि तदा मुख्यान् वानरान् बहुभिः शरैः।अर्दयामास सङ्क्रुद्धः कालाग्निरिव मूर्च्छितः ॥६-७३-४५॥
स शरैः सूर्यसङ्काशैः सुमुक्तैः शीघ्रगामिभिः।वानराणामनीकानि निर्ममन्थ महारणे ॥६-७३-४६॥
आकुलां वानरीं सेनां शरजालेन मोहिताम्।हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम् ॥६-७३-४७॥
पुनरेव महातेजा राक्षसेन्द्रात्मजो बली।संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम्।ममर्द वानरानीकमिन्द्रजित्त्वरितो बली ॥६-७३-४८॥
स्वसैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु।अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथा ऽम्बु ॥६-७३-४९॥
ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः।रणे निपेतुर्हरयो ऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ॥६-७३-५०॥
ते केवलं सन्ददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु।मायानिगूढं तु सुरेन्द्रशत्रुं न चावृतं राक्षसमभ्यपश्यन् ॥६-७३-५१॥
ततः स रक्षोधिपतिर्महात्मा सर्वे दिशो बाणगणैः शिताग्रैः।प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान् ॥६-७३-५२॥
स शूलनिस्त्रिंशपरश्वधानि व्याविध्य दीप्तानलसन्निभानि।सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीर्व्रं प्लवगेन्द्रसैन्ये ॥६-७३-५३॥
ततो ज्वलनसङ्काशैः शरैर्वानरयूथपाः।ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ॥६-७३-५४॥
ते ऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम्।राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ॥६-७३-५५॥
उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः।शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ॥६-७३-५६॥
हनुमन्तं च सुग्रीवमङ्गदं गन्धमादनम्।जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥६-७३-५७॥
मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ।केसरिं हरिलोमानं विद्युदृंष्ट्रं च वानरम् ॥६-७३-५८॥
सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्।पावकाक्षं नलं चैव कुमुदं चैव वानरम् ॥६-७३-५९॥
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः।विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः ॥६-७३-६०॥
स वै गदाभिर्हरियूथमुख्यान् निर्भिद्य बाणैस्तपनीयपुङ्खैः।ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ॥६-७३-६१॥
स बाणवर्षैरभिवर्ष्यमाणो धारानिपातानिव तानचिन्त्य।समीक्षमाणः परमाद्भुतश्री रामस्तदा लक्ष्मणमित्युवाच ॥६-७३-६२॥
असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः।निपातयित्वा हरिसैन्यमुग्रमस्मान् शरैरर्दयति प्रसक्तः ॥६-७३-६३॥
स्वयम्भुवा दत्तवरो महात्मा खमास्थितो ऽन्तर्हितभीमकायः।कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥६-७३-६४॥
मन्ये स्वयम्भूर्भगवानचिन्त्यो यस्यैतदस्त्रं प्रभवश्च यो ऽस्य।बाणावपातांस्त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व ॥६-७३-६५॥
प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः।एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम् ॥६-७३-६६॥
आवां तु दृष्ट्वा पतितौ विसञ्ज्ञौ निवृत्तयुद्धौ गतरोषहर्षो।ध्रुवं प्रवेक्ष्यत्यमरारिवासमसौ समादाय रणाग्रलक्ष्मीम् ॥६-७३-६७॥
ततस्तु ताविन्द्रजिदस्त्रजालैर्बभूवतुस्तत्र तथा विशस्तौ।स चापि तौ तत्र विदर्शयित्वा ननाद हर्षाद्युधि राक्षसेन्द्रः ॥६-७३-६८॥
स तत्तदा वानरसैन्यमेवं रामं च सङ्ख्ये सह लक्ष्मणेन।विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम् ॥६-७३-६९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिसप्ततितमः सर्गः ।। ७३ ।। ॥६-७३-७०॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 72
- Next: Yuddha-Kāṇḍa Sarga 74 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷