🪷 युद्धकाण्ड · Sarga 72
Yuddha-Kāṇḍa · The Book of War · Sarga 72 · 20 ślokas
🪷 Devanāgarī Ślokas
अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा।उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ॥६-७२-१॥
धूभ्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः।अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ॥६-७२-२॥
एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः।जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥६-७२-३॥
निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा।राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः।अन्ये च बहवः शूरा महात्मानो निपातिताः ॥६-७२-४॥
प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम।यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः ॥६-७२-५॥
यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः।मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः ॥६-७२-६॥
तन्न जाने प्रभावैर्वा मायया मोहनेन वा।शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ ॥६-७२-७॥
ये योधा निर्गताः शूरा राक्षसा मम शासनात्।ते सर्वे निहता युद्धे वानरैः सुमहाबलैः ॥६-७२-८॥
तं न पश्याम्यहं युद्धे यो ऽद्य रामं सलक्ष्मणम्।शासयेत् सबलं वीरं ससुग्रीवविभीषणम् ॥६-७२-९॥
अहो नु बलवान् रामो महदस्त्रबलं च वै।यस्य विक्रममासाद्य राक्षसा निधनं गताः ॥६-७२-१०॥
तं मन्ये राघवं वीरं नारायणमनामयम्।तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा ॥६-७२-११॥
अप्रमत्तैश्च सर्वत्र गुप्तै रक्ष्या पुरी त्वियम् ॥६-७२-१२॥
अशोकवनिकायां च यत्र सीता ऽभिरक्ष्यते।निष्क्रामो वा प्रवेशो वा ज्ञातव्यः सर्वथैव नः ॥६-७२-१३॥
यत्र यत्र भवेद् गुल्मस्तत्रतत्र पुनःपुनः।सर्वतश्चापि तिष्ठध्वं स्वैःस्वैः परिवृता बलैः ॥६-७२-१४॥
द्रष्टव्यं च पदं तेषां वानराणां निशाचराः।प्रदोषे वा ऽर्धरात्रे वा प्रत्यूषे वापि सर्वतः ॥६-७२-१५॥
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन।द्विषतां बलमुद्युक्तमापतत् किं स्थितं सदा ॥६-७२-१६॥
ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत्।वचनं सर्वमातिष्ठन् यथावत्तु महाबलाः ॥६-७२-१७॥
स तान् सर्वान् समादिश्य रावणो राक्षसाधिपः।मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ॥६-७२-१८॥
ततः स सन्दीपितकोपवह्निर्निशाचराणामधिपो महाबलः।तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा व्यनिश्वसत् ॥६-७२-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विसप्ततितमः सर्गः ।। ७२ ।। ॥६-७२-२०॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 71
- Next: Yuddha-Kāṇḍa Sarga 73 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷