🪷 युद्धकाण्ड · Sarga 71
Yuddha-Kāṇḍa · The Book of War · Sarga 71 · 62 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 6.71local sarga route with all Sanskrit ślokasYuddha-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम्।भ्रातऽंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान् ।। ६.७१.१ ।।
पितृव्यौ चापि सन्दृश्य समरे सन्निषूदितौ।युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ ।। ६.७१.२ ।।
चुकोप च महातेजा ब्रह्मदत्तवरो युधि।अतिकायो ऽद्रिसङ्काशो देवदानवदर्पहा ।। ६.७१.३ ।।
स भास्करसहस्रस्य सङ्घातमिव भास्वरम्।रथमास्थाय शक्रारिरभिदुद्राव वानरान् ।। ६.७१.४ ।।
स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः।नाम विश्रावयामास ननाद च महास्वनम् ।। ६.७१.५ ।।
तेन सिंहप्रणादेन नामविश्रावणेन च।ज्याशब्देन च भीमेन त्रासयामास वानरान् ।। ६.७१.६ ।।
ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णो ऽयमुत्थितः।भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ।। ६.७१.७ ।।
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे।भयाद्वानरयूथास्ते विद्रवन्ति ततस्ततः ।। ६.७१.८ ।।
ते ऽतिकायं समासाद्य वानरा मूढचेतसः।शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ।। ६.७१.९ ।।
ततो ऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्।ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् ।। ६.७१.१० ।।
स तं दृष्ट्वा महात्मानं राघवस्तु विसिष्मिये।वानरान् सान्त्वयित्वा ऽथ विभीषणमुवाच ह ।। ६.७१.११ ।।
को ऽसौ पर्वतसङ्काशो धनुष्मान् हरिलोचनः।युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ।। ६.७१.१२ ।।
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः।अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ।। ६.७१.१३ ।।
कालजिह्वाप्रकाशाभिर्य एषो ऽतिविराजते।आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ।। ६.७१.१४ ।।
धनूंषि चास्य सज्यानि हेमपृष्ठानि सर्वशः।शोभयन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम् ।। ६.७१.१५ ।।
क एष रक्षश्शार्दूलो रणभूमिं विराजयन्।अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ।। ६.७१.१६ ।।
ध्वजशृङ्गप्रतिष्ठेन राहुणा ऽभिविराजते।सूर्यरश्मिनिभैर्बाणैर्दिशो दश विराजयन् ।। ६.७१.१७ ।।
त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम्।शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ।। ६.७१.१८ ।।
सध्वजः सपताकश्च सानुकर्षो महारथः।चतुस्सादिसमायुक्तो मेघस्तनितनिस्वनः ।। ६.७१.१९ ।।
विंशतिर्दश चाष्टौ च तूण्यो ऽस्य रथमास्थिताः।कार्मुकानि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ।। ६.७१.२० ।।
द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभितौ।चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ ।। ६.७१.२१ ।।
रक्तकण्ठगुणो धीरो महापर्वतसन्निभः।कालः कालमहावक्त्रो मेघस्थ इव भास्करः ।। ६.७१.२२ ।।
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते।शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः ।। ६.७१.२३ ।।
कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम्।पुनर्वस्वन्तरगतं पूर्णं बिम्बमिवैन्दवम् ।। ६.७१.२४ ।।
आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्।यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ।। ६.७१.२५ ।।
स पृष्टो राजपुत्रेण रामेणामिततेजसा।आचचक्षे महातेजा राघवाय विभीषणः ।। ६.७१.२६ ।।
दशग्रीवो महातेजा राजा वैश्रवणानुजः।भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ।। ६.७१.२७ ।।
तस्यासीद्वीर्यवान् पुत्रो रावणप्रतिमो रणे।वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ।। ६.७१.२८ ।।
अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे।भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः ।। ६.७१.२९ ।।
यस्य बाहू समाश्रित्य लङ्का वसति निर्भया।तनयं धान्यमालिन्या अतिकायमिमं विदुः ।। ६.७१.३० ।।
एतेनाराधितो ब्रह्मा तपसा भावितात्मना।अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ।। ६.७१.३१ ।।
सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा।एतच्च कवचं दिव्यं रथश्चैषो ऽर्कभास्वरः ।। ६.७१.३२ ।।
एतेन शतशो देवा दानवाश्च पराजिताः।रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः ।। ६.७१.३३ ।।
वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः।पाशः सलिलराजस्य रणे प्रतिहतस्तथा ।। ६.७१.३४ ।।
एषो ऽतिकायो बलवान् राक्षसानामथर्षभः।रावणस्य सुतो धीमान् देवदानवदर्पहा ।। ६.७१.३५ ।।
तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव।पुरा वानरसैन्यानि क्षयं नयति सायकैः ।। ६.७१.३६ ।।
ततो ऽतिकायो बलवान् प्रविश्य हरिवाहिनीम्।विस्फारयामास धनुर्ननाद च पुनःपुनः ।। ६.७१.३७ ।।
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्।अभिपेतुर्महात्मानो ये प्रधाना वनौकसः ।। ६.७१.३८ ।।
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च।पादपैर्गिरिशृङ्गैश्च युगपत् समभिद्रवन् ।। ६.७१.३९ ।।
तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः।अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ।। ६.७१.४० ।।
तांश्चैव सर्वान् स हरीन् शरैः सर्वायसैर्बली।विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ।। ६.७१.४१ ।।
ते ऽर्दिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः।न शेकुरतिकायस्य प्रतिकर्तुं महारणे ।। ६.७१.४२ ।।
तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः।मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ।। ६.७१.४३ ।।
स राक्षसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कञ्चित्।उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे ।। ६.७१.४४ ।।
रथे स्थितो ऽहं शरचापपाणिर्न प्राकृतं कञ्चन योधयामि।यश्चास्ति कश्चिद्व्यवसाययुक्तो ददातु मे क्षिप्रमिहाद्य युद्धम् ।। ६.७१.४५ ।।
तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता।अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ।। ६.७१.४६ ।।
क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्।पुरस्तादतिकायस्य विचकर्ष महद्धनुः ।। ६.७१.४७ ।।
पूरयन् स महीं शैलानाकाशं सागरं दिशः।ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ।। ६.७१.४८ ।।
सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा।विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ।। ६.७१.४९ ।।
अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्।आदाय निशितं बाणमिदं वचनमब्रवीत् ।। ६.७१.५० ।।
बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः।गच्छ किं कालसदृशं मां योधयितुमिच्छसि ।। ६.७१.५१ ।।
नहि मद्बाहुसृष्टानामस्त्राणां हिमवानपि।सोढुमुत्सहते वेगमन्तरिक्षमथो मही ।। ६.७१.५२ ।।
सुखप्रसुप्तं कालाग्निं निबोधयितुमिच्छसि।न्यस्यचापं निवर्तस्व मा प्राणान् जहि मद्गतः ।। ६.७१.५३ ।।
अथवा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि।तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् ।। ६.७१.५४ ।।
पश्य मे निशितान् बाणानरिदर्पनिषूदनान्।ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ।। ६.७१.५५ ।।
एष ते सर्पसङ्काशो बाणः पास्यति शोणितम्।मृगराज इव क्रुद्धो नागराजस्य शोणितम्।इत्येवमुक्त्वा सङ्क्रुद्धः शरं धनुषि सन्दधे ।। ६.७१.५६ ।।
श्रुत्वा ऽतिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः।स सञ्चुकोपातिबलो बृहच्छ्रीरुवाच वाक्यं च ततो महार्थम् ।। ६.७१.५७ ।।
न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति।मयि स्थिते धन्विनि बाणपाणौ निदर्शय स्वात्मबलं दुरात्मन् ।। ६.७१.५८ ।।
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि।पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ।। ६.७१.५९ ।।
सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः।शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ।। ६.७१.६० ।।
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः।मारुतः कालसम्पक्वं वृन्तात्तालफलं यथा ।। ६.७१.६१ ।।
अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः।पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ।। ६.७१.६२ ।।
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 70
- Next: Yuddha-Kāṇḍa Sarga 72 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷