🪷 युद्धकाण्ड · Sarga 71
Yuddha-Kāṇḍa · The Book of War · Sarga 71 · 62 ślokas
🪷 Devanāgarī Ślokas
स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम्।भ्रातऽंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान् ॥६-७१-१॥
पितृव्यौ चापि सन्दृश्य समरे सन्निषूदितौ।युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ ॥६-७१-२॥
चुकोप च महातेजा ब्रह्मदत्तवरो युधि।अतिकायो ऽद्रिसङ्काशो देवदानवदर्पहा ॥६-७१-३॥
स भास्करसहस्रस्य सङ्घातमिव भास्वरम्।रथमास्थाय शक्रारिरभिदुद्राव वानरान् ॥६-७१-४॥
स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः।नाम विश्रावयामास ननाद च महास्वनम् ॥६-७१-५॥
तेन सिंहप्रणादेन नामविश्रावणेन च।ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥६-७१-६॥
ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णो ऽयमुत्थितः।भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ॥६-७१-७॥
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे।भयाद्वानरयूथास्ते विद्रवन्ति ततस्ततः ॥६-७१-८॥
ते ऽतिकायं समासाद्य वानरा मूढचेतसः।शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥६-७१-९॥
ततो ऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्।ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् ॥६-७१-१०॥
स तं दृष्ट्वा महात्मानं राघवस्तु विसिष्मिये।वानरान् सान्त्वयित्वा ऽथ विभीषणमुवाच ह ॥६-७१-११॥
को ऽसौ पर्वतसङ्काशो धनुष्मान् हरिलोचनः।युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥६-७१-१२॥
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः।अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥६-७१-१३॥
कालजिह्वाप्रकाशाभिर्य एषो ऽतिविराजते।आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥६-७१-१४॥
धनूंषि चास्य सज्यानि हेमपृष्ठानि सर्वशः।शोभयन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम् ॥६-७१-१५॥
क एष रक्षश्शार्दूलो रणभूमिं विराजयन्।अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ॥६-७१-१६॥
ध्वजशृङ्गप्रतिष्ठेन राहुणा ऽभिविराजते।सूर्यरश्मिनिभैर्बाणैर्दिशो दश विराजयन् ॥६-७१-१७॥
त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम्।शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ॥६-७१-१८॥
सध्वजः सपताकश्च सानुकर्षो महारथः।चतुस्सादिसमायुक्तो मेघस्तनितनिस्वनः ॥६-७१-१९॥
विंशतिर्दश चाष्टौ च तूण्यो ऽस्य रथमास्थिताः।कार्मुकानि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥६-७१-२०॥
द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभितौ।चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ ॥६-७१-२१॥
रक्तकण्ठगुणो धीरो महापर्वतसन्निभः।कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥६-७१-२२॥
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते।शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः ॥६-७१-२३॥
कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम्।पुनर्वस्वन्तरगतं पूर्णं बिम्बमिवैन्दवम् ॥६-७१-२४॥
आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्।यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥६-७१-२५॥
स पृष्टो राजपुत्रेण रामेणामिततेजसा।आचचक्षे महातेजा राघवाय विभीषणः ॥६-७१-२६॥
दशग्रीवो महातेजा राजा वैश्रवणानुजः।भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ॥६-७१-२७॥
तस्यासीद्वीर्यवान् पुत्रो रावणप्रतिमो रणे।वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ॥६-७१-२८॥
अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे।भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः ॥६-७१-२९॥
यस्य बाहू समाश्रित्य लङ्का वसति निर्भया।तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥६-७१-३०॥
एतेनाराधितो ब्रह्मा तपसा भावितात्मना।अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥६-७१-३१॥
सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा।एतच्च कवचं दिव्यं रथश्चैषो ऽर्कभास्वरः ॥६-७१-३२॥
एतेन शतशो देवा दानवाश्च पराजिताः।रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः ॥६-७१-३३॥
वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः।पाशः सलिलराजस्य रणे प्रतिहतस्तथा ॥६-७१-३४॥
एषो ऽतिकायो बलवान् राक्षसानामथर्षभः।रावणस्य सुतो धीमान् देवदानवदर्पहा ॥६-७१-३५॥
तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव।पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥६-७१-३६॥
ततो ऽतिकायो बलवान् प्रविश्य हरिवाहिनीम्।विस्फारयामास धनुर्ननाद च पुनःपुनः ॥६-७१-३७॥
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्।अभिपेतुर्महात्मानो ये प्रधाना वनौकसः ॥६-७१-३८॥
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च।पादपैर्गिरिशृङ्गैश्च युगपत् समभिद्रवन् ॥६-७१-३९॥
तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः।अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥६-७१-४०॥
तांश्चैव सर्वान् स हरीन् शरैः सर्वायसैर्बली।विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ॥६-७१-४१॥
ते ऽर्दिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः।न शेकुरतिकायस्य प्रतिकर्तुं महारणे ॥६-७१-४२॥
तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः।मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ॥६-७१-४३॥
स राक्षसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कञ्चित्।उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे ॥६-७१-४४॥
रथे स्थितो ऽहं शरचापपाणिर्न प्राकृतं कञ्चन योधयामि।यश्चास्ति कश्चिद्व्यवसाययुक्तो ददातु मे क्षिप्रमिहाद्य युद्धम् ॥६-७१-४५॥
तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता।अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥६-७१-४६॥
क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्।पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥६-७१-४७॥
पूरयन् स महीं शैलानाकाशं सागरं दिशः।ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ॥६-७१-४८॥
सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा।विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥६-७१-४९॥
अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्।आदाय निशितं बाणमिदं वचनमब्रवीत् ॥६-७१-५०॥
बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः।गच्छ किं कालसदृशं मां योधयितुमिच्छसि ॥६-७१-५१॥
नहि मद्बाहुसृष्टानामस्त्राणां हिमवानपि।सोढुमुत्सहते वेगमन्तरिक्षमथो मही ॥६-७१-५२॥
सुखप्रसुप्तं कालाग्निं निबोधयितुमिच्छसि।न्यस्यचापं निवर्तस्व मा प्राणान् जहि मद्गतः ॥६-७१-५३॥
अथवा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि।तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् ॥६-७१-५४॥
पश्य मे निशितान् बाणानरिदर्पनिषूदनान्।ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ॥६-७१-५५॥
एष ते सर्पसङ्काशो बाणः पास्यति शोणितम्।मृगराज इव क्रुद्धो नागराजस्य शोणितम्।इत्येवमुक्त्वा सङ्क्रुद्धः शरं धनुषि सन्दधे ॥६-७१-५६॥
श्रुत्वा ऽतिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः।स सञ्चुकोपातिबलो बृहच्छ्रीरुवाच वाक्यं च ततो महार्थम् ॥६-७१-५७॥
न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति।मयि स्थिते धन्विनि बाणपाणौ निदर्शय स्वात्मबलं दुरात्मन् ॥६-७१-५८॥
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि।पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥६-७१-५९॥
सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः।शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥६-७१-६०॥
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः।मारुतः कालसम्पक्वं वृन्तात्तालफलं यथा ॥६-७१-६१॥
अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः।पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ॥६-७१-६२॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 70
- Next: Yuddha-Kāṇḍa Sarga 72 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷