🪷 युद्धकाण्ड · Sarga 70

Yuddha-Kāṇḍa · The Book of War · Sarga 70 · 63 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.70.1
नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः।देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥६-७०-१॥
Vālmīki 6.70.2
आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः।वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥६-७०-२॥
Vālmīki 6.70.3
भ्रातृव्यसनसन्तप्तस्तथा देवान्तको बली।आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ॥६-७०-३॥
Vālmīki 6.70.4
रथमादित्यसङ्काशं युक्तं परमवाजिभिः।आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ॥६-७०-४॥
Vālmīki 6.70.5
स त्रिभिर्देवदर्पघ्नैर्नैर्ऋतेन्द्रैरभिद्रुतः।वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥६-७०-५॥
Vālmīki 6.70.6
देवान्तकाय तं वीरश्चिक्षेप सहसा ऽङ्गदः।महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ॥६-७०-६॥
Vālmīki 6.70.7
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः।स वृक्षं कृत्तमालोक्य उत्पपात तदा ऽङ्गदः ॥६-७०-७॥
Vālmīki 6.70.8
स ववर्ष ततो वृक्षान् शैलांश्च कपिकुञ्जरः।तान् प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः ॥६-७०-८॥
Vālmīki 6.70.9
परिघाग्रेण तान् वृक्षान् बभञ्ज च सुरान्तकः।त्रिशिराश्चाङ्गदं वीरमबिदुद्राव सायकैः ॥६-७०-९॥
Vālmīki 6.70.10
गजेन समभिद्रुत्य वालिपुत्रं महोदरः।जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसन्निभैः ॥६-७०-१०॥
Vālmīki 6.70.11
देवान्तकश्च सङ्क्रुद्धः परिघेण तदा ऽङ्गदम्।उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥६-७०-११॥
Vālmīki 6.70.12
स त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत् समभिद्रुतः।न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥६-७०-१२॥
Vālmīki 6.70.13
स वेगवान् महावेगं कृत्वा परमदुर्जयः।तलेन भृशमुत्पत्य जघानास्य महागजम् ॥६-७०-१३॥
Vālmīki 6.70.14
तस्य तेन प्रहारेण नागराजस्य संयुगे।पेततुर्लोचने तस्य विननाद स वारणः ॥६-७०-१४॥
Vālmīki 6.70.15
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः।देवान्तकमभिप्लुत्य ताडयामास संयुगे ॥६-७०-१५॥
Vālmīki 6.70.16
स विह्वलितसर्वाङ्गो वातोद्धूत इव द्रुमः।लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् ॥६-७०-१६॥
Vālmīki 6.70.17
अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली।आविध्य परिघं घोरमाजघान तदा ऽङ्गदम् ॥६-७०-१७॥
Vālmīki 6.70.18
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा।जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥६-७०-१८॥
Vālmīki 6.70.19
तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः।घोरैर्हरिपतेः पुत्रं ललाटे ऽभिजघान ह ॥६-७०-१९॥
Vālmīki 6.70.20
ततो ऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः।हनुमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ॥६-७०-२०॥
Vālmīki 6.70.21
ततश्चिक्षेप शेलाग्रं नीलस्त्रिशिरसे तदा।तद्रावणसुतो धीमान् बिभेद निशितैः शरैः ॥६-७०-२१॥
Vālmīki 6.70.22
तद्बाणशतनिर्भिन्नं विदारितशिलातलम्।सविस्फुलिङ्गं सज्वालं निपपात गिरः शिरः ॥६-७०-२२॥
Vālmīki 6.70.23
ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा।परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥६-७०-२३॥
Vālmīki 6.70.24
तमापतन्तमुत्प्लुत्य हनुमान् मारुतात्मजः।आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ॥६-७०-२४॥
Vālmīki 6.70.25
शिरसि प्रहरन् वीरस्तदा वायुसुतो बली।नादेनाकम्पयच्चैव राक्षसान् स महाकपिः ॥६-७०-२५॥
Vālmīki 6.70.26
स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः।देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ॥६-७०-२६॥
Vālmīki 6.70.27
तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ।क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ॥६-७०-२७॥
Vālmīki 6.70.28
महोदरस्तु सङ्क्रुद्धः कुञ्जरं पर्वतोपमम्।भूयः समधिरुह्याशु मन्दरं रश्मिमानिव ॥६-७०-२८॥
Vālmīki 6.70.29
ततो बाणमयं वर्षं नीलस्योरस्यपातयत्।गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ॥६-७०-२९॥
Vālmīki 6.70.30
ततः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः।नीलो बभूवाथ निसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ॥६-७०-३०॥
Vālmīki 6.70.31
ततस्तु नीलः प्रतिलभ्य सञ्ज्ञां शैलं समुत्पाट्य सवृक्षषण्डम्।ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि ॥६-७०-३१॥
Vālmīki 6.70.32
ततः स शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन।विपोथितो भूमितले गतासुः पपात वज्राभिहतो यथा ऽद्रिः ॥६-७०-३२॥
Vālmīki 6.70.33
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे।हनुमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः ॥६-७०-३३॥
Vālmīki 6.70.34
स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः।त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥६-७०-३४॥
Vālmīki 6.70.35
तद्व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं महाकपिः।विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति ॥६-७०-३५॥
Vālmīki 6.70.36
तमापन्तमाकाशे द्रुमवर्षं प्रतापवान्।त्रिशिरा निसितैर्बाणैश्चिच्छेद च ननाद च ॥६-७०-३६॥
Vālmīki 6.70.37
ततो हनूमानुत्प्लुत्य हयांत्रिशिरसस्तदा।विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ॥६-७०-३७॥
Vālmīki 6.70.38
अथ शक्तिं समादाय कालरात्रिमिवान्तकः।चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥६-७०-३८॥
Vālmīki 6.70.39
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम्।गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥६-७०-३९॥
Vālmīki 6.70.40
तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता।प्रहृष्टा वानरगणा विनेदुर्जलदा इव ॥६-७०-४०॥
Vālmīki 6.70.41
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः।निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ॥६-७०-४१॥
Vālmīki 6.70.42
खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः।आजघान त्रिशिरसं तलेनोरसि वीर्यवान् ॥६-७०-४२॥
Vālmīki 6.70.43
स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि।निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥६-७०-४३॥
Vālmīki 6.70.44
स तस्य पततः खड्गं समाच्छिद्य महाकपिः।ननाद गिरिसङ्काशस्त्रासयन् सर्वनैर्ऋतान् ॥६-७०-४४॥
Vālmīki 6.70.45
अमृष्यमाणस्तं घोषमुत्पपात निशाचरः।उत्पत्य च हमूमन्तं ताडयामास मुष्टिना ॥६-७०-४५॥
Vālmīki 6.70.46
तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः।कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ॥६-७०-४६॥
Vālmīki 6.70.47
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि।क्रुद्धः प्रचिच्छेद सुतो ऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ॥६-७०-४७॥
Vālmīki 6.70.48
तान्यायताक्षाण्यगसन्निभानि प्रदीप्तवैश्वानरलोचनानि।पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथा ऽर्कमार्गात् ॥६-७०-४८॥
Vālmīki 6.70.49
तस्मिन् हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण।नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ॥६-७०-४९॥
Vālmīki 6.70.50
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम्।हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ॥६-७०-५०॥
Vālmīki 6.70.51
चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः।जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम् ॥६-७०-५१॥
Vālmīki 6.70.52
हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम्।विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ॥६-७०-५२॥
Vālmīki 6.70.53
तेजसा सम्प्रदीप्ताग्रां रक्तमाल्याविभूषिताम्।ऐरावतमहापद्मसार्वभौमभयावहाम् ॥६-७०-५३॥
Vālmīki 6.70.54
गदामादाय सङ्क्रुद्धो मत्तो राक्षसपुङ्गवः।हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥६-७०-५४॥
Vālmīki 6.70.55
अथर्षभः समुत्पत्य वानरो रावणानुजम्।मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ॥६-७०-५५॥
Vālmīki 6.70.56
तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम्।आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥६-७०-५६॥
Vālmīki 6.70.57
स तया ऽभिहतस्तेन गदया वानरर्षभः।भिन्नवक्षाः समाधूतः सुस्त्राव रुधिरं बहु ॥६-७०-५७॥
Vālmīki 6.70.58
स सम्प्राप्य चिरात् सञ्ज्ञामृषभो वानरर्षभः।अबिदुद्राव वेगेन गदां तस्य महात्मनः ॥६-७०-५८॥
Vālmīki 6.70.59
गृहीत्वा तां गदां भीमामाविध्य च पुनःपुनः।मत्तानीकं महात्मानं जघान रणमूर्धनि ॥६-७०-५९॥
Vālmīki 6.70.60
स स्वया गदया भग्नो विशीर्णदशनेक्षणः।निपपात ततो मत्तो वज्राहत इवाचलः ॥६-७०-६०॥
Vālmīki 6.70.61
विशीर्णनयने भूमौ गतसत्त्वे गतायुषि।पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम् ॥६-७०-६१॥
Vālmīki 6.70.62
तस्मिन् हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम्।त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसन्निकाशम् ॥६-७०-६२॥
Vālmīki 6.70.63
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्ततितमः सर्गः ।। ७० ।। ॥६-७०-६३॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷