🪷 युद्धकाण्ड · Sarga 69

Yuddha-Kāṇḍa · The Book of War · Sarga 69 · 101 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.69.1
एवं विलपमानस्य रावणस्य दुरात्मनः।श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥६-६९-१॥
Vālmīki 6.69.2
एवमेव महावीर्यो हतो नस्तातमध्यमः।न तु सत्पुरुषा राजन् विलपन्ति यथा भवान् ॥६-६९-२॥
Vālmīki 6.69.3
नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो।स कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम् ॥६-६९-३॥
Vālmīki 6.69.4
ब्रह्मदत्ता ऽस्ति ते शक्तिः कवचः सायको धनुः।सहस्रखरसंयुक्तो रथो मेघस्वनो महान् ॥६-६९-४॥
Vālmīki 6.69.5
त्वया ऽसकृद्विशस्त्रेण विशस्ता देवदानवाः।स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ॥६-६९-५॥
Vālmīki 6.69.6
कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम्।उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ॥६-६९-६॥
Vālmīki 6.69.7
शम्बरो देवराजेन नरको विष्णुना यथा।तथा ऽद्य शयिता रामो मया युधि निपातितः ॥६-६९-७॥
Vālmīki 6.69.8
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः।पुनर्जातमिवात्मानं मन्यते कालचोदितः ॥६-६९-८॥
Vālmīki 6.69.9
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ।अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥६-६९-९॥
Vālmīki 6.69.10
ततो ऽहमहमित्येव गर्जन्तो नैर्ऋतर्षभाः।रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥६-६९-१०॥
Vālmīki 6.69.11
अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः।सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्जयाः ॥६-६९-११॥
Vālmīki 6.69.12
सर्वे सुबलसम्पन्नाः सर्वे विकीर्णकीर्तयः।सर्वे समरमासाद्य न श्रूयन्ते पराजिताः।देवैरपि सगन्धर्वैः सकिन्नरमहोरगैः ॥६-६९-१२॥
Vālmīki 6.69.13
सर्वे च विदुषो वीराः सर्वे युद्धविशारदाः।सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ॥६-६९-१३॥
Vālmīki 6.69.14
स तैस्तदा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलप्रमर्दनैः।रराज राजा मघवान् यथा ऽमरैर्वृतो महादानवदर्पनाशनैः ॥६-६९-१४॥
Vālmīki 6.69.15
स पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः।आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ॥६-६९-१५॥
Vālmīki 6.69.16
युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः।रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥६-६९-१६॥
Vālmīki 6.69.17
ते ऽभिवाद्य महात्मानं रावणं रिपुरावणम्।कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥६-६९-१७॥
Vālmīki 6.69.18
सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः।निर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥६-६९-१८॥
Vālmīki 6.69.19
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ।महोदरमहापार्श्वो निर्जग्मुः कालचोदिताः ॥६-६९-१९॥
Vālmīki 6.69.20
ततः सुदर्शनं नाम नीलजीमूतसन्निभम्।ऐरावतकुले जातमारुरोह महोदरः ॥६-६९-२०॥
Vālmīki 6.69.21
सर्वायुधसमायुक्तं तूणीभिश्च स्वलङ्कृतम्।रराज गजमास्थाय सवितेवास्तमूर्धनि ॥६-६९-२१॥
Vālmīki 6.69.22
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्।आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥६-६९-२२॥
Vālmīki 6.69.23
त्रिशिरा रथमास्थाय विरराज धनुर्धरः।सविद्युदुल्कः शैलाग्रे सेन्द्रचाप इवाम्बुदः ॥६-६९-२३॥
Vālmīki 6.69.24
त्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे।हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥६-६९-२४॥
Vālmīki 6.69.25
अतिकायो ऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा।आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥६-६९-२५॥
Vālmīki 6.69.26
सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम्।तूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम् ॥६-६९-२६॥
Vālmīki 6.69.27
स काञ्चनविचित्रेण मुकुटेन विराजता।भूषणैश्च बभौ मेरुः किरणैरिव भासयन् ॥६-६९-२७॥
Vālmīki 6.69.28
स रराज रथे तस्मिन् राजसूनुर्महाबलः।वृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः ॥६-६९-२८॥
Vālmīki 6.69.29
हयमुच्चैश्श्रवप्रख्यं श्वेतं कनकभूषणम्।मनोजवं महाकायमारुरोह नरान्तकः ॥६-६९-२९॥
Vālmīki 6.69.30
गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः।शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥६-६९-३०॥
Vālmīki 6.69.31
देवान्तकः समादाय परिघं वज्रभूषणम्।परिगृह्य गिरीं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥६-६९-३१॥
Vālmīki 6.69.32
महापार्श्वो महाकायो गदामादाय वीर्यवान्।विरराज गदापाणिः कुबेर इव संयुगे ॥६-६९-३२॥
Vālmīki 6.69.33
प्रतस्थिरे महात्मानो बलैरप्रतिमैर्वृताः।सुरा इवामरावत्या बलैरप्रतिमैर्वृताः ॥६-६९-३३॥
Vālmīki 6.69.34
तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः।अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ॥६-६९-३४॥
Vālmīki 6.69.35
ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः।किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ॥६-६९-३५॥
Vālmīki 6.69.36
प्रगृहीता बभौ तेषां शस्त्राणामावलिः सिता।शारदाभ्रप्रतीकाशा हंसावलिरिवाम्बरे ॥६-६९-३६॥
Vālmīki 6.69.37
मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ॥६-६९-३७॥
Vālmīki 6.69.38
इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ॥६-६९-३८॥
Vālmīki 6.69.39
जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान्।जगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः ॥६-६९-३९॥
Vālmīki 6.69.40
क्ष्वेलितास्फोटनिनदैश्चचाल च वसुन्धरा।रक्षसां सिंहनादैश्च पुस्फोटेव तदा ऽम्बरम् ॥६-६९-४०॥
Vālmīki 6.69.41
ते ऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः।ददृशुर्वानरानीकं समुद्यतशिलानगम् ॥६-६९-४१॥
Vālmīki 6.69.42
हरयो ऽपि महात्मानो ददृशुर्नैर्ऋतं बलम्।हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् ॥६-६९-४२॥
Vālmīki 6.69.43
नीलजीमूतसङ्काशं समुद्यतमहायुधम्।दीप्तानलपविप्रख्यैः सर्वतो नैर्ऋतैर्वृतम् ॥६-६९-४३॥
Vālmīki 6.69.44
तद् दृष्ट्वा बलमायान्तं लब्धलक्षाः प्लवङ्गमाः।समुद्यतमहाशैलाः सम्प्रणेदुर्महाबलाः।अमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः ॥६-६९-४४॥
Vālmīki 6.69.45
ततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम्।अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ॥६-६९-४५॥
Vālmīki 6.69.46
ते राक्षसबलं घोरं प्रविश्य हरियूथपाः।विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥६-६९-४६॥
Vālmīki 6.69.47
केचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः।रक्षस्सैन्येषु सङ्क्रुद्धाश्चेरुर्द्रुमशिलायुधाः ॥६-६९-४७॥
Vālmīki 6.69.48
द्रुमांश्च विपुलस्कन्धान् गृह्य वानरपुङ्गवाः।तद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ॥६-६९-४८॥
Vālmīki 6.69.49
ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम्।बाणौघैर्वायमाणाश्च हरयो भीमविक्रमाः ॥६-६९-४९॥
Vālmīki 6.69.50
सिंहनादान् विनेदुश्च रणे वानरराक्षसाः।शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ॥६-६९-५०॥
Vālmīki 6.69.51
निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्।केचिद्रथगतान् वीरान् गजवाजिगतानपि ॥६-६९-५१॥
Vālmīki 6.69.52
निजघ्नुः सहसा ऽ ऽप्लुत्य यातुधानान् प्लवङ्गमाः।शैलशृङ्गाचिताङ्गाश्च मुष्टिभिर्वान्तलोचनाः ॥६-६९-५२॥
Vālmīki 6.69.53
चेरुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः।राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ॥६-६९-५३॥
Vālmīki 6.69.54
शूलमुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः।अन्योन्यं पातयामासुः परस्परजयैषिणः ॥६-६९-५४॥
Vālmīki 6.69.55
रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः।ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ॥६-६९-५५॥
Vālmīki 6.69.56
मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता।विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः।आसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः ॥६-६९-५६॥
Vālmīki 6.69.57
आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः।पुनरङ्गैस्तथा चक्रुरासन्ना युद्धमद्भुतम् ॥६-६९-५७॥
Vālmīki 6.69.58
वानरान् वानरैरेव जघ्नुस्ते रजनीचराः।राक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि ॥६-६९-५८॥
Vālmīki 6.69.59
आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन्।तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥६-६९-५९॥
Vālmīki 6.69.60
निजघ्नुः शैलशूलास्त्रैर्बिभिदुश्च परस्परम्।सिंहनादान् विनेदुश्च रणे वानरराक्षसाः ॥६-६९-६०॥
Vālmīki 6.69.61
छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः।रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ॥६-६९-६१॥
Vālmīki 6.69.62
रथेन च रथं चापि वारणेनैव वारणम् ॥६-६९-६२॥
Vālmīki 6.69.63
हयेन च हयं केचिन्निजघ्नुर्वानरा रणे।प्रहृष्टमनसः सर्वे प्रगृहीतमनःशिलाः ॥६-६९-६३॥
Vālmīki 6.69.64
हरयो राक्षसान् जघ्नुर्द्रुमैश्च बहुशाखिभिः।तद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ॥६-६९-६४॥
Vālmīki 6.69.65
क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः।राक्षसा वानरेन्द्राणां चिच्छिदुः पादपान् शिलाः ॥६-६९-६५॥
Vālmīki 6.69.66
विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे।हतैश्च कपिरक्षोबिर्दुर्गमा वसुधा ऽभवत् ॥६-६९-६६॥
Vālmīki 6.69.67
ते वानरा गर्वितहृष्टचेष्टाः सङ्ग्राममासाद्य भयं विमुच्य।युद्धं तु सर्वे सह राक्षसैस्तैर्नानायुधाश्चक्रुरदीनसत्त्वाः ॥६-६९-६७॥
Vālmīki 6.69.68
तस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु।निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ॥६-६९-६८॥
Vālmīki 6.69.69
ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य।नरान्तको वानरराजसैन्यं महार्णवं मीन इवाविवेश ॥६-६९-६९॥
Vālmīki 6.69.70
स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद।एकक्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ॥६-६९-७०॥
Vālmīki 6.69.71
ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम्।चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥६-६९-७१॥
Vālmīki 6.69.72
स तस्य ददृशो मार्गो मांसशोणितकर्दमः।पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥६-६९-७२॥
Vālmīki 6.69.73
यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः।तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥६-६९-७३॥
Vālmīki 6.69.74
ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः।ददाह हरिसैन्यानि वनानीव विभावसुः ॥६-६९-७४॥
Vālmīki 6.69.75
यावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः।तावत् प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥६-६९-७५॥
Vālmīki 6.69.76
दिक्षु सर्वासु बलवान् विचचार नरान्तकः।प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथा ऽनिलः ॥६-६९-७६॥
Vālmīki 6.69.77
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात्।उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् ॥६-६९-७७॥
Vālmīki 6.69.78
एकेनान्तककल्पेन प्रासेनादित्यतेजसा।भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥६-६९-७८॥
Vālmīki 6.69.79
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्।न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥६-६९-७९॥
Vālmīki 6.69.80
पततां हरिवीराणां रूपाणि प्रचकाशिरे।वज्रभिन्नाग्रकूटानां शैलानां पततामिव ॥६-६९-८०॥
Vālmīki 6.69.81
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः।ते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥६-६९-८१॥
Vālmīki 6.69.82
विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम्।नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ॥६-६९-८२॥
Vālmīki 6.69.83
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्।गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ॥६-६९-८३॥
Vālmīki 6.69.84
अथोवाच महातेजाः सुग्रीवो वानराधिपः।कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥६-६९-८४॥
Vālmīki 6.69.85
गच्छ त्वं राक्षसं वीरो यो ऽसौ तुरगमास्थितः।क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥६-६९-८५॥
Vālmīki 6.69.86
स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्ततः।अनीकान्मेघसङ्काशान्मेघानीकादिवांशुमान् ॥६-६९-८६॥
Vālmīki 6.69.87
शैलसङ्घातसङ्काशो हरीणामुत्तमो ऽङ्गदः।रराजाङ्गदसन्नद्धः सधातुरिव पर्वतः ॥६-६९-८७॥
Vālmīki 6.69.88
निरायुधो महातेजाः केवलं नखदंष्ट्रवान्।नरान्तकमभिक्रम्य वालिपुत्रो ऽब्रवीद्वचः ॥६-६९-८८॥
Vālmīki 6.69.89
तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि।अस्मिन् वज्रसमस्पर्शं प्रासङ्क्षिप ममोरसि ॥६-६९-८९॥
Vālmīki 6.69.90
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः।सन्दश्य दशनैरोष्ठं विनिश्वस्य भुजङ्गवत् ॥६-६९-९०॥
Vālmīki 6.69.91
अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ॥६-६९-९१॥
Vālmīki 6.69.92
प्रासं समाविध्य तदा ऽङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज।स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥६-६९-९२॥
Vālmīki 6.69.93
तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम्।तलं समुद्यम्य स वालिपुत्रस्तुरङ्गमं तस्य जघान मूर्ध्नि ॥६-६९-९३॥
Vālmīki 6.69.94
निमग्नतालुः स्फुटिताक्षितारो निष्क्रान्तजिह्वो ऽचलसन्निकाशः।स तस्य वाजी निपपात भूमौ तलप्रहारेण विशीर्णमूर्धा ॥६-६९-९४॥
Vālmīki 6.69.95
नरान्तकः क्रोधवशं जगाम हतं तुरङ्गं पतितं निरीक्ष्य।स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥६-६९-९५॥
Vālmīki 6.69.96
अथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम्।मुहुर्विजज्वाल मुमोह चापि सञ्ज्ञां समासाद्य विसिष्मिये च ॥६-६९-९६॥
Vālmīki 6.69.97
अथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम्।निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥६-६९-९७॥
Vālmīki 6.69.98
स मुष्टिनिष्पष्टविभिन्नवक्षा ज्वालावमच्छोणितदिग्धगात्रः।नरान्तको भूमितले पपात यथा ऽचलो वज्रनिपातभग्नः ॥६-६९-९८॥
Vālmīki 6.69.99
अथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः।बभूव तस्मिन्निहते ऽग्र्यवीरे नरान्तके वालिसुतेन सङ्ख्ये ॥६-६९-९९॥
Vālmīki 6.69.100
अथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तत् कृतवान् हि विक्रमम्।विसिष्मिये सो ऽप्यतिवीर्यविक्रमः पुनश्च युद्धे स बभूव हर्षितः ॥६-६९-१००॥
Vālmīki 6.69.101
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनसप्ततितमः सर्गः ।। ६९ ।। ॥६-६९-१०१॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷