🪷 युद्धकाण्ड · Sarga 68

Yuddha-Kāṇḍa · The Book of War · Sarga 68 · 25 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.68.1
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना।राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥६-६८-१॥
Vālmīki 6.68.2
राजन् स कालसङ्काशः संयुक्तः कालकर्मणा।विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥६-६८-२॥
Vālmīki 6.68.3
प्रतपित्वा मुहूर्तं च प्रशान्तो राम तेजसा।कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥६-६८-३॥
Vālmīki 6.68.4
निकृत्तकण्ठोरुभुजो विक्षरन् रुधिरं बहु।रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥६-६८-४॥
Vālmīki 6.68.5
कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः।लगण्डभूतो विकृतो दावदग्ध इव द्रुमः ॥६-६८-५॥
Vālmīki 6.68.6
तं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम्।रावणः शोकसन्तप्तो मुमोह च पपात च ॥६-६८-६॥
Vālmīki 6.68.7
पितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ।त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ॥६-६८-७॥
Vālmīki 6.68.8
भ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ॥६-६८-८॥
Vālmīki 6.68.9
ततः कृच्छ्रात् समासाद्य सञ्ज्ञां राक्षसपुङ्गवः।कुम्भकर्णवधाद्दीनो विललाप स रावणः ॥६-६८-९॥
Vālmīki 6.68.10
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल।त्वं मां विहाय वै दैवाद्यातो ऽसि यमसादनम् ॥६-६८-१०॥
Vālmīki 6.68.11
मम शल्यमनुद्धत्य बान्धवानां महाबल।शत्रुसैन्यं प्रताप्यैकस्त्वं मां सन्त्यज्य गच्छसि ॥६-६८-११॥
Vālmīki 6.68.12
इदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः।पतितो यं समाश्रित्य न बिभेमि सुरासुरात् ॥६-६८-१२॥
Vālmīki 6.68.13
कथमेवंविधो वीरो देवदानवदर्पहा।कालाग्निरुद्रप्रतिमो रणे रामेण वै हतः ॥६-६८-१३॥
Vālmīki 6.68.14
यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा।स कथं रामबाणार्तः प्रसुप्तो ऽसि महीतले ॥६-६८-१४॥
Vālmīki 6.68.15
एते देवगणाः सार्धमृष्टिभिर्गगने स्थिताः।निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥६-६८-१५॥
Vālmīki 6.68.16
ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः।आरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः ॥६-६८-१६॥
Vālmīki 6.68.17
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया।कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ॥६-६८-१७॥
Vālmīki 6.68.18
यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्।ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥६-६८-१८॥
Vālmīki 6.68.19
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम।नहि भ्रातऽन् समुत्सृज्य क्षणं जीवितुमुत्सहे ॥६-६८-१९॥
Vālmīki 6.68.20
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्।कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥६-६८-२०॥
Vālmīki 6.68.21
तदिदं मामनुप्राप्तं विभीषणवचः शुभम्।यदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥६-६८-२१॥
Vālmīki 6.68.22
विभीषणवचो यावत् कुम्भकर्णप्रहस्तयोः।विनाशो ऽयं समुत्पन्नो मां व्रीडयति दारुणः ॥६-६८-२२॥
Vālmīki 6.68.23
तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः।यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ॥६-६८-२३॥
Vālmīki 6.68.24
इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम्।न्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥६-६८-२४॥
Vālmīki 6.68.25
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टषष्टितमः सर्गः ।। ६८ ।। ॥६-६८-२५॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷