🪷 युद्धकाण्ड · Sarga 67

Yuddha-Kāṇḍa · The Book of War · Sarga 67 · 167 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.67.1
ते निवृत्ता महाकायाः श्रुत्वा ऽङ्गदवचस्तदा।नैष्ठिकीं बुद्धिमासाद्य सर्वे सङ्ग्रामकाङ्क्षिणः ।। ६.६७.१ ।।्रशक्त्या ।। ६.६७.१९ ।। ।।व चक्षुषा।समुदीरितवीर्याश्च समारोपितविक्रमाः।पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ॥६-६७-१॥
Vālmīki 6.67.2
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः।चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥६-६७-२॥
Vālmīki 6.67.3
अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च।वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रुताः ॥६-६७-३॥
Vālmīki 6.67.4
स कुम्भकर्णः सङ्क्रुद्धो गदामुद्यम्य वीर्यवान्।अर्दयन् सुमहाकायः समन्ताद्व्यक्षिपद्रिपून् ॥६-६७-४॥
Vālmīki 6.67.5
शतानि सप्त चाष्टौ च सहस्राणि च वानराः।प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ॥६-६७-५॥
Vālmīki 6.67.6
षोडशाष्टौ च दश च विंशत्ऺित्रंशत्तथैव च।परिक्षिप्य च बाहुभ्यां खादन् विपरिधावति।भक्षयन् भृशसङ्क्रुद्धो गरुडः पन्नगानिव ॥६-६७-६॥
Vālmīki 6.67.7
कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस्ततः।वृक्षाद्रिहस्ता हरयस्तस्थुः सङ्ग्राममूर्धनि ॥६-६७-७॥
Vālmīki 6.67.8
ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः।दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः ॥६-६७-८॥
Vālmīki 6.67.9
तं समुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः।तमप्राप्तो महाकायं तस्य सैन्ये ऽपतत्तदा ॥६-६७-९॥
Vālmīki 6.67.10
ममर्दाश्वान् गजांश्चापि रथांश्चैव नगोत्तमः।तानि चान्यानि रक्षांसि पुनश्चान्यद्गिरेः शिरेः ॥६-६७-१०॥
Vālmīki 6.67.11
तच्छैलशृङ्गाभिहतं हताश्वं हतसारथि।रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् ।। ६.६७.१२ ।।६.६७.१२९ ।।।।। ६.६७.१२३ ।।णो वीरो निर्दहन्निव चक्षुषा।रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः।शिरांसि नदतां जह्रुः सहसा भीमनिस्वनाः ॥६-६७-११॥
Vālmīki 6.67.12
वानराश्च महात्मानः समुत्पाट्य महाद्रुमान्।रथानश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन् ॥६-६७-१२॥
Vālmīki 6.67.13
हनुमान् शैलशृङ्गाणि वृक्षांश्च विविधान् बहून्।ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ॥६-६७-१३॥
Vālmīki 6.67.14
तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह।बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥६-६७-१४॥
Vālmīki 6.67.15
ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य।तस्थौ ततो ऽस्यापततः पुरस्तान्महीधराग्रं हनुमान् प्रगृह्य ॥६-६७-१५॥
Vālmīki 6.67.16
स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम्।स चुक्षुभे तेन तदा ऽभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः ॥६-६७-१६॥
Vālmīki 6.67.17
स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम्।बाह्वन्तरे मारुतिमाजघान गुहो ऽचलं क्रौञ्चमिवोग्रशक्त्या ॥६-६७-१७॥
Vālmīki 6.67.18
स शूलनिर्भिन्नमहाभूजान्तरः प्रविह्वलः शोणितमुद्वमन् मुखात्।ननाद भीमं हनुमान् महाहवे युगान्तमेघस्तनितस्वनोपमम् ॥६-६७-१८॥
Vālmīki 6.67.19
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य।प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥६-६७-१९॥
Vālmīki 6.67.20
ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम्।प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ॥६-६७-२०॥
Vālmīki 6.67.21
तमापतन्तं सम्प्रेक्ष्य मुष्टिना ऽभिजघान ह।मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ॥६-६७-२१॥
Vālmīki 6.67.22
सविस्फुलिङ्गं सज्वालं निपपात महीतले।ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ॥६-६७-२२॥
Vālmīki 6.67.23
पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ॥६-६७-२३॥
Vālmīki 6.67.24
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः।कुम्भकर्णं महाकायं सर्वतो ऽभिप्रदुद्रुवुः ॥६-६७-२४॥
Vālmīki 6.67.25
स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे।ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ॥६-६७-२५॥
Vālmīki 6.67.26
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः।निपपातर्षभो भीमः प्रमुखाद्वान्तशोणितः ॥६-६७-२६॥
Vālmīki 6.67.27
मुष्टिना शरभं हत्वा जानुना नीलमाहवे।आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा ॥६-६७-२७॥
Vālmīki 6.67.28
पादेनाभ्यहनत् क्रुद्धस्तरसा गन्धमादनम्।दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः ॥६-६७-२८॥
Vālmīki 6.67.29
निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः।तेषु वानरमुख्येषु पतितेषु महात्मसु।वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥६-६७-२९॥
Vālmīki 6.67.30
तं शैलमिव शैलाभाः सर्वे ते प्लवगर्षभाः।समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥६-६७-३०॥
Vālmīki 6.67.31
तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा।कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः ॥६-६७-३१॥
Vālmīki 6.67.32
स वानरसहस्रैस्तैराचितः पर्वतोपमः।रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥६-६७-३२॥
Vālmīki 6.67.33
बाहुभ्यां वानरान् सर्वान् प्रगृह्य सुमहाबलः।भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव ॥६-६७-३३॥
Vālmīki 6.67.34
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसन्निभे।नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ॥६-६७-३४॥
Vālmīki 6.67.35
भक्षयन् भृशसङ्क्रुद्धो हरीन् पर्वतसन्निभः।बभञ्ज वानरान् सर्वान् सङ्क्रुद्धो राक्षसोत्तमः ॥६-६७-३५॥
Vālmīki 6.67.36
मांसशोणितसङ्क्लेदां भूमिं कुर्वन् स राक्षसः।चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः ॥६-६७-३६॥
Vālmīki 6.67.37
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः।शूलहस्तो बभौ सङ्ख्ये कुम्भकर्णो महाबलः ॥६-६७-३७॥
Vālmīki 6.67.38
यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः।तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ॥६-६७-३८॥
Vālmīki 6.67.39
ततस्ते वध्यमानास्तु हतयूथा विनायकाः ।। ॥६-६७-३९॥
Vālmīki 6.67.40
वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् ॥६-६७-४०॥
Vālmīki 6.67.41
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः।राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ॥६-६७-४१॥
Vālmīki 6.67.42
प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्तसुतात्मजः।अभ्यधावत वेगेन कुम्भकर्णं महाहवे ॥६-६७-४२॥
Vālmīki 6.67.43
शैलशृङ्गं महद्गृह्य विनदंश्च मुहुर्मुहुः।त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान् ॥६-६७-४३॥
Vālmīki 6.67.44
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि।स तेनाभिहतो ऽत्यर्थं गिरिशृङ्गेण मूर्धनि ॥६-६७-४४॥
Vālmīki 6.67.45
कुम्भकर्णः प्रजज्वाल कोपेन महता तदा।सो ऽभ्यधावत वेगेन वालिपुत्रममर्षणः ॥६-६७-४५॥
Vālmīki 6.67.46
कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान्।शूलं ससर्ज वै रोषादङ्गदे स महावलः ॥६-६७-४६॥
Vālmīki 6.67.47
तमापतन्तं बुद्ध्वा तु युद्धमार्गविशारदः।लाघवान्मोचयामास बलवान् वानरर्षभः ॥६-६७-४७॥
Vālmīki 6.67.48
उत्पत्य चैनं सहसा तलेनोरस्यताडयत्।स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः ॥६-६७-४८॥
Vālmīki 6.67.49
स लब्धसञ्ज्ञो बलवान् मुष्टिमावर्त्त्य राक्षसः।अपहासेन चिक्षेप विसञ्ज्ञः स पपात ह ॥६-६७-४९॥
Vālmīki 6.67.50
तस्मिन् प्लवगशार्दूले विसञ्ज्ञे पतिते भुवि।तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ॥६-६७-५०॥
Vālmīki 6.67.51
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम्।उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥६-६७-५१॥
Vālmīki 6.67.52
पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः।अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥६-६७-५२॥
Vālmīki 6.67.53
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम्।तस्थौ विकृतसर्वाङ्गो वानरेन्द्रसमुन्मुखः ॥६-६७-५३॥
Vālmīki 6.67.54
कपिशोणितदिग्धाङ्गं भक्षयन्तं प्लवङ्गमान्।कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥६-६७-५४॥
Vālmīki 6.67.55
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम्।भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥६-६७-५५॥
Vālmīki 6.67.56
त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि।सह स्वैकनिपातं मे पर्वतस्यास्य राक्षस ॥६-६७-५६॥
Vālmīki 6.67.57
तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम्।श्रुत्वा राक्षसशार्दूलः कुम्भकर्णो ऽब्रवीद्वचः ॥६-६७-५७॥
Vālmīki 6.67.58
प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजस्सुतः।श्रुतपौरुषसम्पन्नः कस्माद्गर्जसि वानर ॥६-६७-५८॥
Vālmīki 6.67.59
स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच।तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसन्निभेन ॥६-६७-५९॥
Vālmīki 6.67.60
तच्छैलशृङ्गं सहसा विशीर्णं भुजान्तरे तस्य तदा विशाले।ततो विषेदुः सहसा प्लवङ्गा रक्षोगणाश्चापि मुदा विनेदुः ॥६-६७-६०॥
Vālmīki 6.67.61
स शैलशृङ्गाभिहतश्चुकोप ननाद कोपाच्च विवृत्य वक्त्रम्।व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय ॥६-६७-६१॥
Vālmīki 6.67.62
तत् कुम्भकर्णस्य भुजप्रविद्धं शूलं शितं काञ्चनधामजुष्टम्।क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतो ऽनिलस्य ॥६-६७-६२॥
Vālmīki 6.67.63
कृतं भारसहस्रस्य शूलं कालायसं महत्।बभञ्ज जानुन्यारोप्य प्रहृष्टः प्लवगर्षभः ॥६-६७-६३॥
Vālmīki 6.67.64
शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी।हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥६-६७-६४॥
Vālmīki 6.67.65
सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः।मारुतिं पूजयाञ्चक्रुर्दृष्ट्वा शूलं तथागतम् ॥६-६७-६५॥
Vālmīki 6.67.66
स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोधिपतिर्महात्मा।उत्पाट्य लङ्कामलयात् स शृङ्गं जघान सुग्रीवमुपेत्य तेन ॥६-६७-६६॥
Vālmīki 6.67.67
स शैलशृङ्गाभिहतो विसञ्ज्ञः पपात भूमौ युधि वानरेन्द्रः।तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं नेदुः प्रहृष्टास्त्वथ यातुधानाः ॥६-६७-६७॥
Vālmīki 6.67.68
तमभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम्।जहार सुग्रीवमभिप्रगृह्य यथा ऽनिलो मेघमतिप्रचण्डः ॥६-६७-६८॥
Vālmīki 6.67.69
स तं महामेघनिकाशरूपमुत्पाट्य गच्छन् युधि कुम्भकर्णः।रराज मेरुप्रतिमानरूपो मेरुर्यथा ऽभ्युच्छ्रितघोरशृङ्गः ॥६-६७-६९॥
Vālmīki 6.67.70
ततस्तमुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः।शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रहविस्मितानाम् ॥६-६७-७०॥
Vālmīki 6.67.71
ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः।अस्मिन् हृते सर्वमिदं हृतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः ॥६-६७-७१॥
Vālmīki 6.67.72
विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः।कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥६-६७-७२॥
Vālmīki 6.67.73
हनुमांश्चिन्तयामास मतिमान् मारुतात्मजः।एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥६-६७-७३॥
Vālmīki 6.67.74
यद्वै न्याय्यं मया कर्तुं तत् करिष्यामि सर्वथा।भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसम् ॥६-६७-७४॥
Vālmīki 6.67.75
मया हते संयति कुम्भकर्णे महाबले मुष्टिविकीर्णदेहे।विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समस्ताः ॥६-६७-७५॥
Vālmīki 6.67.76
अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः।गृहीतो ऽयं यदि भवेत्ऺित्रदशैः सासुरोरगैः ॥६-६७-७६॥
Vālmīki 6.67.77
मन्ये न तावदात्मानं बुद्ध्यते वानराधिपः।शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥६-६७-७७॥
Vālmīki 6.67.78
अयं मुहूर्तात् सुग्रीवो लब्धसञ्ज्ञो महाहवे।आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति ॥६-६७-७८॥
Vālmīki 6.67.79
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः।अप्रीतिश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः ॥६-६७-७९॥
Vālmīki 6.67.80
तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य तु।भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥६-६७-८०॥
Vālmīki 6.67.81
इत्येवं चिन्तयित्वा तु हनुमान् मारुतात्मजः।भूयः संस्तम्भयामास वानराणां महाचमूम् ॥६-६७-८१॥
Vālmīki 6.67.82
स कुम्भकर्णो ऽथ विवेश लङ्कां स्फुरन्तमादाय महाकपिं तम्।विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरवकीर्यमाणः ॥६-६७-८२॥
Vālmīki 6.67.83
लाजगन्धोदवर्षैस्तु सिच्यमानः शनैःशनैः।राजमार्गस्य शीतत्वात् सञ्ज्ञामाप महाबलः ॥६-६७-८३॥
Vālmīki 6.67.84
ततः स सञ्ज्ञामुपलभ्य कृच्छ्राद्वलीयसस्तस्य भुजान्तरस्थः।अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा ॥६-६७-८४॥
Vālmīki 6.67.85
एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रतिकर्तुमद्य।तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ॥६-६७-८५॥
Vālmīki 6.67.86
ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रुम्।खरैश्च कर्णौ दशनैश्च नासां ददंश पार्श्वेषु च कुम्भकर्णम् ॥६-६७-८६॥
Vālmīki 6.67.87
स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन विमर्दितश्च।रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ॥६-६७-८७॥
Vālmīki 6.67.88
स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः।जगाम खं वेगवदभ्युपेत्य पुनश्च रामेण समाजगाम ॥६-६७-८८॥
Vālmīki 6.67.89
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः।रराज शोणितैः सिक्तो गिरिः प्रस्रवणैरिव ॥६-६७-८९॥
Vālmīki 6.67.90
शोणितार्द्रो महाकायो राक्षसो भीमविक्रमः।युद्धायाभिमुखो भूयो मनश्चके महाबलः ॥६-६७-९०॥
Vālmīki 6.67.91
अमर्षाच्छोणितोद्गरी शुशुभे रावणानुजः।नीलाञ्जनचयप्रख्यः ससन्ध्य इव तोयदः ॥६-६७-९१॥
Vālmīki 6.67.92
गते तु तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः।अनायुधो ऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद ॥६-६७-९२॥
Vālmīki 6.67.93
ततः स पुर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम्।बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रदीप्तः ॥६-६७-९३॥
Vālmīki 6.67.94
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम्।चखाद रक्षांसि हरीन् पिशाचानृक्षांश्च मोहाद्युधि कुम्भकर्णः ॥६-६७-९४॥
Vālmīki 6.67.95
यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान् ॥६-६७-९५॥
Vālmīki 6.67.96
एकं द्वे त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः।समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे ॥६-६७-९६॥
Vālmīki 6.67.97
सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः।वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ॥६-६७-९७॥
Vālmīki 6.67.98
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् ॥६-६७-९८॥
Vālmīki 6.67.99
कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति ॥६-६७-९९॥
Vālmīki 6.67.100
शतानि सप्त चाष्टौ च विंशत्ऺित्रंशत्तथैव च।सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति ॥६-६७-१००॥
Vālmīki 6.67.101
तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः।चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः ॥६-६७-१०१॥
Vālmīki 6.67.102
स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान्।निचखानाददे बाणान् विससर्ज च लक्ष्मणः ॥६-६७-१०२॥
Vālmīki 6.67.103
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः।राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥६-६७-१०३॥
Vālmīki 6.67.104
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन्।कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ॥६-६७-१०४॥
Vālmīki 6.67.105
तस्य रामेण विद्धस्य सहसा ऽभिप्रधावतः।अङ्गारमित्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥६-६७-१०५॥
Vālmīki 6.67.106
रामास्त्रविद्धो घोरं वै नदन् राक्षसपुङ्गवः।अभ्यधावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे ॥६-६७-१०६॥
Vālmīki 6.67.107
तस्योरसि निमग्नाश्च शरा बर्हिणवाससः।हस्ताच्चापि परिभ्रष्टा पपातोर्व्यां महागदा।आयुधानि च सर्वाणि विप्रकीर्यन्त भूतले ॥६-६७-१०७॥
Vālmīki 6.67.108
स निरायुधमात्मानं यदा मेने महाबलः।मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत् ॥६-६७-१०८॥
Vālmīki 6.67.109
स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः।रुधिरं प्रतिसुस्राव गिरिः प्रस्रवणं यथा ॥६-६७-१०९॥
Vālmīki 6.67.110
स तीर्वेण च कोपेन रुधिरेण च मूर्च्छितः।वानरान् राक्षसानृक्षान् खादन् विपरिधावति ॥६-६७-११०॥
Vālmīki 6.67.111
अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः।चिक्षेप राममुद्दिश्य बलवानन्तकोपमः ॥६-६७-१११॥
Vālmīki 6.67.112
अप्राप्तमन्तरा रामः सप्तभिस्तैरजिह्मगैः।शरैः काञ्चनचित्राङ्गैश्चिच्छेद पुरुषर्षभः ॥६-६७-११२॥
Vālmīki 6.67.113
तन्मेरुशिखराकारं द्योतमानमिव श्रिया।द्वे शते वानरेन्द्राणां पतमानमपातयत् ॥६-६७-११३॥
Vālmīki 6.67.114
तस्मिन् काले स धर्मात्मा लक्ष्मणो वाक्यमब्रवीत्।कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून् ॥६-६७-११४॥
Vālmīki 6.67.115
नैवायं वानरान् राजन्नापि जानाति राक्षसान्।मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति ॥६-६७-११५॥
Vālmīki 6.67.116
साध्वेनमधिरोहन्तु सर्वे ते वानरर्षभाः।यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्य समन्ततः ॥६-६७-११६॥
Vālmīki 6.67.117
अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः।प्रपतन् राक्षसो भूमौ नान्यान् हन्यात् प्लवङ्गमान् ॥६-६७-११७॥
Vālmīki 6.67.118
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः।ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवङ्गमाः ॥६-६७-११८॥
Vālmīki 6.67.119
कुम्भकर्णस्तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः।व्यधूनयत्तान् वेगेन दुष्टहस्तीव हस्तिपान् ॥६-६७-११९॥
Vālmīki 6.67.120
तान् दृष्ट्वा निर्धुतान् रामो दुष्टो ऽयमिति राक्षसः।सुमुत्पपात वेगेन धनुरुत्तममाददे ॥६-६७-१२०॥
Vālmīki 6.67.121
क्रोधताम्रेक्षणो वीरो निर्दहन्निव चक्षुषा।राघवो राक्षसं रोषादभिदुद्राव वेगितः।यूथपान् हर्षयन् सर्वान् कुम्भकर्णभयार्दितान् ॥६-६७-१२१॥
Vālmīki 6.67.122
स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम्।हरीन् समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः ॥६-६७-१२२॥
Vālmīki 6.67.123
स वानरगणैस्तैस्तु वृतः परमदुर्जयः।लक्ष्मणानुचरो रामः सम्प्रतस्थे महावलः ॥६-६७-१२३॥
Vālmīki 6.67.124
स ददर्श महात्मानं किरीटिनमरिन्दमम्।शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् ॥६-६७-१२४॥
Vālmīki 6.67.125
सर्वान् समभिधावन्तं यथा रुष्टं दिशागजम्।मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम् ॥६-६७-१२५॥
Vālmīki 6.67.126
विन्ध्यमन्दरसङ्काशं काञ्चनाङ्गदभूषणम्।स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ॥६-६७-१२६॥
Vālmīki 6.67.127
जिह्वया परिलिह्यन्तं शोणितं शोणितेक्षणम्।मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ॥६-६७-१२७॥
Vālmīki 6.67.128
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम्।विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥६-६७-१२८॥
Vālmīki 6.67.129
स तस्य चापनिर्घोषात् कुपितो राक्षसर्षभः।अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥६-६७-१२९॥
Vālmīki 6.67.130
ततस्तु वातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुम्।तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ॥६-६७-१३०॥
Vālmīki 6.67.131
आगच्छ रक्षोधिप मा विषादमवस्थितो ऽहं प्रगृहीतचापः।अवेहि मां शक्रसपत्न रामं मया मुहूर्ताद्भविता विचेताः ॥६-६७-१३१॥
Vālmīki 6.67.132
रामो ऽयमिति विज्ञाय जहास विकृतस्वनम्।अभ्यधावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे ॥६-६७-१३२॥
Vālmīki 6.67.133
पातयन्निव सर्वेषां हृदयानि वनौकसाम् ॥६-६७-१३३॥
Vālmīki 6.67.134
प्रहस्य विकृतं भीमं स मेघस्तनितोपमम्।कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ॥६-६७-१३४॥
Vālmīki 6.67.135
नाहं विराधो विज्ञेयो न कबन्धः खरो न च।न वाली न च मारीचः कुम्भकर्णो ऽहमागतः ॥६-६७-१३५॥
Vālmīki 6.67.136
पश्य मे मुद्गरं घोरं सर्वकालायसं महत्।अनेन निर्जिता देवा दानवाश्च पुरा मया ॥६-६७-१३६॥
Vālmīki 6.67.137
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि।स्वल्पा ऽपि हि न मे पीडा कर्णनासाविनाशनात् ॥६-६७-१३७॥
Vālmīki 6.67.138
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु।ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥६-६७-१३८॥
Vālmīki 6.67.139
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान्।तैराहतो वज्रसमग्रवेगैर्न चुक्षुभे न व्यथते सुरारिः ॥६-६७-१३९॥
Vālmīki 6.67.140
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च।ते कुम्भकर्णस्य तदा शरीरे वज्रोपमा न व्यथयाम्प्रचक्रुः ॥६-६७-१४०॥
Vālmīki 6.67.141
स वारिधारा इव सायकांस्तान् पिबन् शरीरेण महेन्द्रशत्रुः।जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ॥६-६७-१४१॥
Vālmīki 6.67.142
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम्।विव्याध तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ॥६-६७-१४२॥
Vālmīki 6.67.143
वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय।समुद्गरं तेन जघान बाहुं स कृत्तबाहुस्तुमुलं ननाद ॥६-६७-१४३॥
Vālmīki 6.67.144
स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः।पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहनीं च ॥६-६७-१४४॥
Vālmīki 6.67.145
ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः।प्रवेपिताङ्गं ददृशुः सुघोरं नरेन्द्ररक्षोधिपसन्निपातम् ॥६-६७-१४५॥
Vālmīki 6.67.146
स कुम्भकर्णो ऽस्त्रनिकृत्तबाहुर्महान्निकृत्ताग्र इवाचलेन्द्रः।उत्पाटयामास करेण वृक्षं ततो ऽभिदुद्राव रणे नरेन्द्रम् ॥६-६७-१४६॥
Vālmīki 6.67.147
स तस्य बाहुं सहसालवृक्षं समुद्यतं पन्नगभोगकल्पम्।ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन ॥६-६७-१४७॥
Vālmīki 6.67.148
स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसन्निकाशः।विवेष्टमानो ऽभिजघान वृक्षान् शैलान् शिला वानरराक्षसांश्च ॥६-६७-१४८॥
Vālmīki 6.67.149
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम्।द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ॥६-६७-१४९॥
Vālmīki 6.67.150
तौ तस्य पादौ प्रदिशो दिशश्च गिरीन् गुहाश्चैव महार्णवं च।लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च ॥६-६७-१५०॥
Vālmīki 6.67.151
निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम्।दुद्राव रामं सहसा ऽभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे ॥६-६७-१५१॥
Vālmīki 6.67.152
अपूरयत्तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः।स पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमोह चापि ॥६-६७-१५२॥
Vālmīki 6.67.153
अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम्।अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् ॥६-६७-१५३॥
Vālmīki 6.67.154
तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम्।महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ॥६-६७-१५४॥
Vālmīki 6.67.155
स सायको राघवबाहुचोदितो दिशः स्वभासा दश सम्प्रकाशयन्।सधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनिवीर्यविक्रमः ॥६-६७-१५५॥
Vālmīki 6.67.156
स तन्महापर्वतकूटसन्निभं विवृत्तदंष्ट्रं चलचारुकुण्डलम्।चकर्त रक्षोधिपतेः शिरस्तथा यथैव वृत्रस्य पुरा पुरन्दरः ॥६-६७-१५६॥
Vālmīki 6.67.157
कुम्भकर्णशिरो भाति कुण्डलालङ्कृतं महत्।आदित्ये ऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ॥६-६७-१५७॥
Vālmīki 6.67.158
तद्रामबाणाभिहतं पपात रक्षश्शिरःपर्वतसन्निकाशम्।बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ॥६-६७-१५८॥
Vālmīki 6.67.159
न्यपतत् कुम्भकर्णो ऽथ स्वकायेन निपातयन्।प्लवङ्गमानां कोट्यश्च परितः सम्प्रधावताम् ॥६-६७-१५९॥
Vālmīki 6.67.160
तच्चाति कायं हिमवत्प्रकाशं रक्षस्ततस्तोयनिधौ पपात।ग्राहान् वरान् मीनवरान् भुजङ्गान् ममर्द भूमिं च तदा विवेश ॥६-६७-१६०॥
Vālmīki 6.67.161
तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे।चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ॥६-६७-१६१॥
Vālmīki 6.67.162
ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः।सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता रामपराक्रमेण ॥६-६७-१६२॥
Vālmīki 6.67.163
ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैर्ऋतराजबान्धवाः।विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा सुरार्दिताः ॥६-६७-१६३॥
Vālmīki 6.67.164
स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद्विमुक्तः।तथा व्यभासीद्भुवि वानरौघे निहत्य रामो युधि कुम्भकर्णम् ॥६-६७-१६४॥
Vālmīki 6.67.165
प्रहर्षमीयुर्बहवस्तु वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः।अपूजयन् राघवमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥६-६७-१६५॥
Vālmīki 6.67.166
स कुम्भकर्णं सुरसङ्घमर्दनं महत्सु युद्धेषु पराजितश्रमम्।ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ॥६-६७-१६६॥
Vālmīki 6.67.167
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तषष्टितमः सर्गः ।। ६७ ।। ॥६-६७-१६७॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷