🪷 युद्धकाण्ड · Sarga 66
Yuddha-Kāṇḍa · The Book of War · Sarga 66 · 59 ślokas
🪷 Devanāgarī Ślokas
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान्।निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ॥६-६६-१॥
स ननाद महानादं समुद्रमभिनादयन्।जनयन्निव निर्घातान् विधमन्निव पर्वतान् ॥६-६६-२॥
तमवध्यं मधवता यमेन वरुणेन वा।प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥६-६६-३॥
तांस्तु विप्रद्रुतान् दृष्ट्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत्।नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥६-६६-४॥
आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च।क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥६-६६-५॥
साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ।नालं युद्धाय वै रक्षो महतीयं बिभीषिका ॥६-६६-६॥
महतीमुत्थितामेनां राक्षसानां बिभीषिकाम्।विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥६-६६-७॥
कृच्छ्रेण तु समाश्वस्य सङ्गम्य च ततस्ततः।वृक्षाद्रिहस्ता हरयः सम्प्रतस्थू रणाजिरम् ॥६-६६-८॥
ते निवृत्य तु सङ्क्रुद्धाः कुम्भकर्णं वनौकसः।निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥६-६६-९॥
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः।पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ॥६-६६-१०॥
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः।पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥६-६६-११॥
सो ऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम्।ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥६-६६-१२॥
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः।निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥६-६६-१३॥
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ॥६-६६-१४॥
केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः।वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ॥६-६६-१५॥
सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ॥६-६६-१६॥
ते स्थलानि तथा निम्नं विषण्णवदना भयात्।ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः ॥६-६६-१७॥
ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः।निषेदुः प्लवगाः केचित् केचिन्नैवावतस्थिरे।तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत् ॥६-६६-१८॥
अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः।भग्नानां वो न पश्यामि परिगम्य महीमिमाम्।स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ ॥६-६६-१९॥
निरायुधानां द्रवतामसङ्गगतिपौरुषाः।दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविनाम् ॥६-६६-२०॥
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च।क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ॥६-६६-२१॥
अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥६-६६-२२॥
विकत्थनानि वो यानि तदा वै जनसंसदि।तानि वः क्व नु यातानि सोदग्राणि महान्ति च ॥६-६६-२३॥
भीरुप्रवादाः श्रूयन्ते यस्तु जीविति धिक्कृतः।मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥६-६६-२४॥
शयामहे ऽथ निहताः पृथिव्यामल्पजीविताः।दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ॥६-६६-२५॥
सम्प्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे।जीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ॥६-६६-२६॥
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति।दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥६-६६-२७॥
पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्।एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥६-६६-२८॥
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्।द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥६-६६-२९॥
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा।न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥६-६६-३०॥
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः।भीमं मीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥६-६६-३१॥
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः।सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ॥६-६६-३२॥
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता।आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥६-६६-३३॥
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः।द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥६-६६-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्षष्टितमः सर्गः ।। ६६ ।। ॥६-६६-३५॥
सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः।अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ॥६-६६-३६॥
स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः।मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ॥६-६६-३७॥
पदातयश्च बहवो महानादा महाबलाः।अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥६-६६-३८॥
रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः।शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ॥६-६६-३९॥
बहुव्यामांश्च परिघान् गदाश्च मुसलानि च।तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ॥६-६६-४०॥
अथान्यद्वपुरादाय दारुणं रोमहर्षणम्।निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥६-६६-४१॥
धनुश्शतपरीणाहः स षट्छतसमुच्छ्रितः।रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ॥६-६६-४२॥
सन्निपत्य च रक्षांसि दग्धशैलोपमो महान्।कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥६-६६-४३॥
अद्य वानरमुख्यानां तानि यूथानि भागशः।निर्दहिष्यामि सङ्क्रुद्धः शलभानिव पावकः ॥६-६६-४४॥
नापराध्यन्ति मे कामं वानरा वनचारिणः।जातिरस्माद्विधानां सा पुरोद्यानविभूषणम् ॥६-६६-४५॥
पुररोधस्य मूलं तु राघवः सहलक्ष्मणः।हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ॥६-६६-४६॥
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः।नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥६-६६-४७॥
तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः।बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥६-६६-४८॥
उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः।ससागरवना चैव वसुधा समकम्पत ॥६-६६-४९॥
घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः।मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ॥६-६६-५०॥
निष्पपात च मालेव गृध्रो ऽस्य पथि गच्छतः।प्रास्फुरन्नयनं चास्य सव्यो बाहुश्च कम्पते ॥६-६६-५१॥
निपपात तदा चोल्का ज्वलन्ती भीमनिस्वना।आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखो ऽनिलः ॥६-६६-५२॥
अचिन्तयन् महोत्पातानुत्थितान् रोमहर्षणान्।निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥६-६६-५३॥
स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसन्निभः।ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ॥६-६६-५४॥
ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्।वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥६-६६-५५॥
तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम्।स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद् घनाभः ॥६-६६-५६॥
ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य।पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव सालवृक्षाः ॥६-६६-५७॥
विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनिस्सृतो महात्मा।कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्डवान् युगान्ते ॥६-६६-५८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चषष्टितमः सर्गः ।। ६५ ।। ॥६-६६-५९॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 65
- Next: Yuddha-Kāṇḍa Sarga 67 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷