🪷 युद्धकाण्ड · Sarga 65
Yuddha-Kāṇḍa · The Book of War · Sarga 65 · 59 ślokas
🪷 Devanāgarī Ślokas
स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्।अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ॥६-६५-१॥
सो ऽहं तव भयं घोरं वधात्तस्य दुरात्मनः।रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ॥६-६५-२॥
गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः।पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा ॥६-६५-३॥
न मर्षयति चात्मानं सम्भावयति नात्मना।अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ॥६-६५-४॥
विक्लवानामबुद्धीनां राज्ञा पण्डितमानिनाम्।शृण्वता सादितमिदं त्वद्विधानां महोदर ॥६-६५-५॥
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः।राजानमनुगच्छद्भिः कृत्यमेतद्धि सादितम् ॥६-६५-६॥
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्।राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ॥६-६५-७॥
एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये।दुर्नयं भवतामद्य समीकर्तुमिहाहवे ॥६-६५-८॥
एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः।प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः ॥६-६५-९॥
महोदरो ऽयं रामात्तु परित्रस्तो न संशयः।न हि रोचयते तात युद्धं युद्धविशारद ॥६-६५-१०॥
कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च।गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ॥६-६५-११॥
तस्मात्तु भयनाशार्थं भवान् सम्बोधितो मया।अयं हि कालः सुहृदां राक्षसानामरिन्दम ॥६-६५-१२॥
तद्गच्छ शूलमादाय पाशहस्त इवान्तकः।वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ॥६-६५-१३॥
समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः।रामलक्ष्मणोश्चापि हृदये प्रस्फुटिष्यतः ॥६-६५-१४॥
एवमुक्त्वा महाराजः कुम्भकर्णं महाबलम्।पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ॥६-६५-१५॥
कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम्।बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥६-६५-१६॥
इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः ॥६-६५-१७॥
राज्ञस्तु वचनं श्रुत्वा कुम्भकर्णः समुद्यतः।आददे निशितं शूलं वेगाच्छत्रुनिबर्हणम् ॥६-६५-१८॥
सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम्।इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् ॥६-६५-१९॥
देवदानवगन्धर्वयक्षकिन्नरसूदनम्।रक्तमाल्यं महाधामस्वतश्चोद्गतपावकम् ॥६-६५-२०॥
आदाय निशितं शूलं शत्रुशोणितरञ्जितम्।कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् ॥६-६५-२१॥
गमिष्याम्यहमेकाकी तिष्ठत्विह बलं मम।अद्य तान् क्षुभितान् क्रुद्धो भक्षयिष्यामि वानरान्।कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥६-६५-२२॥
सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः।वानरा हि महात्मानः शीघ्राः सुव्यवसायिनः ॥६-६५-२३॥
एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम्।तस्मात् परमदुर्धर्षैः सैन्यैः परिवृतो व्रज।रक्षसामहितं सर्वं शत्रुपक्षं निषूदय ॥६-६५-२४॥
अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम्।आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ॥६-६५-२५॥
अङ्गदान्यङ्गुलीवेष्टान् वराण्याभरणानि च।हारं च शशिसङ्काशमाबबन्ध महात्मनः ॥६-६५-२६॥
दिव्यानि च सुगन्धीनि माल्यदामानि रावणः।श्रोत्रे चासञ्जयामास श्रीमती चास्य कुण्डले ॥६-६५-२७॥
काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः।कुम्भकर्णो बृहत्कर्णः सुहुतो ऽग्निरिवाबभौ ॥६-६५-२८॥
श्रोणीसूत्रेण महता मेचकेन व्यराजत।अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः ॥६-६५-२९॥
स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा।आभध्यमानः कवचं रराज सन्ध्याभ्रसंवीत इवाद्रिराजः ॥६-६५-३०॥
सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः।त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥६-६५-३१॥
भ्रातरं सम्परिष्वज्य कृत्वा चाभिप्रदक्षिणम्।प्रणम्य शिरसा तस्मै सम्प्रतस्थे महाबलः ॥६-६५-३२॥
निष्पतन्तं महाकायं महानादं महाबलम्।तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ॥६-६५-३३॥
शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः।तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः ॥६-६५-३४॥
अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ॥६-६५-३५॥
सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः।अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ॥६-६५-३६॥
स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः।मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ॥६-६५-३७॥
पदातयश्च बहवो महानादा महाबलाः।अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥६-६५-३८॥
रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः।शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ॥६-६५-३९॥
बहुव्यामांश्च परिघान् गदाश्च मुसलानि च।तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ॥६-६५-४०॥
अथान्यद्वपुरादाय दारुणं रोमहर्षणम्।निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥६-६५-४१॥
धनुश्शतपरीणाहः स षट्छतसमुच्छ्रितः।रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ॥६-६५-४२॥
सन्निपत्य च रक्षांसि दग्धशैलोपमो महान्।कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥६-६५-४३॥
अद्य वानरमुख्यानां तानि यूथानि भागशः।निर्दहिष्यामि सङ्क्रुद्धः शलभानिव पावकः ॥६-६५-४४॥
नापराध्यन्ति मे कामं वानरा वनचारिणः।जातिरस्माद्विधानां सा पुरोद्यानविभूषणम् ॥६-६५-४५॥
पुररोधस्य मूलं तु राघवः सहलक्ष्मणः।हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ॥६-६५-४६॥
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः।नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥६-६५-४७॥
तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः।बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥६-६५-४८॥
उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः।ससागरवना चैव वसुधा समकम्पत ॥६-६५-४९॥
घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः।मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ॥६-६५-५०॥
निष्पपात च मालेव गृध्रो ऽस्य पथि गच्छतः।प्रास्फुरन्नयनं चास्य सव्यो बाहुश्च कम्पते ॥६-६५-५१॥
निपपात तदा चोल्का ज्वलन्ती भीमनिस्वना।आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखो ऽनिलः ॥६-६५-५२॥
अचिन्तयन् महोत्पातानुत्थितान् रोमहर्षणान्।निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥६-६५-५३॥
स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसन्निभः।ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ॥६-६५-५४॥
ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्।वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥६-६५-५५॥
तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम्।स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद् घनाभः ॥६-६५-५६॥
ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य।पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव सालवृक्षाः ॥६-६५-५७॥
विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनिस्सृतो महात्मा।कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्डवान् युगान्ते ॥६-६५-५८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चषष्टितमः सर्गः ।। ६५ ।। ॥६-६५-५९॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 64
- Next: Yuddha-Kāṇḍa Sarga 66 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷