🪷 युद्धकाण्ड · Sarga 64

Yuddha-Kāṇḍa · The Book of War · Sarga 64 · 58 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.64.1
तदुक्तमतिकायस्य बलिनो बाहुशालिनः।कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥६-६४-१॥
Vālmīki 6.64.2
कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः।अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ॥६-६४-२॥
Vālmīki 6.64.3
न हि राजा न जानीते कुम्भकर्ण नयानयौ।त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ॥६-६४-३॥
Vālmīki 6.64.4
स्थानं वृद्धिं च हानिं च देशकालविभागवित्।आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ॥६-६४-४॥
Vālmīki 6.64.5
यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना।अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ॥६-६४-५॥
Vālmīki 6.64.6
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्।अनुबोद्धुं स्वभावे तान्नहि लक्षणमस्ति ते ॥६-६४-६॥
Vālmīki 6.64.7
कर्म चैव हि सर्वेषां कारणानां प्रयोजकम्।श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥६-६४-७॥
Vālmīki 6.64.8
निश्श्रेयसफलावेव धर्मार्थावितरावपि।अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ॥६-६४-८॥
Vālmīki 6.64.9
एहलौकिकपारत्रं कर्म पुम्भिर्निषेव्यते।कर्माण्यपि तु कल्याणि लभते काममास्थितः ॥६-६४-९॥
Vālmīki 6.64.10
तत्र क्लृप्तमिदं राज्ञा हृदि कार्यं मतं च नः।शत्रौ हि साहसं यत् स्यात् किमिवात्रापनीयताम् ॥६-६४-१०॥
Vālmīki 6.64.11
एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया।तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ॥६-६४-११॥
Vālmīki 6.64.12
येन पूर्वं जनस्थाने बहवो ऽतिबला हताः।राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ॥६-६४-१२॥
Vālmīki 6.64.13
ये पुरा निर्जितास्तेन जनस्थाने महौजसः।राक्षसांस्तान् पुरे सर्वान् भीतानद्यापि पश्यसि ॥६-६४-१३॥
Vālmīki 6.64.14
तं सिंहमिव सङ्क्रुद्धं रामं दशरथात्मजम्।सर्पं सुप्तमिवाबुध्य प्रबोधयितुमिच्छसि ॥६-६४-१४॥
Vālmīki 6.64.15
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्।कस्तं मृत्युमिवासह्यमासादयितुमर्हति ॥६-६४-१५॥
Vālmīki 6.64.16
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने।एकस्य गमनं तत्र नहि मे रोचते भृशम् ॥६-६४-१६॥
Vālmīki 6.64.17
हीनार्थः सुसमृद्धार्थं को रिपुं प्राकृतं यथा।निश्चित्य जीवितत्यागे वशमानेतुमिच्छति ॥६-६४-१७॥
Vālmīki 6.64.18
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम।कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ॥६-६४-१८॥
Vālmīki 6.64.19
एवमुक्त्वा तु संरब्धः कुम्भकर्णं महोदरः।उवाच रक्षसां मध्ये रावणं लोकरावणम् ॥६-६४-१९॥
Vālmīki 6.64.20
लब्ध्वा पुनस्त्वं वैदेहीं किमर्थं सम्प्रजल्पसि।यदीच्छसि तदा सीता वशगा ते भविष्यति ॥६-६४-२०॥
Vālmīki 6.64.21
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः।रुचिरश्चेत् स्वया बुद्ध्या राक्षसेश्वर तं शृणु ॥६-६४-२१॥
Vālmīki 6.64.22
अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः।पञ्च रामवधायैते निर्यान्तीत्यवघोषय ॥६-६४-२२॥
Vālmīki 6.64.23
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः।जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ॥६-६४-२३॥
Vālmīki 6.64.24
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः।ततस्तदभिपत्स्यामो मनसा यत् समीक्षितम् ॥६-६४-२४॥
Vālmīki 6.64.25
वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः।विदार्यं स्वतनुं बाणै रामनामाङ्कितैः शितैः ॥६-६४-२५॥
Vālmīki 6.64.26
भक्षितो राघवो ऽस्माभिर्लक्ष्मणश्चेति वादिनः।तव पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय ॥६-६४-२६॥
Vālmīki 6.64.27
ततो ऽवघोषय पुरे गजस्कन्धेन पार्थिव।हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ॥६-६४-२७॥
Vālmīki 6.64.28
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिन्दम।भोगांश्च परिवारांश्च कामांश्च वसु दापय ॥६-६४-२८॥
Vālmīki 6.64.29
ततो माल्यानि वासांसि वीराणामनुलेपनम्।पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ॥६-६४-२९॥
Vālmīki 6.64.30
ततो ऽस्मिन् बहुलीभूते कौलीने सर्वतो गते।भक्षितः ससुहृद्रामो राक्षसैरिति विश्रुते ॥६-६४-३०॥
Vālmīki 6.64.31
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय।धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ॥६-६४-३१॥
Vālmīki 6.64.32
अनयोपधया राजन् भयशोकानुबन्धया।अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ॥६-६४-३२॥
Vālmīki 6.64.33
रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा।नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥६-६४-३३॥
Vālmīki 6.64.34
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता।त्वय्यधीनं सुखं ज्ञात्वा सर्वथोपगमिष्यति ॥६-६४-३४॥
Vālmīki 6.64.35
एतत् सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः।इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ॥६-६४-३५॥
Vālmīki 6.64.36
अदृष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयन् नराधिपः।यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ॥६-६४-३६॥
Vālmīki 6.64.37
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुष्षष्ठितमः सर्गः ।। ६४ ।। ॥६-६४-३७॥
Vālmīki 6.64.38
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् ।विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ॥६-६४-३८॥
Vālmīki 6.64.39
कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः ।जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ॥६-६४-३९॥
Vālmīki 6.64.40
अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः ।नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ॥६-६४-४०॥
Vālmīki 6.64.41
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप ।न परः प्रेषणीयस्ते युद्धायातुलविक्रम ॥६-६४-४१॥
Vālmīki 6.64.42
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ॥६-६४-४२॥
Vālmīki 6.64.43
यदि शक्रो यदि यमो यदि पावकमारुतौ ।तानहं योधयिष्यामि कुबेरवरुणावपि ॥६-६४-४३॥
Vālmīki 6.64.44
गिरिमात्रशरीरस्य शितशूलधरस्य मे ।नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ॥६-६४-४४॥
Vālmīki 6.64.45
अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ।न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ॥६-६४-४५॥
Vālmīki 6.64.46
नैव शक्त्या न गदया नासिना निशितैः शरैः ।हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ॥६-६४-४६॥
Vālmīki 6.64.47
यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यते ।ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ॥६-६४-४७॥
Vālmīki 6.64.48
चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति ।सो ऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ॥६-६४-४८॥
Vālmīki 6.64.49
मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे ।राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ॥६-६४-४९॥
Vālmīki 6.64.50
हरींश्चापि हनिष्यामि संयुगे समवस्थितान् ।असाधारणमिच्छामि तव दातुं महद्यशः ॥६-६४-५०॥
Vālmīki 6.64.51
यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः ॥६-६४-५१॥
Vālmīki 6.64.52
अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ।आदित्यं पातयिष्यामि सनक्षत्रं महीतले ॥६-६४-५२॥
Vālmīki 6.64.53
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ।पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ॥६-६४-५३॥
Vālmīki 6.64.54
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ।अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ॥६-६४-५४॥
Vālmīki 6.64.55
नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ॥६-६४-५५॥
Vālmīki 6.64.56
वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि ।निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ॥६-६४-५६॥
Vālmīki 6.64.57
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।मया ऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥६-६४-५७॥
Vālmīki 6.64.58
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिषष्टितमः सर्गः ।। ६३ ।। ॥६-६४-५८॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷