🪷 युद्धकाण्ड · Sarga 63
Yuddha-Kāṇḍa · The Book of War · Sarga 63 · 58 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 6.63local sarga route with all Sanskrit ślokasYuddha-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तस्य राक्षसराजस्य निशम्य परिदेवितम् ।कुम्भकर्णो बभाषेदं वचनं प्रजहास च ।। ६.६३.१ ।।
दृष्टो दोषो हि यो ऽस्माभिः पुरा मन्त्रविनिर्णये ।हितेष्वनभिरक्तेन सो ऽयमासादितस्त्वया ।। ६.६३.२ ।।
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ।। ६.६३.३ ।।
प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ।केवलं वीर्यदर्पेण नानुबन्धो विचारितः ।। ६.६३.४ ।।
यः पश्चात् पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।पूर्वं चापरकार्याणि न स वेद नयानयौ ।। ६.६३.५ ।।
देशकालविहीनानि कर्माणि विपरीतवत् ।क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।। ६.६३.६ ।।
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति ।सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ।। ६.६३.७ ।।
यथागमं च यो राजा समयं विचिकीर्षति ।बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति ।। ६.६३.८ ।।
धर्ममर्थं च कामं च सर्वान् वा रक्षसां पते ।भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ।। ६.६३.९ ।।
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ।। ६.६३.१० ।।
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ।। ६.६३.११ ।।
काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह ।निषेवेतात्मवान् लोके न स व्यसनमाप्नुयात् ।। ६.६३.१२ ।।
हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः ।राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीवति ।। ६.६३.१३ ।।
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ।। ६.६३.१४ ।।
अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ।। ६.६३.१५ ।।
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ।। ६.६३.१६ ।।
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ।विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ।। ६.६३.१७ ।।
तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये ।व्यवहारेण जानीयात् सचिवानुपसंहितान् ।। ६.६३.१८ ।।
चपलस्येह कृत्यानि सहसानुप्रधावतः ।छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य स्वमिव द्विजाः ।। ६.६३.१९ ।।
यो हि शत्रुमविज्ञाय नात्मानमभिरक्षति ।अवाप्नोति हि सो ऽनर्थान् स्थानाच्च व्यवरोप्यते ।। ६.६३.२० ।।
यदुक्तमिह ते पूर्वं क्रियतामनुजेन च ।तदेव नो हितं कार्यं यदिच्छसि च तत् कुरु ।। ६.६३.२१ ।।
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमभाषत ।। ६.६३.२२ ।।
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि ।किमेवं वाक्छ्रमं कृत्वा युक्तं विधीयताम् ।। ६.६३.२३ ।।
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ।नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कथाः ।। ६.६३.२४ ।।
अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम् ।गतं तु नानुशोचन्ति गतं तु गतमेव हि ।। ६.६३.२५ ।।
ममापनयजं दोषं विक्रमेण समीकुरु ।यदि खल्वस्ति मे स्नेहो विक्रमं वा ऽवगच्छसि ।यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ।। ६.६३.२६ ।।
स सुहृद् यो विपन्नार्थं दीनमभ्यवपद्यते ।स बन्धुर्यो ऽपनीतेषु साहाय्यायोपकल्पते ।। ६.६३.२७ ।।
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ।रुष्टो ऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ।। ६.६३.२८ ।।
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ।कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ।। ६.६३.२९ ।।
अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते ।रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ।। ६.६३.३० ।।
नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव ।तमहं नाशयिष्यामि यत्कृते परितप्यसे ।। ६.६३.३१ ।।
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ।। ६.६३.३२ ।।
सदृशं यत्तु काले ऽस्मिन् कर्तुं स्निग्धेन बन्धुना ।शत्रूणां कदनं पश्य क्रियमाणं मया रणे ।। ६.६३.३३ ।।
अद्य पश्य महाबाहो मया समरमूर्धनि ।हते रामे सह भ्रात्रा द्रवन्तीं परवाहिनीम् ।। ६.६३.३४ ।।
अद्य रामस्य तद् दृष्ट्वा मया ऽ ऽनीतं रणाच्छिरः ।सुखी भव महाबाहो सीता भवतु दुःखिता ।। ६.६३.३५ ।।
अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम् ।लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ।। ६.६३.३६ ।।
अद्य शोकपरीतानां स्वबन्धुवधकारणात् ।शत्रोर्युधि विनाशेन करोम्यास्रप्रमार्जनम् ।। ६.६३.३७ ।।
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् ।विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ।। ६.६३.३८ ।।
कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः ।जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ।। ६.६३.३९ ।।
अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः ।नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ।। ६.६३.४० ।।
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप ।न परः प्रेषणीयस्ते युद्धायातुलविक्रम ।। ६.६३.४१ ।।
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ।। ६.६३.४२ ।।
यदि शक्रो यदि यमो यदि पावकमारुतौ ।तानहं योधयिष्यामि कुबेरवरुणावपि ।। ६.६३.४३ ।।
गिरिमात्रशरीरस्य शितशूलधरस्य मे ।नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ।। ६.६३.४४ ।।
अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ।न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ।। ६.६३.४५ ।।
नैव शक्त्या न गदया नासिना निशितैः शरैः ।हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ।। ६.६३.४६ ।।
यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यते ।ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ।। ६.६३.४७ ।।
चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति ।सो ऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ।। ६.६३.४८ ।।
मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे ।राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ।। ६.६३.४९ ।।
हरींश्चापि हनिष्यामि संयुगे समवस्थितान् ।असाधारणमिच्छामि तव दातुं महद्यशः ।। ६.६३.५० ।।
यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः ।। ६.६३.५१ ।।
अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ।आदित्यं पातयिष्यामि सनक्षत्रं महीतले ।। ६.६३.५२ ।।
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ।पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ।। ६.६३.५३ ।।
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ।अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ।। ६.६३.५४ ।।
नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ।। ६.६३.५५ ।।
वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि ।निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ।। ६.६३.५६ ।।
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।मया ऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ।। ६.६३.५७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिषष्टितमः सर्गः ।। ६३ ।।
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 62
- Next: Yuddha-Kāṇḍa Sarga 64 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷