🪷 युद्धकाण्ड · Sarga 63
Yuddha-Kāṇḍa · The Book of War · Sarga 63 · 58 ślokas
🪷 Devanāgarī Ślokas
तस्य राक्षसराजस्य निशम्य परिदेवितम् ।कुम्भकर्णो बभाषेदं वचनं प्रजहास च ॥६-६३-१॥
दृष्टो दोषो हि यो ऽस्माभिः पुरा मन्त्रविनिर्णये ।हितेष्वनभिरक्तेन सो ऽयमासादितस्त्वया ॥६-६३-२॥
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥६-६३-३॥
प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ।केवलं वीर्यदर्पेण नानुबन्धो विचारितः ॥६-६३-४॥
यः पश्चात् पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।पूर्वं चापरकार्याणि न स वेद नयानयौ ॥६-६३-५॥
देशकालविहीनानि कर्माणि विपरीतवत् ।क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥६-६३-६॥
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति ।सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ॥६-६३-७॥
यथागमं च यो राजा समयं विचिकीर्षति ।बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति ॥६-६३-८॥
धर्ममर्थं च कामं च सर्वान् वा रक्षसां पते ।भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥६-६३-९॥
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥६-६३-१०॥
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥६-६३-११॥
काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह ।निषेवेतात्मवान् लोके न स व्यसनमाप्नुयात् ॥६-६३-१२॥
हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः ।राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीवति ॥६-६३-१३॥
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥६-६३-१४॥
अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥६-६३-१५॥
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ॥६-६३-१६॥
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ।विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥६-६३-१७॥
तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये ।व्यवहारेण जानीयात् सचिवानुपसंहितान् ॥६-६३-१८॥
चपलस्येह कृत्यानि सहसानुप्रधावतः ।छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य स्वमिव द्विजाः ॥६-६३-१९॥
यो हि शत्रुमविज्ञाय नात्मानमभिरक्षति ।अवाप्नोति हि सो ऽनर्थान् स्थानाच्च व्यवरोप्यते ॥६-६३-२०॥
यदुक्तमिह ते पूर्वं क्रियतामनुजेन च ।तदेव नो हितं कार्यं यदिच्छसि च तत् कुरु ॥६-६३-२१॥
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमभाषत ॥६-६३-२२॥
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि ।किमेवं वाक्छ्रमं कृत्वा युक्तं विधीयताम् ॥६-६३-२३॥
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ।नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कथाः ॥६-६३-२४॥
अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम् ।गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥६-६३-२५॥
ममापनयजं दोषं विक्रमेण समीकुरु ।यदि खल्वस्ति मे स्नेहो विक्रमं वा ऽवगच्छसि ।यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ॥६-६३-२६॥
स सुहृद् यो विपन्नार्थं दीनमभ्यवपद्यते ।स बन्धुर्यो ऽपनीतेषु साहाय्यायोपकल्पते ॥६-६३-२७॥
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ।रुष्टो ऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ॥६-६३-२८॥
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ।कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ॥६-६३-२९॥
अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते ।रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ॥६-६३-३०॥
नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव ।तमहं नाशयिष्यामि यत्कृते परितप्यसे ॥६-६३-३१॥
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ॥६-६३-३२॥
सदृशं यत्तु काले ऽस्मिन् कर्तुं स्निग्धेन बन्धुना ।शत्रूणां कदनं पश्य क्रियमाणं मया रणे ॥६-६३-३३॥
अद्य पश्य महाबाहो मया समरमूर्धनि ।हते रामे सह भ्रात्रा द्रवन्तीं परवाहिनीम् ॥६-६३-३४॥
अद्य रामस्य तद् दृष्ट्वा मया ऽ ऽनीतं रणाच्छिरः ।सुखी भव महाबाहो सीता भवतु दुःखिता ॥६-६३-३५॥
अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम् ।लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ॥६-६३-३६॥
अद्य शोकपरीतानां स्वबन्धुवधकारणात् ।शत्रोर्युधि विनाशेन करोम्यास्रप्रमार्जनम् ॥६-६३-३७॥
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् ।विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ॥६-६३-३८॥
कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः ।जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ॥६-६३-३९॥
अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः ।नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ॥६-६३-४०॥
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप ।न परः प्रेषणीयस्ते युद्धायातुलविक्रम ॥६-६३-४१॥
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ॥६-६३-४२॥
यदि शक्रो यदि यमो यदि पावकमारुतौ ।तानहं योधयिष्यामि कुबेरवरुणावपि ॥६-६३-४३॥
गिरिमात्रशरीरस्य शितशूलधरस्य मे ।नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ॥६-६३-४४॥
अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ।न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ॥६-६३-४५॥
नैव शक्त्या न गदया नासिना निशितैः शरैः ।हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ॥६-६३-४६॥
यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यते ।ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ॥६-६३-४७॥
चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति ।सो ऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ॥६-६३-४८॥
मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे ।राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ॥६-६३-४९॥
हरींश्चापि हनिष्यामि संयुगे समवस्थितान् ।असाधारणमिच्छामि तव दातुं महद्यशः ॥६-६३-५०॥
यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः ॥६-६३-५१॥
अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ।आदित्यं पातयिष्यामि सनक्षत्रं महीतले ॥६-६३-५२॥
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ।पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ॥६-६३-५३॥
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ।अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ॥६-६३-५४॥
नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ॥६-६३-५५॥
वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि ।निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ॥६-६३-५६॥
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।मया ऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥६-६३-५७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिषष्टितमः सर्गः ।। ६३ ।। ॥६-६३-५८॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 62
- Next: Yuddha-Kāṇḍa Sarga 64 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷