🪷 युद्धकाण्ड · Sarga 62
Yuddha-Kāṇḍa · The Book of War · Sarga 62 · 24 ślokas
🪷 Devanāgarī Ślokas
स तु राक्षसशार्दूलो निद्रामदसमाकुलः ।राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥६-६२-१॥
राक्षसानां सहस्रैश्च वृतः परमदुर्जयः ।गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥६-६२-२॥
स हेमजालिविततं भानुभास्वरदर्शनम् ।ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥६-६२-३॥
स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेर्निवेशम् ।ददर्श दूरे ऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ॥६-६२-४॥
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितम् ।कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥६-६२-५॥
सो ऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ।ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥६-६२-६॥
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् ।तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ॥६-६२-७॥
अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः ।भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥६-६२-८॥
उत्पत्य चैनं मुदितो रावणः परिषस्वजे ।स भ्रात्रा सम्परिष्वक्तो यथावच्छाभिनन्दितः ॥६-६२-९॥
कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ।स तदासनमाश्रित्य कुम्भकर्णो महाबलः ।संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ॥६-६२-१०॥
किमर्थमहमादृत्य त्वया राजन् विबोधितः ।शंस कस्माद्भयं ते ऽस्ति को ऽद्य प्रेतो भविष्यति ॥६-६२-११॥
भ्रातरं रावणः कुद्धं कुम्भकर्णमवस्थितम् ।ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ॥६-६२-१२॥
अद्य ते सुमहान् कालः शयानस्य महाबल ।सुखितस्त्वं न जानीषे मम रामकृतं भयम् ॥६-६२-१३॥
एष दाशरथी रामः सुग्रीवसहितो बली ।समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ॥६-६२-१४॥
हन्त पश्यस्व लङ्कायां वनान्युपवनानि च ।सेतुना सुखमागम्य वानरैकार्णवीकृतम् ॥६-६२-१५॥
ये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि ।वानराणां क्षयं युद्धे न पश्यामि कदाचन ॥६-६२-१६॥
न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥६-६२-१७॥
तदेतद्भयमुत्पन्नं त्रायस्वेमां महाबल ।नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ॥६-६२-१८॥
सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् ।त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥६-६२-१९॥
भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ।मयैवं नोक्तपूर्वो हि कच्चिद् भ्रातः परन्तप ॥६-६२-२०॥
त्वय्यस्ति तु मम स्नेहः परा सम्भावना च मे ।दैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ ।त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ॥६-६२-२१॥
तदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम ।न हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥६-६२-२२॥
कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरणबान्धवप्रिय ।स्वतेजसा विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ॥६-६२-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विषष्टितमः सर्गः ।। ६२ ।। ॥६-६२-२४॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 61
- Next: Yuddha-Kāṇḍa Sarga 63 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷