🪷 युद्धकाण्ड · Sarga 61
Yuddha-Kāṇḍa · The Book of War · Sarga 61 · 41 ślokas
🪷 Devanāgarī Ślokas
ततो रामो भहातेजा धनुरादाय वीर्यवान् ।किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥६-६१-१॥
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ।सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् ॥६-६१-२॥
दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥६-६१-३॥
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् ।सविस्मयमिदं रामो विभीषणमुवाच ह ॥६-६१-४॥
को ऽसौ पर्वतसङ्काशः किरीटी हरिलोचनः ।लङ्कायां दृश्यते वीर सविद्युदिव तोयदः ॥६-६१-५॥
पृथिव्याः केतुभूतो ऽसौ महानेको ऽत्र दृश्यते ।यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥६-६१-६॥
आचक्ष्व मे महान् को ऽसौ रक्षो वा यदि वा ऽसुरः ।न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥६-६१-७॥
स पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा ।विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥६-६१-८॥
येन वैवस्वतो युद्धे वासवश्च पराजितः ।सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ।अस्य प्रमाणात् सदृशो राक्षसो ऽन्यो न विद्यते ॥६-६१-९॥
एतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिताशनाश्च ।गन्धर्वविद्याधरकिन्नराश्च सहस्रशो राघव सम्प्रभग्राः ॥६-६१-१०॥
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।हन्तुं न शेकुस्त्रिदशाः कालो ऽयमिति मोहिताः ॥६-६१-११॥
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥६-६१-१२॥
एतेन जातमात्रेण क्षुधार्तेन महात्मना ।भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ॥६-६१-१३॥
तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः ।यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥६-६१-१४॥
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री ।स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥६-६१-१५॥
तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः ।श्रुत्वा ऽतिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ॥६-६१-१६॥
तत्र कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः ।विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ॥६-६१-१७॥
कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः ।ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ॥६-६१-१८॥
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः ।कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ॥६-६१-१९॥
प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ।आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥६-६१-२०॥
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।अचिरेणैव कालेन शून्यो लोको भविष्यति ॥६-६१-२१॥
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥६-६१-२२॥
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।दृष्ट्वा विश्वास्य चैवेदं स्वयम्भूरिदमब्रवीत् ॥६-६१-२३॥
ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः ।तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ॥६-६१-२४॥
ब्रह्मशापाभिभूतो ऽथ निपपाताग्रतः प्रभोः ।ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ॥६-६१-२५॥
विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ।न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ॥६-६१-२६॥
न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ।कालस्तु क्रियतामस्य शयने जागरे तथा ॥६-६१-२७॥
रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ॥६-६१-२८॥
शयति ह्येष षण्मासानेकाहं जागरिष्यति ।एकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः ।व्यात्तास्यो भक्षयेल्लोकान् सक्रुद्ध इव पावकः ॥६-६१-२९॥
सो ऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् ।त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ॥६-६१-३०॥
स एष निर्गतो वीरः शिबिराद्भीमविक्रमः ।वानरान् भृशसङ्क्रुद्धो भक्षयन् परिधावति ॥६-६१-३१॥
कुम्भकर्णं समीक्ष्यैव हरयो ऽद्य प्रविद्रुताः ।कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥६-६१-३२॥
उच्यन्तां वानराः सर्वे यन्त्रमेतत् समुच्छ्रितम् ।इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥६-६१-३३॥
विभीषणवचः श्रुत्वा हेतुमत् सुमुखेरितम् ।उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥६-६१-३४॥
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् ॥६-६१-३५॥
शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहर ।तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥६-६१-३६॥
राघवेण समादिष्टो नीलो हरिचमूपतिः ।शशास वानरानीकं यथावत् कपिकुञ्जरः ॥६-६१-३७॥
ततो गवाक्षः शरभो हनुमानङ्गदस्तथा ।शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥६-६१-३८॥
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः ।पादपैरर्दयन् वीरा वानराः परवाहिनीम् ॥६-६१-३९॥
ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतदीप्तहस्तम् ।गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥६-६१-४०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकषष्टितमः सर्गः ।। ६१ ।। ॥६-६१-४१॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 60
- Next: Yuddha-Kāṇḍa Sarga 62 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷