🪷 युद्धकाण्ड · Sarga 60

Yuddha-Kāṇḍa · The Book of War · Sarga 60 · 99 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.60.1
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः ।भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ।। ६.६०.१ ।।।। ॥६-६०-१॥
Vālmīki 6.60.2
मातङ्ग इव सिंहेन गरुडेनेव पन्नगः ।अभिभूतो ऽभवद्राजा राघवेण महात्मना ।। ६.६०.२ ।।।। ॥६-६०-२॥
Vālmīki 6.60.3
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् ।स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः ।। ६.६०.३ ।।।। ॥६-६०-३॥
Vālmīki 6.60.4
स काञ्चनमयं दिव्यमाश्रित्य परमासनम् ।विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ।। ६.६०.४ ।।।। ॥६-६०-४॥
Vālmīki 6.60.5
सर्वं तत् खलु मे मोघं यत्तप्तं परमं तपः ।यत् समानो महेन्द्रेण मानुषेणास्मि निर्जितः ।। ६.६०.५ ।।।। ॥६-६०-५॥
Vālmīki 6.60.6
इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् ।मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ।। ६.६०.६ ।।।। ॥६-६०-६॥
Vālmīki 6.60.7
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ।। ६.६०.७ ।।।। ॥६-६०-७॥
Vālmīki 6.60.8
विदितं मानुषं मन्ये रामं दशरथात्मजम् ।इक्ष्वाकुकुलनाथेन अनरण्येन यत्पुरा ।। ६.६०.८ ।।।। ॥६-६०-८॥
Vālmīki 6.60.9
उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम ।यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ।निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते ।। ६.६०.९ ।।।। ॥६-६०-९॥
Vālmīki 6.60.10
शप्तो ऽहं वेदवत्या च यदा सा धर्षिता पुरा ।सेयं सीता महाभागा जाता जनकनन्दिनी ।। ६.६०.१० ।।।। ॥६-६०-१०॥
Vālmīki 6.60.11
उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ।यथोक्तास्तपसा प्राप्तं न मिथ्या ऋषिभाषितम् ।। ६.६०.११ ।।।। ॥६-६०-११॥
Vālmīki 6.60.12
एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ ।राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्द्धसु ।। ६.६०.१२ ।।।। ॥६-६०-१२॥
Vālmīki 6.60.13
स चाप्रतिमगाम्भीरो देवदानवदर्पहा ।ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ।। ६.६०.१३ ।।।। ॥६-६०-१३॥
Vālmīki 6.60.14
स पराजितमात्मानं प्रहस्तं च निषूदितम् ।ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ।। ६.६०.१४ ।।।। ॥६-६०-१४॥
Vālmīki 6.60.15
द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम् ।निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ।। ६.६०.१५ ।।।। ॥६-६०-१५॥
Vālmīki 6.60.16
सुखं स्वपिति निश्चिन्तः कालोपहतचेतनः ।नव षट् सप्त चाष्टौ च मासान् स्वपिति राक्षसः ।। ६.६०.१६ ।।।। ॥६-६०-१६॥
Vālmīki 6.60.17
मन्त्रयित्वा प्रसुप्तो ऽयमितस्तु नवमे ऽहनि ।तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् ।। ६.६०.१७ ।।।। ॥६-६०-१७॥
Vālmīki 6.60.18
स तु सङ्ख्ये महाबाहुः ककुदः सर्वरक्षसाम् ।वानरान् राजपुत्रौ च क्षिप्रमेव वधिष्यति ।। ६.६०.१८ ।।।। ॥६-६०-१८॥
Vālmīki 6.60.19
एष केतुः परः सङ्ख्ये मुख्यो वै सर्वरक्षसाम् ।कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ।। ६.६०.१९ ।।।। ॥६-६०-१९॥
Vālmīki 6.60.20
रामेण हि निरस्तस्य सङ्ग्रामे ऽस्मिन् सुदारुणे ।भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ।। ६.६०.२० ।।।। ॥६-६०-२०॥
Vālmīki 6.60.21
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ।ईद्दशे व्यसने प्राप्ते यो न साह्याय कल्पते ।। ६.६०.२१ ।।।। ॥६-६०-२१॥
Vālmīki 6.60.22
ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ।जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ।। ६.६०.२२ ।।।। ॥६-६०-२२॥
Vālmīki 6.60.23
ते रावणसमादिष्टा मांसशोणितभोजनाः ।गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः ।। ६.६०.२३ ।।।। ॥६-६०-२३॥
Vālmīki 6.60.24
तां प्रविश्य महाद्वारां सर्वतो योजनायताम् ।कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् ।। ६.६०.२४ ।।।। ॥६-६०-२४॥
Vālmīki 6.60.25
कुम्भकर्णस्य निश्वासादवधूता महाबलाः ।प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम् ।। ६.६०.२५ ।।।। ॥६-६०-२५॥
Vālmīki 6.60.26
तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् ।ददृशुर्नैर्ऋतव्याघ्रं शयानं भीमदर्शनम् ।। ६.६०.२६ ।।।। ॥६-६०-२६॥
Vālmīki 6.60.27
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ।कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् ।। ६.६०.२७ ।।।। ॥६-६०-२७॥
Vālmīki 6.60.28
ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् ।त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ।। ६.६०.२८ ।।।। ॥६-६०-२८॥
Vālmīki 6.60.29
भीमनासापुटं तं तु पातालविपुलाननम् ।शय्यायां न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ।। ६.६०.२९ ।।।। ॥६-६०-२९॥
Vālmīki 6.60.30
काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम् ।ददृशुर्नैर्ऋतव्याघ्रं कुम्भकर्णं महाबलम् ।। ६.६०.३० ।।।। ॥६-६०-३०॥
Vālmīki 6.60.31
ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा ।मांसानां मेरुसङ्काशं राशिं परमतर्पणम् ।। ६.६०.३१ ।।।। ॥६-६०-३१॥
Vālmīki 6.60.32
मृगाणां महिषाणां च वराहाणां च सञ्चयान् ।चकुर्नैर्ऋतशार्दूला राशिमन्नस्य चाद्भुतम् ।। ६.६०.३२ ।।।। ॥६-६०-३२॥
Vālmīki 6.60.33
ततः शोणितकुम्भांश्च मद्यानि विविधानि च ।। ६.६०.३३ ।।।। ॥६-६०-३३॥
Vālmīki 6.60.34
पुरस्तात् कुम्भकर्णस्य चकुस्त्रिदशशत्रवः ।लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् ।। ६.६०.३४ ।।।। ॥६-६०-३४॥
Vālmīki 6.60.35
दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः ।धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् ।। ६.६०.३५ ।।।। ॥६-६०-३५॥
Vālmīki 6.60.36
जलदा इव चोन्नेदुर्यातुधानास्ततस्ततः ।शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् ।तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ।। ६.६०.३६ ।।।। ॥६-६०-३६॥
Vālmīki 6.60.37
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः ।कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ।। ६.६०.३७ ।।।। ॥६-६०-३७॥
Vālmīki 6.60.38
सशङ्खभेरीपणवप्रणादमास्फोटितक्ष्वेलितसिंहनादम् ।दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः ।। ६.६०.३८ ।।।। ॥६-६०-३८॥
Vālmīki 6.60.39
यदा भृशार्तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः ।ततो मुसुण्ठीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ।। ६.६०.३९ ।।।। ॥६-६०-३९॥
Vālmīki 6.60.40
तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च ।सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ।। ६.६०.४० ।।।। ॥६-६०-४०॥
Vālmīki 6.60.41
तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः ।राक्षसा बलवन्तो ऽपि स्थातुं नाशक्नुवन् पुरः ।। ६.६०.४१ ।।।। ॥६-६०-४१॥
Vālmīki 6.60.42
ततः परिहिता गाढं राक्षसा भीमविक्रमाः ।। ६.६०.४२ ।।।। ॥६-६०-४२॥
Vālmīki 6.60.43
मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तदा ।दशराक्षससाहस्रा युगपत् पर्यवादयन् ।। ६.६०.४३ ।।।। ॥६-६०-४३॥
Vālmīki 6.60.44
नीलाञ्जनचयाकारास्ते तु तं प्रत्यबोधयन् ।अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः ।। ६.६०.४४ ।।।। ॥६-६०-४४॥
Vālmīki 6.60.45
यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ।ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् ।। ६.६०.४५ ।।।। ॥६-६०-४५॥
Vālmīki 6.60.46
अश्वानुष्ट्रान् खरान्नागान् जघ्नुर्दण्डकशाङ्कुशैः ।भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ।। ६.६०.४६ ।।।। ॥६-६०-४६॥
Vālmīki 6.60.47
निजघ्नुश्चास्य गात्राणि महाकाष्ठकटङ्करैः ।मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः ।। ६.६०.४७ ।।।। ॥६-६०-४७॥
Vālmīki 6.60.48
तेन शब्देन महता लङ्का समभिपूरिता ।सपर्वतवना सर्वा सो ऽपि नैव प्रबुध्यते ।। ६.६०.४८ ।।।। ॥६-६०-४८॥
Vālmīki 6.60.49
ततः सहस्रं भेरीणां युगपत् समहन्यत ।मृष्टकाञ्चनकोणानामासक्तानां समन्ततः ।। ६.६०.४९ ।।।। ॥६-६०-४९॥
Vālmīki 6.60.50
एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते ।शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ।महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ।। ६.६०.५० ।।।। ॥६-६०-५०॥
Vālmīki 6.60.51
तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ।। ६.६०.५१ ।।।। ॥६-६०-५१॥
Vālmīki 6.60.52
स्ततः क्रुद्धा निशाचराः ।अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् ।केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ।। ६.६०.५२ ।।।। ॥६-६०-५२॥
Vālmīki 6.60.53
उदकुम्भशतान्यन्ये समसिञ्चन्त कर्णयोः ।न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ।। ६.६०.५३ ।।।। ॥६-६०-५३॥
Vālmīki 6.60.54
अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ।मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् ।। ६.६०.५४ ।।।। ॥६-६०-५४॥
Vālmīki 6.60.55
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः ।वध्यमानो महाकायो न प्राबुध्यत राक्षसः ।। ६.६०.५५ ।।।। ॥६-६०-५५॥
Vālmīki 6.60.56
वारणानां सहस्रं तु शरीरे ऽस्य प्रधावितम् ।कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ।। ६.६०.५६ ।।।। ॥६-६०-५६॥
Vālmīki 6.60.57
स पात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान् विपुलान् प्रहारान् ।निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ।। ६.६०.५७ ।।।। ॥६-६०-५७॥
Vālmīki 6.60.58
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ ।विवृत्य वक्त्रं वडवामुखाभं निशाचरो ऽसौ विकृतं जजृम्भे ।। ६.६०.५८ ।।।। ॥६-६०-५८॥
Vālmīki 6.60.59
तस्य जाजृम्भमाणस्य वक्त्रं पातालसन्निभम् ।ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ।। ६.६०.५९ ।।।। ॥६-६०-५९॥
Vālmīki 6.60.60
स जृम्भमाणो ऽतिबलः प्रतिबुद्धो निशाचरः ।निःश्वासश्चास्य सञ्जज्ञे पर्वतादिव मारुतः ।। ६.६०.६० ।।।। ॥६-६०-६०॥
Vālmīki 6.60.61
रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ ।तपान्ते सबलाकस्य मेघस्येव विवर्षतः ।। ६.६०.६१ ।।।। ॥६-६०-६१॥
Vālmīki 6.60.62
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ।ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ।। ६.६०.६२ ।।।। ॥६-६०-६२॥
Vālmīki 6.60.63
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् ।वराहान् महिषांश्चैव स बभक्ष महाबलः ।। ६.६०.६३ ।।।। ॥६-६०-६३॥
Vālmīki 6.60.64
अदन् बुभुक्षितो मांसं शोणितं तृषितः पिबन् ।मेदःकुम्भांश्च मद्यं च पपौ शक्ररिपुस्तदा ।। ६.६०.६४ ।।।। ॥६-६०-६४॥
Vālmīki 6.60.65
ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः ।शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ।। ६.६०.६५ ।।।। ॥६-६०-६५॥
Vālmīki 6.60.66
निद्राविश ऽदनेत्रस्तु कलुषीकृतलोचनः ।चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान् ।। ६.६०.६६ ।।।। ॥६-६०-६६॥
Vālmīki 6.60.67
स सर्वान् सान्त्वयामास नैर्ऋतान्नैर्ऋतर्षभः ।बोधनाद् विस्मितश्चापि राक्षसानिदमब्रवीत् ।। ६.६०.६७ ।।।। ॥६-६०-६७॥
Vālmīki 6.60.68
किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः ।कच्चित् सुकुशलं राज्ञो भयवानेष वा न किम् ।। ६.६०.६८ ।।।। ॥६-६०-६८॥
Vālmīki 6.60.69
अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् ।यदर्थमेवं त्वरितैर्भवद्भिः प्रतिबोधितः ।। ६.६०.६९ ।।।। ॥६-६०-६९॥
Vālmīki 6.60.70
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् ।पातयिष्ये महेन्द्रं वा शातयिष्ये तथा ऽनलम् ।। ६.६०.७० ।।।। ॥६-६०-७०॥
Vālmīki 6.60.71
न ह्यल्पकारणे सुप्तं बोधयिष्यति मां गुरुः ।तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ।। ६.६०.७१ ।।।। ॥६-६०-७१॥
Vālmīki 6.60.72
एवं ब्रुवाणं संरब्धं कुम्भकर्णं महाबलम् ।यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह ।। ६.६०.७२ ।।।। ॥६-६०-७२॥
Vālmīki 6.60.73
न नो दैवकृतं किञ्चिद्भयमस्ति कदाचन ।मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते ।। ६.६०.७३ ।।।। ॥६-६०-७३॥
Vālmīki 6.60.74
न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् ।यादृशं मानुषं राजन् भयमस्मानुपस्थितम् ।। ६.६०.७४ ।।।। ॥६-६०-७४॥
Vālmīki 6.60.75
वानरैः पर्वताकारैर्लङ्केयं परिवारिता ।सीताहरणसन्तप्ताद्रामान्नस्तुमुलं भयम् ।। ६.६०.७५ ।।।। ॥६-६०-७५॥
Vālmīki 6.60.76
एकेन वानरेणेयं पूर्वं दग्धा महापुरी ।कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ।। ६.६०.७६ ।।।। ॥६-६०-७६॥
Vālmīki 6.60.77
स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः ।मृतेति संयुगे मुक्तो रामेणादित्यतेजसा ।। ६.६०.७७ ।।।। ॥६-६०-७७॥
Vālmīki 6.60.78
यन्न दैवैः कृतो राजा नापि दैत्यैर्न दानवैः ।कृतः स इह रामेण विमुक्तः प्राणसंशयात् ।। ६.६०.७८ ।।।। ॥६-६०-७८॥
Vālmīki 6.60.79
स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् ।कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ।। ६.६०.७९ ।।।। ॥६-६०-७९॥
Vālmīki 6.60.80
सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् ।राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् ।। ६.६०.८० ।।।। ॥६-६०-८०॥
Vālmīki 6.60.81
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः ।रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ।। ६.६०.८१ ।।।। ॥६-६०-८१॥
Vālmīki 6.60.82
तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् ।महोदरो नैर्ऋतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ।। ६.६०.८२ ।।।। ॥६-६०-८२॥
Vālmīki 6.60.83
रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च ।पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि ।। ६.६०.८३ ।।।। ॥६-६०-८३॥
Vālmīki 6.60.84
महोदरवचः श्रुत्वा राक्षसैः परिवारितः ।कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ।। ६.६०.८४ ।।।। ॥६-६०-८४॥
Vālmīki 6.60.85
तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् ।राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ।। ६.६०.८५ ।।।। ॥६-६०-८५॥
Vālmīki 6.60.86
ततो गत्वा दशग्रीवमासीनं परमासने ।ऊचुर्बद्धाञ्जलिपुटाः सर्वे एव निशाचराः ।। ६.६०.८६ ।।।। ॥६-६०-८६॥
Vālmīki 6.60.87
प्रबुद्धः कुम्भकर्णो ऽयं भ्राता ते राक्षसर्षभ ।कथं तत्रैव निर्यातु द्रक्ष्यस्येनमिहागतम् ।। ६.६०.८७ ।।।। ॥६-६०-८७॥
Vālmīki 6.60.88
रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् ।द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ।। ६.६०.८८ ।।।। ॥६-६०-८८॥
Vālmīki 6.60.89
तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः ।कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ।। ६.६०.८९ ।।।। ॥६-६०-८९॥
Vālmīki 6.60.90
द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः ।गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय ।। ६.६०.९० ।।।। ॥६-६०-९०॥
Vālmīki 6.60.91
कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् ।तथेत्युक्त्वा महाबाहुः शयनादुत्पपात ह ।। ६.६०.९१ ।।।। ॥६-६०-९१॥
Vālmīki 6.60.92
प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः ।पिपासुस्त्वरयामास पानं बलसमीरणम् ।। ६.६०.९२ ।।।। ॥६-६०-९२॥
Vālmīki 6.60.93
ततस्ते त्वरितास्तस्य राक्षसा रावणाज्ञया ।मद्यकुम्भांश्च विविधान् क्षिप्रमेवोपहारयन् ।। ६.६०.९३ ।।।। ॥६-६०-९३॥
Vālmīki 6.60.94
पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे ।ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः ।कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ।। ६.६०.९४ ।।।। ॥६-६०-९४॥
Vālmīki 6.60.95
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितः ।कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।। ६.६०.९५ ।।।। ॥६-६०-९५॥
Vālmīki 6.60.96
स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः ।जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः ।। ६.६०.९६ ।।।। ॥६-६०-९६॥
Vālmīki 6.60.97
तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिः स्थिताः ।दृष्ट्वा ऽप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते हरियूथपालाः ।। ६.६०.९७ ।।।। ॥६-६०-९७॥
Vālmīki 6.60.98
केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्व्यथिताः पतन्ति ।केचिद्दिशः स्म व्यथिताः प्रयान्ति केचिद्भयार्ता भुवि शेरते स्म ।। ६.६०.९८ ।।।। ॥६-६०-९८॥
Vālmīki 6.60.99
तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा ।वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे ततस्ततः ॥६-६०-९९॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷