🪷 युद्धकाण्ड · Sarga 59
Yuddha-Kāṇḍa · The Book of War · Sarga 59 · 146 ślokas
🪷 Devanāgarī Ślokas
तस्मिन् हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे ।भीमायुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ।। ६.५९.१ ।।।। ॥६-५९-१॥
गत्वा ऽथ रक्षोधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् ।तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ।। ६.५९.२ ।।।। ॥६-५९-२॥
सङ्ख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः ।उवाच तान्नैर्ऋतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान् ।। ६.५९.३ ।।।। ॥६-५९-३॥
नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ।सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ।। ६.५९.४ ।।।। ॥६-५९-४॥
सो ऽहं रिपुविनाशाय विजयायाविचारयन् ।स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ।। ६.५९.५ ।।।। ॥६-५९-५॥
अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् ।निर्दहिष्यामि वाणौघैर्वनं दीप्तैरिवाग्निभिः ।। ६.५९.६ ।।।। ॥६-५९-६॥
स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम् ।प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ।। ६.५९.७ ।।।। ॥६-५९-७॥
स शङ्खभैरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः ।पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ।। ६.५९.८ ।।।। ॥६-५९-८॥
स शैलजीमूतनिकाशरूपैर्मांसादनैः पावकदीप्तनेत्रेः ।बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवासुरेशः ।। ६.५९.९ ।।।। ॥६-५९-९॥
ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।महार्णवाभ्रस्तनितं ददर्शं समुद्यतं पादपशैलहस्तम् ।। ६.५९.१० ।।।। ॥६-५९-१०॥
तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः ।विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ।। ६.५९.११ ।।।। ॥६-५९-११॥
नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम् ।सैन्यं गजेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ।। ६.५९.१२ ।।।। ॥६-५९-१२॥
ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः ।शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ।। ६.५९.१३ ।।।। ॥६-५९-१३॥
यो ऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः ।प्रकम्पयन्नागशिरो ऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ।। ६.५९.१४ ।।।। ॥६-५९-१४॥
यो ऽसौ रथस्थो मृगराजकेतुर्धून्वन् धनुः शक्रधनुःप्रकाशम् ।करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ।। ६.५९.१५ ।।।। ॥६-५९-१५॥
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थो ऽतिरथो ऽतिवीरः ।विस्फारयंश्चापमतुल्यमानं नाम्ना ऽतिकायो ऽतिविवृद्धकायः ।। ६.५९.१६ ।।।। ॥६-५९-१६॥
यो ऽसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ।गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ।। ६.५९.१७ ।।।। ॥६-५९-१७॥
यो ऽसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् ।प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषो ऽशनितुल्यवेगः ।। ६.५९.१८ ।।।। ॥६-५९-१८॥
यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किङ्करवज्रवेगम् ।वृषेन्द्रमास्थाय गिरिप्रकाशमायाति यो ऽसौ त्रिशिरा यशस्वी ।। ६.५९.१९ ।।।। ॥६-५९-१९॥
असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः ।समाहितः पन्नगराजकेतुर्विस्फारयन् भाति धनुर्विधून्वन् ।। ६.५९.२० ।।।। ॥६-५९-२०॥
यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य ।आयाति रक्षोबलकेतुभूतस्त्वसौ निकुम्भो ऽद्भुतघोरकर्मा ।। ६.५९.२१ ।।।। ॥६-५९-२१॥
यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् ।रथं समास्थाय विभात्युदग्रो नरान्तको ऽसौ नगशृङ्गयोधी ।। ६.५९.२२ ।।।। ॥६-५९-२२॥
यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः ।भूतैर्वृतो भाति विवृत्तनेत्रैः सो ऽसौ सुराणामपि दर्पहन्ता ।। ६.५९.२३ ।।।। ॥६-५९-२३॥
यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं सूक्ष्मशलाकमग्र्यम् ।अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ।। ६.५९.२४ ।।।। ॥६-५९-२४॥
असौ किरीटी चलुकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः ।महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ।। ६.५९.२५ ।।।। ॥६-५९-२५॥
प्रत्युवाच ततो रामो विभीषणमरिन्दमम् ।अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ।। ६.५९.२६ ।।।। ॥६-५९-२६॥
आदित्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः ।सुव्यक्तं लक्षये ह्यस्य रूपं तेजस्समावृतम् ।। ६.५९.२७ ।।।। ॥६-५९-२७॥
देवदानववीराणां वपुर्नैवंविधं भवेत् ।यादृशं राक्षसेन्द्रस्य वपुरेतत् प्रकाशते ।। ६.५९.२८ ।।।। ॥६-५९-२८॥
सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः ।सर्वे दीप्तायुधधरा योधाश्चास्य महौजसः ।। ६.५९.२९ ।।।। ॥६-५९-२९॥
भाति राक्षसराजो ऽसौ प्रदीप्तैर्भीमविक्रमैः ।भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ।। ६.५९.३० ।।।। ॥६-५९-३०॥
दिष्ट्या ऽयमद्य पापात्मा मम दृष्टिपथं गतः ।अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ।। ६.५९.३१ ।।।। ॥६-५९-३१॥
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ।लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ।। ६.५९.३२ ।।।। ॥६-५९-३२॥
ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि ।द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ।। ६.५९.३३ ।।।। ॥६-५९-३३॥
इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा ।शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः ।। ६.५९.३४ ।।।। ॥६-५९-३४॥
विसर्जयित्वा सहितांस्ततस्तान् गतेषु रक्षस्सु यथानियोगम् ।व्यदारयद्वानरसागरौघं महाझषः पूर्णमिवार्णवौघम् ।। ६.५९.३५ ।।।। ॥६-५९-३५॥
तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् ।महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः ।। ६.५९.३६ ।।।। ॥६-५९-३६॥
तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय ।तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ।। ६.५९.३७ ।।।। ॥६-५९-३७॥
तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विकीर्णे पतिते पृथिव्याम् ।महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः ।। ६.५९.३८ ।।।। ॥६-५९-३८॥
स तं गृहीत्वा ऽनिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् ।बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ।। ६.५९.३९ ।।।। ॥६-५९-३९॥
स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः ।सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौञ्चमिवोग्रशक्तिः ।। ६.५९.४० ।।।। ॥६-५९-४०॥
स सायकार्तो विपरीतचेताः कूजन् पृथिव्यां निपपात वीरः ।तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ।। ६.५९.४१ ।।।। ॥६-५९-४१॥
ततो गवाक्षो गवयः सुदंष्ट्रस्तथर्षभो ज्योतिमुखो नभश्च ।शैलान् समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ।। ६.५९.४२ ।।।। ॥६-५९-४२॥
तेषां प्रहारान् स चकार मोघान् रक्षोधिपो बाणगणैः शिताग्रैः ।तान् वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ।। ६.५९.४३ ।।।। ॥६-५९-४३॥
ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना विपेतुर्भुवि भीमकायाः ।ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ।। ६.५९.४४ ।।।। ॥६-५९-४४॥
ते वध्यमानाः पतिताः प्रवीरा नानद्यमाना भयशल्यविद्धाः ।शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ।। ६.५९.४५ ।।।। ॥६-५९-४५॥
ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम ।तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ।। ६.५९.४६ ।।।। ॥६-५९-४६॥
काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः ।विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ।। ६.५९.४७ ।।।। ॥६-५९-४७॥
तमब्रवीन्महतेजा रामः सत्यपराक्रमः ।। ६.५९.४८ ।।।। ॥६-५९-४८॥
गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ।रावणो हि महावीर्यो रणे ऽद्भुतपराक्रमः ।त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः ।। ६.५९.४९ ।।।। ॥६-५९-४९॥
तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय ।चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः ।। ६.५९.५० ।।।। ॥६-५९-५०॥
राघवस्य वचः श्रुत्वा परिष्वज्याभिपूज्य च ।अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ।। ६.५९.५१ ।।।। ॥६-५९-५१॥
स रावणं वारणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् ।प्रच्छादयन्तं शरवृष्टिजालैस्तान् वानरान् भिन्नविकीर्णदेहान् ।। ६.५९.५२ ।।।। ॥६-५९-५२॥
तमालोक्य महातेजा हनुमान् मारुतात्मजः ।निवार्य शरजालानि प्रदुर्द्राव स रावणम् ।। ६.५९.५३ ।।।। ॥६-५९-५३॥
रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् ।त्रासयन् रावणं धीमान् हनुमान् वाक्यमब्रवीत् ।। ६.५९.५४ ।।।। ॥६-५९-५४॥
देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः ।अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ।। ६.५९.५५ ।।।। ॥६-५९-५५॥
एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ।विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ।। ६.५९.५६ ।।।। ॥६-५९-५६॥
श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः ।संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ।। ६.५९.५७ ।।।। ॥६-५९-५७॥
क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि ।ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ।। ६.५९.५८ ।।।। ॥६-५९-५८॥
रावणस्य वचः श्रुत्वा वायुसूनुर्वचो ऽब्रवीत् ।प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ।। ६.५९.५९ ।।।। ॥६-५९-५९॥
एवमुक्तो महातेजा रावणो राक्षसेश्वरः ।आजघानानिलसुतं तलेनोरसि वीर्यवान् ।। ६.५९.६० ।।।। ॥६-५९-६०॥
स तलाभिहतस्तेन चचाल च मुहुर्मुहुः ।स्थित्वा मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ।आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ।। ६.५९.६१ ।।।। ॥६-५९-६१॥
ततस्तलेनाभिहतो वानरेण महात्मना ।दशग्रीवः समाधूतो यथा भूमिचले ऽचलः ।। ६.५९.६२ ।।तिः ।।। ॥६-५९-६२॥
सङ्ग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ।ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः ।। ६.५९.६३ ।।।। ॥६-५९-६३॥
अथाश्वास्य महातेजा रावणो वाक्यमब्रवीत् ।। ६.५९.६४ ।।।। ॥६-५९-६४॥
साधु वानर वीर्येण श्लाघनीयो ऽसि मे रिपुः ।रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ।। ६.५९.६५ ।।।। ॥६-५९-६५॥
धिगस्तु मम वीर्येण यस्त्वं जीवसि रावण ।सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ।ततस्त्वां मामिका मुष्टिर्नयिष्यति यमक्षयम् ।। ६.५९.६६ ।।।। ॥६-५९-६६॥
ततो मारुतिवाक्येन क्रोदस्तस्य तदा ऽज्वलत् ।। ६.५९.६७ ।।दानीं दुर्बुद्धे किं विकत्थसे ।संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् ।पातयामास वेगेन वानरोरसि वीर्यवान् ।। ६.५९.६८ ।।।। ॥६-५९-६७॥
हनुमान् वक्षसि व्यूढे सञ्चचाल पुनःपुनः ।। ६.५९.६९ ।।।। ॥६-५९-६८॥
विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् ।रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ।। ६.५९.७० ।।।। ॥६-५९-६९॥
राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् ।पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः ।शरैरादीपयामास नीलं हरिचमूपतिम् ।। ६.५९.७१ ।।।। ॥६-५९-७०॥
स शरौघसमायस्तो नीलः कपिचमूपतिः ।करेणैकेन शेलाग्रं रक्षोधिपतये ऽसृजत् ।। ६.५९.७२ ।।।। ॥६-५९-७१॥
हनुमानपि तेजस्वी समाश्वस्तो महामनाः ।विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ।। ६.५९.७३ ।।।। ॥६-५९-७२॥
नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् ।अन्येन युद्ध्यमानस्य न युक्तमभिधावनम् ।। ६.५९.७४ ।।।। ॥६-५९-७३॥
रावणो ऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः ।आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ।। ६.५९.७५ ।।।। ॥६-५९-७४॥
तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः ।कालाग्निरिव जज्वाल क्रोधोन परवीरहा ।। ६.५९.७६ ।।।। ॥६-५९-७५॥
सो ऽश्वकर्णान् धवान् सालांश्चूतांश्चापि सुपुष्पितान् ।अन्यांश्च विविधान् वृक्षान्नीलश्चिक्षेप संयुगे ।। ६.५९.७७ ।।।। ॥६-५९-७६॥
स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः ।अभ्यवर्षत् सुघोरेण शरवर्षेण पावकिम् ।। ६.५९.७८ ।।।। ॥६-५९-७७॥
अभिवृष्टः शरौघेण मेघेनेव महाचलः ।ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ।। ६.५९.७९ ।।।। ॥६-५९-७८॥
पावकात्मजमालोक्य ध्वजाग्रे समुपस्थितम् ।जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ।। ६.५९.८० ।।।। ॥६-५९-७९॥
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् ।लक्ष्मणो ऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ।। ६.५९.८१ ।।।। ॥६-५९-८०॥
रावणो ऽपि महातेजाः कपिलाघवविस्मितः ।अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ।। ६.५९.८२ ।।।। ॥६-५९-८१॥
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवङ्गमाः ।नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ।। ६.५९.८३ ।।।। ॥६-५९-८२॥
वानराणां च नादेन संरब्धो रावणस्तदा ।सम्भ्रमाविष्टहृदयो न किञ्चित् प्रत्यपद्यत ।। ६.५९.८४ ।।।। ॥६-५९-८३॥
आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ।ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ।ततो ऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ।। ६.५९.८५ ।।।। ॥६-५९-८४॥
कपे लाघवयुक्तो ऽसि मायया परया ऽनया ।जीवितं खलु रक्षस्व यदि शक्तो ऽसि वानर ।। ६.५९.८६ ।।।। ॥६-५९-८५॥
तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः ।। ६.५९.८७ ।।।। ॥६-५९-८६॥
तथापि त्वां मया युक्तः सायको ऽस्त्रप्रयोजितः ।जीवतं परिरक्षन्तं जीविताद् भ्रंशयिष्यति ।। ६.५९.८८ ।।।। ॥६-५९-८७॥
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः ।सन्धाय बाणमस्त्रेण चमूपतिमताडयत् ।। ६.५९.८९ ।।।। ॥६-५९-८८॥
सो ऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः ।निर्दह्यमानः सहसा निपपात महीतले ।। ६.५९.९० ।।।। ॥६-५९-८९॥
पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा ।जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ।। ६.५९.९१ ।।।। ॥६-५९-९०॥
विसञ्ज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः ।रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ।। ६.५९.९२ ।।।। ॥६-५९-९१॥
आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन् ।धनुर्विस्फारयामास कम्पयन्निव मेदिनीम् ।। ६.५९.९३ ।।।। ॥६-५९-९२॥
तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् ।अभ्येहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हः ।। ६.५९.९४ ।।।। ॥६-५९-९३॥
स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा ।आसाद्य सौमित्रिमवस्थितं तं कोपान्वितो वाक्यमुवाच रक्षः ।। ६.५९.९५ ।।।। ॥६-५९-९४॥
दिष्ट्या ऽसि मे राघव दृष्टिमार्गं प्राप्तो ऽन्तगामी विपरीतबुद्धिः ।अस्मिन् क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ।। ६.५९.९६ ।।।। ॥६-५९-९५॥
तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् ।राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ।। ६.५९.९७ ।।।। ॥६-५९-९६॥
जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च ।अवस्थितो ऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ।। ६.५९.९८ ।।।। ॥६-५९-९७॥
स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान् सुपुङ्खान् ।तान् लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः ।। ६.५९.९९ ।।।। ॥६-५९-९८॥
तान् प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान् ।लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान् पृषत्कान् ।। ६.५९.१०० ।।।। ॥६-५९-९९॥
स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम् ।क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ।। ६.५९.१०१ ।।।। ॥६-५९-१००॥
स बाणजालान्यथ तानि तानि मोघानि पश्यं स्त्रिदशारिराजः ।विसिष्मिये लक्ष्मणलाघवेन पुनश्च बाणान्निशितान् मुमोच ।। ६.५९.१०२ ।।।। ॥६-५९-१०१॥
स लक्ष्मणश्चाशु शरान् शिताग्रान् महेन्द्रवज्राशनितुल्यवेगान् ।सन्धाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोधिपतेर्वधाय ।। ६.५९.१०३ ।।।। ॥६-५९-१०२॥
स तान् प्रचिच्छेद हि राक्षसेन्द्रश्छित्त्वा च ताँल्लक्ष्मणमाजघान ।शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ।। ६.५९.१०४ ।।।। ॥६-५९-१०३॥
स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य ।पुनश्च सञ्ज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ।। ६.५९.१०५ ।।।। ॥६-५९-१०४॥
निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रः ।स सायकार्तो विचचाल राजा कृच्छ्राच्च सञ्ज्ञां पुनराससाद ।। ६.५९.१०६ ।।।। ॥६-५९-१०५॥
स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः ।जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ।। ६.५९.१०७ ।।।। ॥६-५९-१०६॥
स तां विधूमानलसन्निकाशां वित्रासिनीं वानरवाहिनीनाम् ।चिक्षेप शक्तिं तरसाज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ।। ६.५९.१०८ ।।।। ॥६-५९-१०७॥
तामापतन्तीं भरतानुजोग्रैर्जघान बाणैश्च हुताग्निकल्पैः ।तथापि सा तस्य विवेश शक्तिर्बाह्वन्तरं दाशरथेर्विशालम् ।। ६.५९.१०९ ।।।। ॥६-५९-१०८॥
स शक्तिमान् शक्तिसमाहतः सन् मुहुः प्रजज्वाल रघुप्रवीरः ।तं विह्वलन्तं सहसा ऽभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ।। ६.५९.११० ।।।। ॥६-५९-१०९॥
हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ।शक्यं भुजाभ्यामुद्धर्तु न सङ्ख्ये भरतानुजः ।। ६.५९.१११ ।।।। ॥६-५९-११०॥
शक्त्या ब्राह्म्या ऽपि सौमित्रिस्ताडितस्तु स्तनान्तरे ।विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् ।। ६.५९.११२ ।।।। ॥६-५९-१११॥
ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः ।तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घने ऽभवत् ।अथैवं वैष्णवं भागं मानुषं देहमास्थितम् ।। ६.५९.११३ ।।।। ॥६-५९-११२॥
अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् ।आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ।। ६.५९.११४ ।।।। ॥६-५९-११३॥
तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ।जानुभ्यामपतद्भूमौ चचाल च पपात च ।। ६.५९.११५ ।।।। ॥६-५९-११४॥
आस्यैः सनेत्रश्रवणैर्ववाम रुधिरं बहु ।। ६.५९.११६ ।।।। ॥६-५९-११५॥
विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ।विसञ्ज्ञो मूर्च्छितश्चासीन्न च स्थानं समालभत् ।। ६.५९.११७ ।।।। ॥६-५९-११६॥
विसञ्ज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ।ऋषयो वानराः सर्वे नेदुर्देवाः सवासवाः ।। ६.५९.११८ ।।।। ॥६-५९-११७॥
हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ।अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ।। ६.५९.११९ ।।।। ॥६-५९-११८॥
वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।शत्रूणामप्रकम्प्यो ऽपि लघुत्वमगमत् कपेः ।। ६.५९.१२० ।।।। ॥६-५९-११९॥
तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।रावणस्य रथे तस्मिन् स्थानं पुनरुपागता ।। ६.५९.१२१ ।।।। ॥६-५९-१२०॥
आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ।। ६.५९.१२२ ।।।। ॥६-५९-१२१॥
रावणो ऽपि महातेजाः प्राप्य सञ्ज्ञां महाहवे ।आददे निशितान् बाणान् जग्राह च महद्धनुः ।। ६.५९.१२३ ।।।। ॥६-५९-१२२॥
निपातितमहावीरां द्रवन्तीं वानरीं चमूम् ।राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ।। ६.५९.१२४ ।।।। ॥६-५९-१२३॥
अथैनमुपसङ्गम्य हनुमान् वाक्यमब्रवीत् ।मम पृष्टं समारुह्य राक्षसं शास्तुमर्हसि ।। ६.५९.१२५ ।।।। ॥६-५९-१२४॥
विष्णुर्यथा गरुत्मन्तं बलवन्तं समाहितः ।तच्छुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ।आरुरोह महाशूरो बलवन्तं महाकपिम् ।। ६.५९.१२६ ।।।। ॥६-५९-१२५॥
रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः ।। ६.५९.१२७ ।।।। ॥६-५९-१२६॥
ा राघवो वाक्यं वायुपुत्रेण भाषितम् ।तमालोक्य माहतेजाः प्रदुद्राव स राघवः ।वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ।। ६.५९.१२८ ।।।। ॥६-५९-१२७॥
ज्याशब्दमकरोत्तीवं वज्रनिष्पेषनिस्वनम् ।। ६.५९.१२९ ।।।। ॥६-५९-१२८॥
गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ।। ६.५९.१३० ।। ।।। ॥६-५९-१२९॥
तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीद्दशम् ।क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ।। ६.५९.१३१ ।।।। ॥६-५९-१३०॥
यदीन्द्रवैवस्वतभास्करान् वा स्वयम्भुवैश्वानरशङ्करान् वा ।गमिष्यसि त्वं दश वा दिशो ऽथवा तथापि मे नाद्य गतो विमोक्ष्यसे ।। ६.५९.१३२ ।।।। ॥६-५९-१३१॥
यश्चैव शक्त्या ऽभिहतस्त्वया ऽद्य इच्छन् विषादं सहसा ऽभ्युपेतः ।स एव रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्ययुद्धे ।। ६.५९.१३३ ।।।। ॥६-५९-१३२॥
एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि ।चतुर्दशान्यात्तवरायुधानि रक्षस्सहस्राणि निषूदितानि ।। ६.५९.१३४ ।।।। ॥६-५९-१३३॥
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् ।वायुपुत्रं महावीर्यं वहन्तं राघवं रणे ।आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ।। ६.५९.१३५ ।।।। ॥६-५९-१३४॥
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ।स्वभावतेजोयुक्तस्य भूयस्तेजो ऽभ्यवर्धत ।। ६.५९.१३६ ।।।। ॥६-५९-१३५॥
ततो रामो महातेजा रावणेन कृतव्रणम् ।दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ।। ६.५९.१३७ ।।।। ॥६-५९-१३६॥
तस्याभिचङ्क्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् ।ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ।। ६.५९.१३८ ।।।। ॥६-५९-१३७॥
अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसन्निभेन ।भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ।। ६.५९.१३९ ।।।। ॥६-५९-१३८॥
यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा ।स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ।। ६.५९.१४० ।।।। ॥६-५९-१३९॥
तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् ।तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा ।। ६.५९.१४१ ।।।। ॥६-५९-१४०॥
तं निर्विषाशीविषसन्निकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् ।गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ।। ६.५९.१४२ ।।।। ॥६-५९-१४१॥
कृतं त्वया कर्म महत् सुभीमं हतप्रवीरश्च कृतस्त्वया ऽहम् ।तस्मात् परिश्रान्त इव व्यवस्य न त्वां शरैर्मृत्युवशं नयामि ।। ६.५९.१४३ ।।।। ॥६-५९-१४२॥
गच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् ।आश्वास्य निर्याहि रथी च धन्वी तदा बलं द्रक्ष्यसि मे रथस्थः ।। ६.५९.१४४ ।।।। ॥६-५९-१४३॥
स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः ।शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स राजा ।। ६.५९.१४५ ।।।। ॥६-५९-१४४॥
तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ ।हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परमाहवाग्रे ।। ६.५९.१४६ ।।।। ॥६-५९-१४५॥
तस्मिन् प्रभिन्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च ।ससागराः सर्षिमहोरागाश्च तथैव भूम्यम्बुचराश्च हृष्टाः ॥६-५९-१४६॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 58
- Next: Yuddha-Kāṇḍa Sarga 60 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷