🪷 युद्धकाण्ड · Sarga 58
Yuddha-Kāṇḍa · The Book of War · Sarga 58 · 60 ślokas
🪷 Devanāgarī Ślokas
ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् ।उवाच सस्मितं रामो विभीषणमरिन्दमः ।। ६.५८.१ ।।।। ॥६-५८-१॥
क एष सुमहाकायो बलेन महता वृतः ।आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ।। ६.५८.२ ।।।। ॥६-५८-२॥
राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ।। ६.५८.३ ।।।। ॥६-५८-३॥
एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ।लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः ।वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे ।। ६.५८.४ ।।।। ॥६-५८-४॥
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् ।गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ।। ६.५८.५ ।।।। ॥६-५८-५॥
ददर्श महती सेना वानराणां बलीयसाम् ।अतिसञ्जातरोषाणां प्रहस्तमभिगर्जताम् ।। ६.५८.६ ।।।। ॥६-५८-६॥
खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च ।गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ।। ६.५८.७ ।।।। ॥६-५८-७॥
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् ।प्रगृहीतान्यशोभन्त वानरानभिधावताम् ।। ६.५८.८ ।।।। ॥६-५८-८॥
जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः ।शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ।। ६.५८.९ ।।।। ॥६-५८-९॥
तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् ।बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ।। ६.५८.१० ।।।। ॥६-५८-१०॥
बहवो राक्षसा युद्धे बहून् वानरयूथपान् ।वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ।। ६.५८.११ ।।।। ॥६-५८-११॥
शूलैः प्रमथिताः केचित् केचिच्च परमायुधैः ।परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः ।। ६.५८.१२ ।।।। ॥६-५८-१२॥
निरुच्छ्वासाः कृताः केचित् पतिता धरणीतले ।विभिन्नहृदयाः केचिदिषुसन्धानसन्दिताः ।। ६.५८.१३ ।।।। ॥६-५८-१३॥
केचिद्द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि ।वानरा राक्षसैः शूलैः पार्श्वतश्चावदारिताः ।। ६.५८.१४ ।।।। ॥६-५८-१४॥
वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः ।पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले ।। ६.५८.१५ ।।।। ॥६-५८-१५॥
वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।वैमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ।। ६.५८.१६ ।।।। ॥६-५८-१६॥
आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम् ।बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ।। ६.५८.१७ ।।।। ॥६-५८-१७॥
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ।विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ।। ६.५८.१८ ।।।। ॥६-५८-१८॥
नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ।। ६.५८.१९ ।।।। ॥६-५८-१९॥
तेषामापततां शीघ्रं निघ्नतां चापि वानरान् ।द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ।। ६.५८.२० ।।।। ॥६-५८-२०॥
दुर्मुखः पुनरुत्थाय कपिः स विपुलद्रुमम् ।राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ।। ६.५८.२१ ।।।। ॥६-५८-२१॥
जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् ।पातयामास तेजस्वी महानादस्य वक्षसि ।। ६.५८.२२ ।।।। ॥६-५८-२२॥
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् ।वृक्षेणाभिहतो मूर्ध्नि प्राणान् सन्त्याजयद्रणे ।। ६.५८.२३ ।।।। ॥६-५८-२३॥
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ।चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ।। ६.५८.२४ ।।।। ॥६-५८-२४॥
आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा ।क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ।। ६.५८.२५ ।।।। ॥६-५८-२५॥
महता हि शरौघेण प्रहस्तो युद्धकोविदः ।अर्दयामास सङ्क्रुद्धो वानरान् परमाहवे ।। ६.५८.२६ ।।।। ॥६-५८-२६॥
वानराणां शरीरैश्च राक्षसानां च मेदिनी ।बभूव निचिता घोरा पतितैरिव पर्वतैः ।। ६.५८.२७ ।।।। ॥६-५८-२७॥
सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते ।सञ्छन्ना माधवे मासि पलाशैरिव पुष्पितैः ।। ६.५८.२८ ।।।। ॥६-५८-२८॥
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् ।शोणितौघमहातोयां यमसागरगमिनीम् ।। ६.५८.२९ ।।।। ॥६-५८-२९॥
यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् ।भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ।। ६.५८.३० ।।।। ॥६-५८-३०॥
गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् ।मेदःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् ।तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ।। ६.५८.३१ ।।।। ॥६-५८-३१॥
नदीमिव घनापाये हंससारससेविताम् ।राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ।। ६.५८.३२ ।।।। ॥६-५८-३२॥
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ।। ६.५८.३३ ।।।। ॥६-५८-३३॥
ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम् ।ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ।। ६.५८.३४ ।।।। ॥६-५८-३४॥
उद्धूत इव वायुः खे महदभ्रबलं बलात् ।समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ।रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ।। ६.५८.३५ ।।।। ॥६-५८-३५॥
स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ।नीलाय व्यसृजद्बाणान् प्रहस्तो वाहिनीपतिः ।। ६.५८.३६ ।।।। ॥६-५८-३६॥
ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ।महीं जग्मुर्महावेगा रुषिता इव पन्नगाः ।। ६.५८.३७ ।।।। ॥६-५८-३७॥
नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ।स तं परमदुर्धर्षमापतन्तं महाकपिः ।। ६.५८.३८ ।।।। ॥६-५८-३८॥
प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ।। ६.५८.३९ ।।।। ॥६-५८-३९॥
स तेनाभिहतः क्रुद्धो नदन् राक्षसपुङ्गवः ।ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ।। ६.५८.४० ।।।। ॥६-५८-४०॥
तस्य बाणगणान् घोरान् राक्षसस्य महाबलः ।अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः ।। ६.५८.४१ ।।।। ॥६-५८-४१॥
यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ।एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ।निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ।। ६.५८.४२ ।।।। ॥६-५८-४२॥
रोषितः शरवर्षेण सालेन महता महान् ।प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ।। ६.५८.४३ ।।।। ॥६-५८-४३॥
ततः स चापमुद्गृह्य प्रहस्तस्य महाबलः ।बभञ्ज तरसा नीलो ननाद च पुनःपुनः ।। ६.५८.४४ ।।।। ॥६-५८-४४॥
विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ।प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ।। ६.५८.४५ ।।।। ॥६-५८-४५॥
तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ ।स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ।। ६.५८.४६ ।।।। ॥६-५८-४६॥
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ।सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ।। ६.५८.४७ ।।।। ॥६-५८-४७॥
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ ।काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ।। ६.५८.४८ ।।।। ॥६-५८-४८॥
आजघान तदा नीलं ललाटे मुसलेन सः ।प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ।। ६.५८.४९ ।।।। ॥६-५८-४९॥
ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ।प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ।। ६.५८.५० ।।।। ॥६-५८-५०॥
तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत् ।अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् ।। ६.५८.५१ ।।।। ॥६-५८-५१॥
तमुग्रवेगं संरब्धमापतन्तं महाकपिः ।ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ।। ६.५८.५२ ।।।। ॥६-५८-५२॥
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ।प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ।। ६.५८.५३ ।।।। ॥६-५८-५३॥
सा तेन कपिमुख्येन विमुक्ता महती शिला ।बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ।। ६.५८.५४ ।।।। ॥६-५८-५४॥
स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ।पपात सहसा भूमौ छिन्नमूल इव द्रुमः ।। ६.५८.५५ ।।।। ॥६-५८-५५॥
प्रभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् ।शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ।। ६.५८.५६ ।।।। ॥६-५८-५६॥
हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् ।रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ।। ६.५८.५७ ।।।। ॥६-५८-५७॥
न शेकुः समरे स्थातुं निहते वाहिनीपतौ ।सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा ।। ६.५८.५८ ।।।। ॥६-५८-५८॥
हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः ।रक्षःपतिगृहं गत्वा ध्यानमूकत्वमास्थिताः ।प्राप्ताः शोकार्णवं तीव्रं निस्सञ्ज्ञा इव ते ऽभवन् ।। ६.५८.५९ ।।।। ॥६-५८-५९॥
ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा ।समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ॥६-५८-६०॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 57
- Next: Yuddha-Kāṇḍa Sarga 59 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷