🪷 युद्धकाण्ड · Sarga 57

Yuddha-Kāṇḍa · The Book of War · Sarga 57 · 46 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.57.1
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः ।किञ्चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ।। ६.५७.१ ।।।। ॥६-५७-१॥
Vālmīki 6.57.2
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च ।ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः ।पुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम् ।। ६.५७.२ ।।।। ॥६-५७-२॥
Vālmīki 6.57.3
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् ।ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ।। ६.५७.३ ।।।। ॥६-५७-३॥
Vālmīki 6.57.4
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः ।उवाचामर्षतः काले प्रहस्तं युद्धकोविदम् ।। ६.५७.४ ।।।। ॥६-५७-४॥
Vālmīki 6.57.5
पुरस्योपनिविष्टस्य सहसा पीडितस्य वा ।नान्यं युद्धात् प्रपश्यामि मोक्षं युद्धविशारद ।। ६.५७.५ ।।।। ॥६-५७-५॥
Vālmīki 6.57.6
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ।इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ।। ६.५७.६ ।।।। ॥६-५७-६॥
Vālmīki 6.57.7
स त्वं बलमतः शीघ्रमादाय परिगृह्य च ।विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ।। ६.५७.७ ।।।। ॥६-५७-७॥
Vālmīki 6.57.8
निर्याणादेव ते नूनं चपला हरिवाहिनी ।नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ।। ६.५७.८ ।।।। ॥६-५७-८॥
Vālmīki 6.57.9
चपला ह्यविनीताश्च चलचित्ताश्च वानराः ।न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ।। ६.५७.९ ।।।। ॥६-५७-९॥
Vālmīki 6.57.10
विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह ।अवशस्ते निरालम्बः प्रहस्त वशमेष्यति ।। ६.५७.१० ।।।। ॥६-५७-१०॥
Vālmīki 6.57.11
आपत् संशयिता श्रेयो न तु निस्संशयीकृता ।प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ।। ६.५७.११ ।।।। ॥६-५७-११॥
Vālmīki 6.57.12
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ।राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ।। ६.५७.१२ ।।।। ॥६-५७-१२॥
Vālmīki 6.57.13
राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः ।विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ।। ६.५७.१३ ।।।। ॥६-५७-१३॥
Vālmīki 6.57.14
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ।अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ।। ६.५७.१४ ।।।। ॥६-५७-१४॥
Vālmīki 6.57.15
सो ऽहं दानैश्च मानैश्च सततं पूजितस्त्वया ।सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ।। ६.५७.१५ ।।।। ॥६-५७-१५॥
Vālmīki 6.57.16
न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा ।त्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि ।। ६.५७.१६ ।।।। ॥६-५७-१६॥
Vālmīki 6.57.17
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ।उवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान् ।। ६.५७.१७ ।।।। ॥६-५७-१७॥
Vālmīki 6.57.18
समानयत मे शीघ्रं राक्षसानां महद्बलम् ।। ६.५७.१८ ।।।। ॥६-५७-१८॥
Vālmīki 6.57.19
मद्बाणशतवेगेन हतानां च रणाजिरे ।अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् ।। ६.५७.१९ ।।।। ॥६-५७-१९॥
Vālmīki 6.57.20
इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः ।बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे ।। ६.५७.२० ।।।। ॥६-५७-२०॥
Vālmīki 6.57.21
सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ।लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ।। ६.५७.२१ ।।।। ॥६-५७-२१॥
Vālmīki 6.57.22
हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ।आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ।। ६.५७.२२ ।।।। ॥६-५७-२२॥
Vālmīki 6.57.23
स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ।सङ्ग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा ।। ६.५७.२३ ।।।। ॥६-५७-२३॥
Vālmīki 6.57.24
सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ।रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ।। ६.५७.२४ ।।।। ॥६-५७-२४॥
Vālmīki 6.57.25
अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ।आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ।। ६.५७.२५ ।।।। ॥६-५७-२५॥
Vālmīki 6.57.26
हयैर्महाजवैर्युक्तं सम्यक् सूतसुसंयतम् ।महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ।। ६.५७.२६ ।।।। ॥६-५७-२६॥
Vālmīki 6.57.27
उरगध्वजदुर्द्धर्षं सुवरूथं स्वपस्करम् ।सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ।। ६.५७.२७ ।।।। ॥६-५७-२७॥
Vālmīki 6.57.28
ततस्तं रथमास्थाय रावणार्पितशासनः ।लङ्काया निर्ययौ तूर्णं बलेन महता वृतः ।। ६.५७.२८ ।।।। ॥६-५७-२८॥
Vālmīki 6.57.29
ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः ।वादित्राणां च निनदः पूरयन्निव सागरम् ।शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ।। ६.५७.२९ ।।।। ॥६-५७-२९॥
Vālmīki 6.57.30
निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः ।भीमरूपा महाकायाः प्रहस्तस्य पुरस्सराः ।। ६.५७.३० ।।।। ॥६-५७-३०॥
Vālmīki 6.57.31
नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ।। ६.५७.३१ ।।।। ॥६-५७-३१॥
Vālmīki 6.57.32
व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ ।गजयूथनिकाशेन बलेन महता वृतः ।। ६.५७.३२ ।।।। ॥६-५७-३२॥
Vālmīki 6.57.33
सागरप्रतिमौघेन वृतस्तेन बलेन सः ।प्रहस्तो निर्ययौ तूर्णं कालान्तकयमोपमः ।। ६.५७.३३ ।।।। ॥६-५७-३३॥
Vālmīki 6.57.34
तस्य निर्याणघोषेण राक्षसानां च नर्दताम् ।लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ।। ६.५७.३४ ।।।। ॥६-५७-३४॥
Vālmīki 6.57.35
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः ।मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ।। ६.५७.३५ ।।।। ॥६-५७-३५॥
Vālmīki 6.57.36
वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ।अन्तरिक्षात् पपातोल्का वायुश्च परुषो ववौ ।। ६.५७.३६ ।।।। ॥६-५७-३६॥
Vālmīki 6.57.37
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ।। ६.५७.३७ ।।।। ॥६-५७-३७॥
Vālmīki 6.57.38
मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ।ववृषू रुधिरं चास्य सिषिचुश्च पुरस्सरान् ।। ६.५७.३८ ।।।। ॥६-५७-३८॥
Vālmīki 6.57.39
केतुमूर्धनि गृध्रो ऽस्य निलीनो दक्षिणामुखः ।तुदन्नुभयतः पार्श्वं समग्रामहरत् प्रभाम् ।। ६.५७.३९ ।।।। ॥६-५७-३९॥
Vālmīki 6.57.40
सारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः ।प्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः ।। ६.५७.४० ।।।। ॥६-५७-४०॥
Vālmīki 6.57.41
निर्याणश्रीश्च या ऽस्यासीद्भास्वरा वसुदुर्लभा ।सा ननाश मुहूर्तेन समे च स्खलिता हयाः ।। ६.५७.४१ ।।।। ॥६-५७-४१॥
Vālmīki 6.57.42
प्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम् ।युधि नानाप्रहरणा कपिसेना ऽभ्यवर्तत ।। ६.५७.४२ ।।।। ॥६-५७-४२॥
Vālmīki 6.57.43
अथ घोषः सुतुमुलो हरीणां समजायत ।वृक्षानारुजतां चैव गुर्वीरागृह्णतां शिलाः ।। ६.५७.४३ ।।।। ॥६-५७-४३॥
Vālmīki 6.57.44
नदतां राक्षसानां च वानराणां च गर्जताम् ।उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ।। ६.५७.४४ ।।।। ॥६-५७-४४॥
Vālmīki 6.57.45
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् ।परस्परं चाह्वयतां निनादः श्रूयते महान् ।। ६.५७.४५ ।।।। ॥६-५७-४५॥
Vālmīki 6.57.46
ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः ।विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ॥६-५७-४६॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷