🪷 युद्धकाण्ड · Sarga 56

Yuddha-Kāṇḍa · The Book of War · Sarga 56 · 39 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.56.1
तद्दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः ।क्रोधमाहारयामास युधि तीव्रमकम्पनः ।। ६.५६.१ ।।।। ॥६-५६-१॥
Vālmīki 6.56.2
क्रोधमूर्च्छितरूपस्तु धून्वन् परमकार्मुकम् ।दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ।। ६.५६.२ ।।।। ॥६-५६-२॥
Vālmīki 6.56.3
तत्रैव तावत्त्वरितं रथं प्रापय सारथे ।यत्रैते बहवो घ्नन्ति सुबहून् राक्षसान् रणे ।। ६.५६.३ ।।।। ॥६-५६-३॥
Vālmīki 6.56.4
एते ऽत्र बलवन्तो हि भीमकायाश्च वानराः ।द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ।। ६.५६.४ ।।।। ॥६-५६-४॥
Vālmīki 6.56.5
एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ।। ६.५६.५ ।।।। ॥६-५६-५॥
Vālmīki 6.56.6
ततः प्रजवनाश्वेन रथेन रथिनां वरः ।हरीनभ्यहनत् क्रोधाच्छरजालैरकम्पनः ।। ६.५६.६ ।।।। ॥६-५६-६॥
Vālmīki 6.56.7
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ।। ६.५६.७ ।।।। ॥६-५६-७॥
Vālmīki 6.56.8
तान् मृत्युवशमापन्नानकम्पनवशं गतान् ।समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ।। ६.५६.८ ।।।। ॥६-५६-८॥
Vālmīki 6.56.9
तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः ।समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ।। ६.५६.९ ।।।। ॥६-५६-९॥
Vālmīki 6.56.10
अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः ।बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ।। ६.५६.१० ।।।। ॥६-५६-१०॥
Vālmīki 6.56.11
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ।महेन्द्र इव धाराभिः शरैरभिववर्ष ह ।। ६.५६.११ ।।।। ॥६-५६-११॥
Vālmīki 6.56.12
अचिन्तयित्वा बाणौघान् शरीरे पतितान् शितान् ।अकम्पनवधार्थाय मनो दध्रे महाबलः ।। ६.५६.१२ ।।।। ॥६-५६-१२॥
Vālmīki 6.56.13
स प्रसह्य महातेजा हनूमान् मारुतात्मजः ।अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ।। ६.५६.१३ ।।।। ॥६-५६-१३॥
Vālmīki 6.56.14
तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ।बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ।। ६.५६.१४ ।।।। ॥६-५६-१४॥
Vālmīki 6.56.15
आत्मानमप्रहरणं ज्ञात्वा क्रोधसमन्वितः ।शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ।। ६.५६.१५ ।।।। ॥६-५६-१५॥
Vālmīki 6.56.16
तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः ।स विनद्य महानादं भ्रामयामास वीर्यवान् ।। ६.५६.१६ ।।।। ॥६-५६-१६॥
Vālmīki 6.56.17
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ।पुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ।। ६.५६.१७ ।।।। ॥६-५६-१७॥
Vālmīki 6.56.18
अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् ।दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ।। ६.५६.१८ ।।।। ॥६-५६-१८॥
Vālmīki 6.56.19
तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् ।विशीर्णं पतितं दृष्ट्वा हनुमान् क्रोधमूर्च्छितः ।। ६.५६.१९ ।।।। ॥६-५६-१९॥
Vālmīki 6.56.20
सो ऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ।तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ।। ६.५६.२० ।।।। ॥६-५६-२०॥
Vālmīki 6.56.21
तं गृहीत्वा महास्कन्धं सो ऽश्वकर्णं महाद्युतिः ।प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ।। ६.५६.२१ ।।।। ॥६-५६-२१॥
Vālmīki 6.56.22
प्रधावन्नूरुवेगेन प्रभञ्जंस्तरसा द्रुमान् ।हनुमान् परमक्रुद्धश्चरणैर्दारयत् क्षितिम् ।। ६.५६.२२ ।।।। ॥६-५६-२२॥
Vālmīki 6.56.23
गजांश्च सगजारोहान् सरथान् रथिनस्तथा ।जघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ।। ६.५६.२३ ।।।। ॥६-५६-२३॥
Vālmīki 6.56.24
तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् ।हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ।। ६.५६.२४ ।।।। ॥६-५६-२४॥
Vālmīki 6.56.25
तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् ।ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ।। ६.५६.२५ ।।।। ॥६-५६-२५॥
Vālmīki 6.56.26
स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः ।निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ।। ६.५६.२६ ।।।। ॥६-५६-२६॥
Vālmīki 6.56.27
स तदा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः ।हनुमान् ददृशे वीरः प्ररूढ इव सानुमान् ।। ६.५६.२७ ।।।। ॥६-५६-२७॥
Vālmīki 6.56.28
विरराज महाकायो महावीर्यो महामनाः ।पुष्पिताशोकसङ्काशो विधूम इव पावकः ।। ६.५६.२८ ।।।। ॥६-५६-२८॥
Vālmīki 6.56.29
ततो ऽन्यं वृक्षमुत्पाट्य कत्वा वेगमनुत्तमम् ।शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ।। ६.५६.२९ ।।।। ॥६-५६-२९॥
Vālmīki 6.56.30
स वृक्षेण हतस्तेन सक्रोधेन महात्मना ।राक्षशो वानरेन्द्रेण पपात च ममार च ।। ६.५६.३० ।।।। ॥६-५६-३०॥
Vālmīki 6.56.31
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ।व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ।। ६.५६.३१ ।।।। ॥६-५६-३१॥
Vālmīki 6.56.32
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ।लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ।। ६.५६.३२ ।।।। ॥६-५६-३२॥
Vālmīki 6.56.33
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः ।स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ।। ६.५६.३३ ।।।। ॥६-५६-३३॥
Vālmīki 6.56.34
अन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात् ।पृष्ठतस्ते सुसम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ।। ६.५६.३४ ।।।। ॥६-५६-३४॥
Vālmīki 6.56.35
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ।समेत्य हरयः सर्वे हनुमन्तमपूजयन् ।। ६.५६.३५ ।।।। ॥६-५६-३५॥
Vālmīki 6.56.36
सो ऽपि प्रहृष्टस्तान् सर्वान् हरीन् प्रत्यभ्यपूजयत् ।हनुमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ।। ६.५६.३६ ।।।। ॥६-५६-३६॥
Vālmīki 6.56.37
विनेदुश्च यथाप्राणं हरयो जितकाशिनः ।चकर्षुश्च पुनस्तत्र सप्राणानपि राक्षसान् ।। ६.५६.३७ ।।।। ॥६-५६-३७॥
Vālmīki 6.56.38
स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः ।महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ।। ६.५६.३८ ।।।। ॥६-५६-३८॥
Vālmīki 6.56.39
अपूजयन् देवगणास्तदा कपिं स्वयं च रामो ऽतिबलश्च लक्ष्मणः ।तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ॥६-५६-३९॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷