🪷 युद्धकाण्ड · Sarga 55
Yuddha-Kāṇḍa · The Book of War · Sarga 55 · 31 ślokas
🪷 Devanāgarī Ślokas
वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः ।बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ।। ६.५५.१ ।।।। ॥६-५५-१॥
शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः ।अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ।। ६.५५.२ ।।।। ॥६-५५-२॥
एष शास्ता च गोप्ता च नेता च युधि सम्मतः ।भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ।। ६.५५.३ ।।।। ॥६-५५-३॥
एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ।वानरांश्चापरान् घोरान् हनिष्यति परन्तपः ।। ६.५५.४ ।।।। ॥६-५५-४॥
परिगृह्य स तामाज्ञां रावणस्य महाबलः ।बलं सन्त्वरयामास तदा लघुपराक्रमः ।। ६.५५.५ ।।।। ॥६-५५-५॥
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ।निष्पेतू रक्षसां मुख्या बलाध्यक्षप्रचोदिताः ।। ६.५५.६ ।।।। ॥६-५५-६॥
रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः ।मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ।राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः ।। ६.५५.७ ।।।। ॥६-५५-७॥
न हि कम्पयितुं शक्यः सुरैरपि महामृधे ।अकम्पनस्ततस्तेषामादित्य इव तेजसा ।। ६.५५.८ ।।।। ॥६-५५-८॥
तस्य निर्धावमानस्य संरब्धस्य युयत्सया ।अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् ।। ६.५५.९ ।।।। ॥६-५५-९॥
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ।विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः ।। ६.५५.१० ।।।। ॥६-५५-१०॥
अभवत् सुदिने चापि दुर्दिनं रूक्षमारुतम् ।ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः ।। ६.५५.११ ।।।। ॥६-५५-११॥
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ।तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ।। ६.५५.१२ ।।।। ॥६-५५-१२॥
तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ।बभूव सुमहान्नादः क्षोभयन्निव सागरम् ।। ६.५५.१३ ।।।। ॥६-५५-१३॥
तेन शब्देन वित्रस्ता वानराणां महाचमूः ।द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ।। ६.५५.१४ ।।।। ॥६-५५-१४॥
तेषां युद्धं महारौद्रं सञ्जज्ञे हरिरक्षसाम् ।रामरावणयोरर्थे समभित्यक्तजीविनाम् ।। ६.५५.१५ ।।।। ॥६-५५-१५॥
सर्वे ह्यति बलाः शूराः सर्वे पर्वतसन्निभाः ।हरयो राक्षसाश्चैव परस्परजिघांसवः ।। ६.५५.१६ ।।।। ॥६-५५-१६॥
तेषां विनर्दतां शब्दः संयुगे ऽतितरस्विनाम् ।सुश्रुवे सुमहान् क्रोधादन्योन्यमभिगर्जताम् ।। ६.५५.१७ ।।।। ॥६-५५-१७॥
रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ।उद्भूतं हरिरक्षोभिः संरुरोध दिशो दश ।। ६.५५.१८ ।।।। ॥६-५५-१८॥
अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ।संवृतानि च भूतानि ददृशुर्न रणाजिरे ।। ६.५५.१९ ।।।। ॥६-५५-१९॥
न ध्वजा न पताका वा चर्म वा तुरगो ऽपि वा ।आयुधं स्यन्दनं वा ऽपि ददृशे तेन रेणुना ।। ६.५५.२० ।।।। ॥६-५५-२०॥
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ।श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ।। ६.५५.२१ ।।।। ॥६-५५-२१॥
हरीनेव सुसङ्क्रुद्धा हरयो जघ्नुराहवे ।राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा ।। ६.५५.२२ ।।।। ॥६-५५-२२॥
परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ।रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम् ।। ६.५५.२३ ।।।। ॥६-५५-२३॥
ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ।शरीरशवसङ्कीर्णा बभूव च वसुन्धरा ।। ६.५५.२४ ।।।। ॥६-५५-२४॥
द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ।हरयो राक्षसाश्चैव जघ्नुरन्योन्यमोजसा ।। ६.५५.२५ ।।।। ॥६-५५-२५॥
बाहुभिः परिघाकारैर्युद्ध्यन्तः पर्वतोपमाः ।हरयो भीमकर्माणो राक्षसान् जघ्नुराहवे ।। ६.५५.२६ ।।।। ॥६-५५-२६॥
राक्षसास्त्वपि सङ्क्रुद्धाः प्रासतोमरपाणयः ।कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः ।। ६.५५.२७ ।।।। ॥६-५५-२७॥
अकम्पनः सुसङ्क्रुद्धो राक्षसानां चमूपतिः ।संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् ।। ६.५५.२८ ।।।। ॥६-५५-२८॥
हरयस्त्वपि सक्षांसि महाद्रुममहाश्मभिः ।विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ।। ६.५५.२९ ।।।। ॥६-५५-२९॥
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ।मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ।। ६.५५.३० ।।।। ॥६-५५-३०॥
ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ।कदनं सुमहच्चक्रुर्लीलया हरियूथपाः ।ममन्थू राक्षसान् सर्वे वानरा गणशो भृशम् ॥६-५५-३१॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 54
- Next: Yuddha-Kāṇḍa Sarga 56 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷