🪷 युद्धकाण्ड · Sarga 54
Yuddha-Kāṇḍa · The Book of War · Sarga 54 · 38 ślokas
🪷 Devanāgarī Ślokas
बलस्य च निघातेन अङ्गदस्य जयेन च ।राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ।। ६.५४.१ ।।।। ॥६-५४-१॥
स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् ।वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ।। ६.५४.२ ।।।। ॥६-५४-२॥
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः ।नानाप्रहरणाः शूराः प्रायुद्ध्यन्त तदा रणे ।। ६.५४.३ ।।।। ॥६-५४-३॥
वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः ।आयुद्ध्यन्त शिलाहस्ताः समवेताः समन्ततः ।। ६.५४.४ ।।।। ॥६-५४-४॥
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् ।राक्षसाः कपिमुख्येषु पातयाञ्चक्रिरे तदा ।। ६.५४.५ ।।।। ॥६-५४-५॥
वानराश्चापि रक्षस्सु गिरीन् वृक्षान् महाशिलाः ।प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ।। ६.५४.६ ।।।। ॥६-५४-६॥
शूराणां युद्ध्यमानानां समरेष्वनिवर्तिनाम् ।तद्राक्षसगणानां च सुयुद्धं समवर्तत ।। ६.५४.७ ।।।। ॥६-५४-७॥
प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः ।शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ।। ६.५४.८ ।।।। ॥६-५४-८॥
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः ।कङ्कगृध्रवलैराढ्या गोमायुगणसङ्कुलाः ।। ६.५४.९ ।।।। ॥६-५४-९॥
कबन्धानि समुत्पेतुर्भीरुणां भीषणानि वै ।। ६.५४.१० ।।।। ॥६-५४-१०॥
भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ।वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ।। ६.५४.११ ।।।। ॥६-५४-११॥
ततो वानरसैन्येन हन्यमानं निशाचरम् ।प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः ।। ६.५४.१२ ।।।। ॥६-५४-१२॥
राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः ।दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१३ ।।।। ॥६-५४-१३॥
प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम् ।शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ।। ६.५४.१४ ।।।। ॥६-५४-१४॥
बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ।विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१५ ।।।। ॥६-५४-१५॥
त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तकन्धराः ।अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ।। ६.५४.१६ ।।।। ॥६-५४-१६॥
ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा ।क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ।। ६.५४.१७ ।।।। ॥६-५४-१७॥
वज्रदंष्ट्रो ऽङ्गदश्चोभौ सङ्गतौ हरिराक्षसौ ।चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ।। ६.५४.१८ ।।।। ॥६-५४-१८॥
ततः शरसहस्रेण वालिपुत्रं महाबलः ।जघान मर्मदेशेषु मातङ्गमिव तोमरैः ।। ६.५४.१९ ।।।। ॥६-५४-१९॥
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः ।चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ।। ६.५४.२० ।।।। ॥६-५४-२०॥
दृष्ट्वा ऽ ऽपतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः ।चिच्छेद बहुधा सो ऽपि निकृत्तः पतितो भुवि ।। ६.५४.२१ ।।।। ॥६-५४-२१॥
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ।प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ।। ६.५४.२२ ।।।। ॥६-५४-२२॥
समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ।गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ।। ६.५४.२३ ।।।। ॥६-५४-२३॥
सा ऽङ्गदेन गदा ऽ ऽक्षिप्ता गत्वा तु रणमूर्धनि ।। ६.५४.२४ ।।।। ॥६-५४-२४॥
सचक्रकूबरं साश्वं प्रममाथ रथं तदा ।। ६.५४.२५ ।।।। ॥६-५४-२५॥
ततो ऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ।वज्रदंष्ट्रस्य शिरसि पातयामास सो ऽङ्गदः ।। ६.५४.२६ ।।।। ॥६-५४-२६॥
अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्च्छितः ।मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् ।। ६.५४.२७ ।।।। ॥६-५४-२७॥
स लब्धसञ्ज्ञो गदया वालिपुत्रमवस्थितम् ।जघान परमक्रुद्धो वक्षोदेशे निशाचरः ।गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत ।। ६.५४.२८ ।।।। ॥६-५४-२८॥
अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ।रुधिरोद्गारिणो तौ तु प्रहरैर्जनितश्रमौ ।बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ।। ६.५४.२९ ।।।। ॥६-५४-२९॥
ततः परमतेजस्वी अङ्गदः कपिकुञ्जरः ।उत्पाट्य वृक्षं स्थितवान् बहुपुष्पफलाञ्चितम् ।। ६.५४.३० ।।।। ॥६-५४-३०॥
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ।किङ्किणीजालसञ्छन्नं चर्मणा च परिष्कृतम् ।। ६.५४.३१ ।।।। ॥६-५४-३१॥
विचित्रांश्चेरतुर्मार्गान् रुषितौ कपिराक्षसौ ।जघ्नतुश्च तदा ऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ।। ६.५४.३२ ।।।। ॥६-५४-३२॥
व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ ।युद्ध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ।। ६.५४.३३ ।।।। ॥६-५४-३३॥
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः ।उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ।। ६.५४.३४ ।।।। ॥६-५४-३४॥
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ।जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ।। ६.५४.३५ ।।।। ॥६-५४-३५॥
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा ।सरोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ।। ६.५४.३६ ।।।। ॥६-५४-३६॥
वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः ।त्रस्ताः प्रत्यपतन् लङ्कां वध्यमानाः प्लवङ्गमै ।विषण्णवदना दीना ह्रिया किञ्चिदवाङ्मुखाः ।। ६.५४.३७ ।।।। ॥६-५४-३७॥
निहत्य तं वज्रधरप्रभावः स वालिसूनुः कपिसैन्यमध्ये ।जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ॥६-५४-३८॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 53
- Next: Yuddha-Kāṇḍa Sarga 55 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷