🪷 युद्धकाण्ड · Sarga 53
Yuddha-Kāṇḍa · The Book of War · Sarga 53 · 32 ślokas
🪷 Devanāgarī Ślokas
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः ।क्रोधेन महता ऽ ऽविष्टो निश्वसन्नुरगो यथा ।। ६.५३.१ ।।।। ॥६-५३-१॥
दीर्घमुष्णं विनिश्वस्य क्रोधेन कलुषीकृतः ।अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं महाबलम् ।। ६.५३.२ ।।।। ॥६-५३-२॥
गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः ।जहि दाशरथिं रामं सुग्रीवं वानरैः सह ।। ६.५३.३ ।।।। ॥६-५३-३॥
तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः ।निर्जगाम बलै सार्धं बहुभिः परिवारितः ।। ६.५३.४ ।।।। ॥६-५३-४॥
नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसामाहितः ।पताकाध्वजचित्रैश्च रथैश्च समलङ्कृतः ।। ६.५३.५ ।।।। ॥६-५३-५॥
ततो विचित्रकेयूरमुकुटैश्च विभूषितः ।तनुत्राणि च संरुद्ध्य सधनुर्निर्ययौ द्रुतम् ।। ६.५३.६ ।।।। ॥६-५३-६॥
पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषणम् ।रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ।। ६.५३.७ ।।।। ॥६-५३-७॥
यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि ।भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्टिशैरपि ।। ६.५३.८ ।।।। ॥६-५३-८॥
खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः ।पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ।विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः ।। ६.५३.९ ।।।। ॥६-५३-९॥
गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः ।ते युद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः ।। ६.५३.१० ।।।। ॥६-५३-१०॥
अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः ।। ६.५३.११ ।।।। ॥६-५३-११॥
तद्राक्षसबलं घोरं विप्रस्थितमशोभत ।प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ।। ६.५३.१२ ।।।। ॥६-५३-१२॥
निस्सृता दक्षिणद्वारादङ्गदो यत्र यूथपः ।तेषां निष्क्रममाणानामशुभं समजायत ।। ६.५३.१३ ।।।। ॥६-५३-१३॥
आकाशाद्विघनात्तीव्रा उल्काश्चाभ्यपतंस्तदा ।वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ।। ६.५३.१४ ।।।। ॥६-५३-१४॥
व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा ।समापतन्तो योधास्तु प्रास्खलन् भयमोहिताः ।। ६.५३.१५ ।।।। ॥६-५३-१५॥
एतानौत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः ।धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ।। ६.५३.१६ ।।।। ॥६-५३-१६॥
तांस्तु निष्क्रमतो दृष्ट्वा वानरा जितकाशिनः ।प्रणेदुः सुमहानादान् पूरयंश्च दिशो दश ।। ६.५३.१७ ।।।। ॥६-५३-१७॥
ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह ।घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ।। ६.५३.१८ ।।।। ॥६-५३-१८॥
निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः ।रुधिरोक्षितसर्वाङ्गा न्यपतन् जगतीतले ।। ६.५३.१९ ।।।। ॥६-५३-१९॥
केचिदन्योन्यमासाद्य शूराः परिघपाणयः ।चिक्षिपुर्विविधं शस्त्रं समरेष्वनिवर्तिनः ।। ६.५३.२० ।।।। ॥६-५३-२०॥
द्रुमाणां च शिलानां च शस्त्राणां चापि निस्वनः ।श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ।। ६.५३.२१ ।।।। ॥६-५३-२१॥
रथनेमिस्वनस्तत्र धनुषश्चापि निस्वनः ।शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ।। ६.५३.२२ ।।।। ॥६-५३-२२॥
केचिदस्त्राणि संसृज्य बाहुयुद्धमकुर्वत ।। ६.५३.२३ ।।।। ॥६-५३-२३॥
तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ।जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः ।शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ।। ६.५३.२४ ।।।। ॥६-५३-२४॥
वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन् हरीन् ।चचार लोकसंहारे पाशहस्त इवान्तकः ।। ६.५३.२५ ।।।। ॥६-५३-२५॥
बलवन्तो ऽस्त्रविदुषो नानाप्रहरणा रणे ।जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्च्छिताः ।। ६.५३.२६ ।।।। ॥६-५३-२६॥
निघ्नुतो राक्षसान् दृष्ट्वा सर्वान् वालिसुतो रणे ।क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ।। ६.५३.२७ ।।।। ॥६-५३-२७॥
तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान् ।अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव ।चकार कदनं घोरं शक्रतुल्यपराक्रमः ।। ६.५३.२८ ।।।। ॥६-५३-२८॥
अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ।विभिन्नशिरसः पेतुर्विकृत्ता इव पादपाः ।। ६.५३.२९ ।।िव ।।। ॥६-५३-२९॥
रथैरश्वैर्ध्वजैश्चित्रैः शरीरैर्हरिरक्षसाम् ।रुधिरेण च सञ्छन्ना भूमिर्भयकरी तदा ।। ६.५३.३० ।।।। ॥६-५३-३०॥
हारकेयूरवस्त्रैश्च शस्त्रैश्च समलङ्कृता ।भूमिर्भाति रणे तत्र शारदीव यथा निशा ।। ६.५३.३१ ।।।। ॥६-५३-३१॥
अङ्गदस्य च वेगेन तद्राक्षसबलं महत् ।प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥६-५३-३२॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 52
- Next: Yuddha-Kāṇḍa Sarga 54 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷