🪷 युद्धकाण्ड · Sarga 52
Yuddha-Kāṇḍa · The Book of War · Sarga 52 · 39 ślokas
🪷 Devanāgarī Ślokas
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् ।विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ।। ६.५२.१ ।।।। ॥६-५२-१॥
तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् ।अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ।। ६.५२.२ ।।।। ॥६-५२-२॥
घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः ।राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ।। ६.५२.३ ।।।। ॥६-५२-३॥
वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ।राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ।विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ।। ६.५२.४ ।।।। ॥६-५२-४॥
ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः ।। ६.५२.५ ।।श्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ।।। ॥६-५२-५॥
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ।अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ।। ६.५२.६ ।।।। ॥६-५२-६॥
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ।जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ।। ६.५२.७ ।।।। ॥६-५२-७॥
ते भीमवेगा हरयो नर्दमानास्ततस्ततः ।ममन्थू राक्षसान् भीमान्नामानि च बभाषिरे ।। ६.५२.८ ।।।। ॥६-५२-८॥
तद्वभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ।शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः ।। ६.५२.९ ।।।। ॥६-५२-९॥
राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ।ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः ।। ६.५२.१० ।।।। ॥६-५२-१०॥
पार्श्वेषु दारिताः केचित् केचिद्राशीकृता द्रुमैः ।शिलाभिश्चूर्णिताः केचित् केचिद्दन्तैर्विदारिताः ।। ६.५२.११ ।।।। ॥६-५२-११॥
ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ।रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ।। ६.५२.१२ ।।।। ॥६-५२-१२॥
गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् ।मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ।। ६.५२.१३ ।।।। ॥६-५२-१३॥
वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ।राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ।। ६.५२.१४ ।।।। ॥६-५२-१४॥
विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ।मूढाः शोणितगन्धेन निपेतुर्धरणीतले ।। ६.५२.१५ ।।।। ॥६-५२-१५॥
अन्ये परमसङ्क्रुद्धा राक्षसा भीमनिस्वनाः ।तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ।। ६.५२.१६ ।।।। ॥६-५२-१६॥
वानरैरापतन्तस्ते वेगिता वेगवत्तरैः ।मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ।वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः ।। ६.५२.१७ ।।।। ॥६-५२-१७॥
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः ।क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ।। ६.५२.१८ ।।।। ॥६-५२-१८॥
प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः ।मुद्गरैराहताः केचित् पतिता धरणीतले ।। ६.५२.१९ ।।।। ॥६-५२-१९॥
परिघैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः ।पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ।। ६.५२.२० ।।।। ॥६-५२-२०॥
केचिद्विनिहताः शूलै रुधिरार्द्रा वनौकसः ।केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि ।। ६.५२.२१ ।।।। ॥६-५२-२१॥
विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः ।विदारिता स्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः ।। ६.५२.२२ ।।।। ॥६-५२-२२॥
तत्सुभीमं महायुद्धं हरिराक्षससङ्कुलम् ।प्रबभौ शब्दबहुलं शिलापादपसङ्कुलम् ।। ६.५२.२३ ।।।। ॥६-५२-२३॥
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।मन्दस्तनितसङ्गीतं युद्धगान्धर्वमाबभौ ।। ६.५२.२४ ।।।। ॥६-५२-२४॥
धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि ।हसन् विद्रावयामास दिशस्तु शरवृष्टिभिः ।। ६.५२.२५ ।।।। ॥६-५२-२५॥
धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः ।अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ।। ६.५२.२६ ।।।। ॥६-५२-२६॥
क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः ।शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ।। ६.५२.२७ ।।।। ॥६-५२-२७॥
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् ।रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ।। ६.५२.२८ ।।।। ॥६-५२-२८॥
सा प्रमथ्य रथं तस्य निपपात शिला भुवि ।सचक्रकूबरं साश्वं सध्वजं सशरासनम् ।। ६.५२.२९ ।।।। ॥६-५२-२९॥
स भङ्क्त्वा तु रथं तस्य हनुमान् मारुतात्मजः ।रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ।। ६.५२.३० ।।।। ॥६-५२-३०॥
विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ।द्रुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ।। ६.५२.३१ ।।।। ॥६-५२-३१॥
विद्राव्य रासक्षं सैन्यं हनुमान् मारुतात्मजः ।गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ।। ६.५२.३२ ।।।। ॥६-५२-३२॥
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ।विनर्दमानः सहसा हनुमन्तमभिद्रवत् ।। ६.५२.३३ ।।।। ॥६-५२-३३॥
ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ।पातयामास धूम्राक्षो मस्तके तु हनूमतः ।। ६.५२.३४ ।।।। ॥६-५२-३४॥
ताडितः स तया तत्र गदया भीमरूपया ।। ६.५२.३५ ।।।। ॥६-५२-३५॥
स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् ।। ६.५२.३६ ।।।। ॥६-५२-३६॥
स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।पपात सहसा भूमौ विकीर्ण इव पर्वतः ।। ६.५२.३७ ।।।। ॥६-५२-३७॥
धूम्राक्षं निहतं दृष्टवा हतशेषा निशाचराः ।त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ।। ६.५२.३८ ।।।। ॥६-५२-३८॥
स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च सन्निकीर्य ।रिपुवधजनितश्रमो महात्मा मुदमगमत् कपिभिश्च पूज्यमानः ॥६-५२-३९॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 51
- Next: Yuddha-Kāṇḍa Sarga 53 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷